सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 286, कुल 837 में से
संदर्भ में पढ़ेंनवमः परिच्छेदः २२७
सूक्ष्मत्वेन च निश्शेषं प्रत्येकस्मिन् हि वर्तते ॥ १३३ ॥
समाश्रित्य बृहत्त्वं च तृतीयांशेन तिष्ठति ।
सर्गत्रयविवरणं तत्र सूक्ष्मस्थूलभेदेनावस्थानं चाह—पौष्कराख्य इति सार्धेन ।
पौष्करे पाद्मकल्प इत्यर्थः । प्राजापत्ये ब्राह्मकल्प इत्यर्थः । यथा च श्रीभागवते—
पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।
कल्पो यत्राऽभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः ॥
तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते ।
यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥
अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।
वाराह इति विख्यातो यत्रासीत् सूकरो हरिः ॥ (३।११।३४-३६)
इति ॥ १३३-१३४ ॥
हे महामते! वह पद्मकल्प, ब्रह्मकल्प, तथा वाराहकल्प इन तीनों सर्गों में
सूक्ष्म रूप से तथा स्थूल रूप से प्रत्येक में वर्त्तमान रहता है ॥ १३३ ॥
वह बृहत्त्व का आश्रय लेकर तृतीय अंश (=स्थूल रूप) से तीनों कल्पों में
रहता है ॥ १३४ ॥
यथोक्तक्रमयोगेन युक्तः सर्गत्रये तु वै ॥ १३४ ॥
परिवारं समादाय भवोपरणान्वितम् ।
दिक्पालकगणोपेतं समाक्रम्य तमेव हि ॥ १३५ ॥
पौष्करादिसर्गत्रयेऽपि पूर्वोक्तलक्ष्मादिपरिवारसंग्रहणमाह—
यथोक्तेति ॥ १३४-१३५ ॥
वह पारमेश्वर विभव तीनों पौष्करादि सर्गों में अपने श्री आदि परिवार के
साथ काल आदि भवोकरण (द्र. ९.९०-९५) एवं दिक्पालगण आदिकों को
अपने वश में करके स्थित रहता है ॥ १३४-१३५ ॥
अभिधानाक्षरं पूर्वमरान्ताद्येन भूषितम् ।
योक्तव्यमभिधानेन पूर्वोद्दिष्टेन वर्त्मना ।
पूजार्थं चैव सर्वेषां क्रमेऽस्मिन् सम्प्रकाशितम् ॥ १३६ ॥
॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतान्तर्यागो नाम
नवमः परिच्छेदः ॥ ९ ॥
— ൘ ❀ ൘ —