सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 251, कुल 837 में से
संदर्भ में पढ़ें१९२ सात्वतसंहिता
अप्ययेन तु सम्पूज्य यावत् पश्चिमदिग्दलम् ।
भूतावासं पुनर्मध्ये ततश्चक्रारकेषु च ॥ १५१ ॥
क्रमेण पूर्वदारभ्य न्यासं पूजनमाचरेत् ।
वामनं चाथ तद्देवीं हृन्मन्त्रं च ततः शिरः ॥ १५२ ॥
श्रीधरस्त्वथ तत्कान्ता शिखा कवचमेव च ।
हृषीकेशश्च तत्पत्नी ह्यस्त्रं तदनु लोचनम् ॥ १५३ ॥
ध्यानं स्नानं तथा पूजां होमं जपसमन्वितम् ।
क्रमेणानेन सर्वेषां सर्वदैव समाचरेत् ॥ १५४ ॥
द्वादश्यां श्रावणस्याथ मध्ये सङ्कर्षणं यजेत् ।
तत्पत्राभ्यां वासुदेवं चक्रारेष्वथ पूर्ववत् ॥ १५५ ॥
त्रितयं पद्मनाभाद्यं तथा देवीं हृदादि यत् ।
ततो नभस्यद्वादश्यां प्रद्युम्नः कर्णिकागतः ॥ १५६ ॥
आद्यस्तत्पत्रगोऽराणां त्रयं नारायणादिकम् ।
देव्यश्चैवाङ्गषट्कं तु पूर्ववच्चारकान्तरे ॥ १५७ ॥
ततस्तदग्रद्वादश्यामनिरुद्धं यथा पुरा ।
पत्रयुग्मे तदीये तु आदिदेवं यजेत् क्रमात् ॥ १५८ ॥
त्रिविक्रमान्तं विष्ण्वाद्यं शक्तिरङ्गान्यथादिवत् ।
एवं तावद् यजेद् यावद् द्वादशी कार्तिकस्य तु ॥ १५९ ॥
तत्राखिलैर्मन्त्रवरैः कर्म निश्शेषमाचरेत् ।
द्वादश्यां पूर्ववन्मध्ये षडङ्गं तुल्यरूपधृक् ॥ १६० ॥
मूर्तयोऽरान्तरस्थाश्च नेमिस्थो देवतागणः ।
पूजाहोमं विशेषेण पूर्णान्तं पूर्वचोदितम् ॥ १६१ ॥
इत्येतत् सविशेषं च व्रतमुक्तं समासतः ।
यत्कृत्वा पुनरप्यत्र जायते न पुनर्भवे ॥ १६२ ॥
॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां समन्त्रकव्रतविधिर्नाम
अष्टमः परिच्छेदः ॥ ८ ॥
— ൡ ॐ ൹ —
अथ चातुर्मास्याविधिमाह—'अथापवर्गदं वक्ष्ये' इत्यारभ्य यावत्परिच्छेदपरि-
समाप्ति । सुखबोधनायैतद्व्याख्या प्रयोगरूपेण विलिख्यते ।