सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 269, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 269

२१० सात्वतसंहिता
और 'पूर्व चक्र से अक्ष पर रहने वाले ॐ वर्ण को प्रधि पर लिखे। फिर शब्द ब्रह्ममय
उस चक्र को अर्घ्य पुष्पादिकों से सविधि पूजन करे ॥ ६१-६५ ॥
बीजोद्धारक्रमविधानम्
तन्मध्यादुद्धरेदादौ सर्वेषां कारणं हि यत् ।
उदक्स्थमक्षरं चाक्षादरान्ताद्येन भूषितम् ॥ ६६ ॥
विद्धि सर्वेश्वरस्येदं बीजं निर्बीजकारणम् ।
एतदेवाब्जनाभस्य विसर्गसहितं स्मृतम् ॥ ६७ ॥
नेमिवर्गाद् द्वितीयं वै ततोऽरात् षष्ठमक्षरम् ।
अष्टमं नाभिदेशाच्च तत्संख्यं नेमिमण्डलात् ॥ ६८ ॥
नेमिपूर्वमतो नाभेः सप्तमं पञ्चमारगम् ।
अराच्चतुर्दशं त्वक्षात् पश्चिमाशागतं हि यत् ॥ ६९ ॥
नेमेरेकादशं चाथ षोडशं च त्रयोदशम् ।
पञ्चमं नाभिदेशाच्च नेमेरेकोनविंशकम् ॥ ७० ॥
तदन्तं सप्तमं चैव नवमं हि महामते ।
नाभेस्तृतीयं तदनु नेमेस्तत्संख्यमेव च ॥ ७१ ॥
द्वादशं च बहिष्ठेभ्यो दशमं षोडशात् परम् ।
नाभिपूर्वं ततो वर्णं नेमेः पञ्चदशं हि यत् ॥ ७२ ॥
तुर्यसंख्यमराद्बीजं ततो नाभिचतुर्थकम् ।
षष्ठं नेमेरुतूर्थं च मध्यमक्षात् तथा हरेत् ॥ ७३ ॥
तत्रैव पूर्वदिक्स्थं यद् बाह्याद्वै पञ्चमं ततः ।
अक्षाद् दक्षिणदिक्संस्थं नेमेरष्टादशं ततः ॥ ७४ ॥
द्वितीयं नाभिदेशाच्च तदन्ते सप्तमारगम् ।
चतुर्दशमतो नेमेः षष्ठं नाभेरथाहरेत् ॥ ७५ ॥
सर्वे कारणवन्मूर्ध्ना योजनीयाः समासतः ।
प्रणवाद्या नमोन्ताश्च तेजसातीव निर्भराः ॥ ७६ ॥
बीजोद्धारक्रममाह—'तन्मध्यादित्यारभ्य' तेजसाऽतीव निर्भरा इत्यन्तम् ।
अक्षाद् उदक्स्थमक्षरं नकारमुद्धृत्य, अरान्ताद्येनानुस्वारेण भूषितं कुर्यात् । तथा च
नमिति प्रयोगः । इदं सर्वेश्वरस्य विशाखयूपस्य बीजम् । एतदेव विसर्गसहितं चेद्
अब्जनाभस्य बीजं भवति । ध्रुवबीजं तु नेमिवर्गाद् द्वितीयं खकारः । अनन्तबीजं तु
अरात् षष्ठमक्षरम् ऊकारः । एवं क्रमेण अष्टमनाभेरथाहरेदिति पातालशयन-
बीजान्तमर्थो बोध्यः ।