सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 250, कुल 837 में से
संदर्भ में पढ़ेंअष्टमः परिच्छेदः १९१
पत्याऽनुज्ञातेत्युक्तम् । तथा च गारुडे—
नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ।
निष्फलं तु भवेत् तस्या यत् करोति व्रतादिकम् ॥
अनापृच्छ्य तु भर्तारमुपोष्य व्रतमाचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥
नास्ति स्त्रीणां पृथक् कर्म न व्रतं नाप्युपोषणम् ।
पतिशुश्रूषणं तासां तेन स्वर्गो विधीयते ॥
इति ॥ १४०-१४१ ॥
यह व्रत सुमङ्गला नारी अथवा पूर्वसुमङ्गला (= विधवा) दोनों को करना
चाहिये । सुमङ्गला स्त्री पति की आज्ञा से यदि व्रत करे तो उसे भी इसका फल
प्राप्त होता है ॥ १४०-१४१ ॥
चातुर्मास्यविधानम्
अथापवर्गदं वक्ष्ये चातुर्मास्यं व्रतोत्तमम् ॥ १४१ ॥
यत्कृत्वाऽभिमतान् कामानिहैव लभते नरः ।
गृहमासाद्य निर्बाधं देशे वा न जनाकुले ॥ १४२ ॥
यथाविभवविस्तीर्णं तुर्याश्रं वा यथायतम् ।
धूमनिर्गमनोपेतं गवाक्षगणभूषितम् ॥ १४३ ॥
इष्टकाद्यैश्चितं कुर्यात् तन्मध्ये पिण्डिकात्रयम् ।
चतुरश्रं च विच्छिन्नं भूमेः किञ्चित् समुन्नतम् ॥ १४४ ॥
ततो दक्षिणदिग्वेदेरूर्ध्वे कुण्डं तु पूर्ववत् ।
मध्ये चन्दनमिश्रेण रोचनाकुङ्कुमेन च ॥ १४५ ॥
गोक्षीरमर्दितेनैव मासि मासि लिखेच्छुभम् ।
चक्रं षट्पत्रगर्भं तु स्नानपीठमुदग्दिशि ॥ १४६ ॥
ततस्त्वाषाढमासस्य दशम्यामुदितेन्दुना ।
वासुदेवाख्यमन्त्रेण तोयमादाय पाणिना ॥ १४७ ॥
भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत ।
व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ॥ १४८ ॥
ततोऽर्चयेद् वासुदेवं द्वादश्यां कमलोदरे ।
प्रागादावथ पत्राणां त्रयं सङ्कर्षणादिकम् ॥ १४९ ॥
प्रादक्षिण्येन विन्यस्य यावद्रक्षःपदच्छदम् ।
ईशानपदपत्रात् तु अनिरुद्धादिकत्रयम् ॥ १५० ॥