सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 244, कुल 837 में से
संदर्भ में पढ़ेंअष्टमः परिच्छेदः १८५
यतः प्रद्युम्नोत्पन्न त्रिविक्रमादि का वर्ण पीत है, इसलिये उनकी पूजा पीत
गन्ध-पुष्पादि से ही करे । उसके अभाव में हल्दी, कुङ्कुमादि से रंग कर पीत वर्ण
बनाकर उनकी पूजा करे और घृत पूरित हेमपात्र का दान करे ॥ १०६-१०८ ॥
गुर्वर्चननिरूपणम्
ततः सम्पूजनं कुर्याद् व्रतादेष्टरि पूर्ववत् ।
गोहेमवस्त्रपूर्वस्तु यथा सन्तोषमेति सः ॥ १०९ ॥
अथ गुर्वर्चनमाह—तत इति । व्रतादेष्टरि गुरावित्यर्थः ॥ १०९ ॥
तत्पूजान्ते पारणेन द्वितीयं च जगत्पतिम् ।
प्रीणयेत् सङ्कर्षणं च गृहीत्वा पाणिना जलम् ॥ ११० ॥
प्रणवाद्येन तेनैव मन्त्रेणाद्योदितेन च ।
सनमस्केन किन्त्वत्र गतिः सङ्कर्षणोऽस्तु मे ॥ १११ ॥
अथ पारणानन्तर पूर्वोक्तरीत्या सङ्कर्षणप्रीणनम्, पूर्वोक्तमन्त्रे वासुदेवोऽस्तु मे
गतिरिति वाक्यं विहाय सङ्कर्षणोऽस्तु मे गतिरिति वाक्ययोजनं चाह—तत्पूजान्त इति
द्वाभ्याम् । पारणेन ब्राह्मणभोजनेनेत्यर्थः । गृहीत्वा पाणिना जलमित्यत्र सपुष्पं
प्रधानार्घ्यजलं ग्राह्यम् । दीक्षापरिच्छेदे—
तदम्भसा चार्घणं तु तथैव परिषेचनम् ॥
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्म च । (१८।७१-७२)
इति प्रधानार्घ्यजलेन प्रीणनस्य वक्ष्यमाणत्वात्, ईश्वरपारमेश्वर्योः—
इत्युक्त्वा सोदकं पश्चात् पुष्पं दक्षिणपाणिगम् ॥
अग्रतो निक्षिपेद् विष्णोर्मूलमन्त्रेण नारद । (१३।२३१-२३२)
—(ई०सं० ५।३७-३८, पा०सं० ६।४११-४१२)
इति जयाख्यवचनेनोदाहृतेन सपुष्पस्योक्तत्वाच्च ॥ ११०-१११ ॥
अब गुरु की अर्चना कहते हैं—इसके बाद व्रत के आदेष्टा गुरु का पूर्ववत्
पूजन करना चाहिये । उन्हें गाय, सुवर्ण एवं वस्त्रादि दान करे जिससे वे सन्तुष्ट
हो जावें । फिर पारण करने के पश्चात् द्वितीय जगत्पति सङ्कर्षण का पूजन कर
उन्हें प्रसन्न करना चाहिये । साधक हाथ में जल लेकर प्रणवादि के सहित पूर्व
में कहे गये मन्त्र से प्रसन्न होकर ‘ॐ सङ्कर्षणोऽस्तु मे गतिः’ इस मन्त्र से
प्रार्थना करे ॥ १०९-१११ ॥
अथ त्रिविक्रमं देवं वामनं श्रीधरं प्रभुम् ।
यजेन्मासत्रयं तावद्यावत् स्याद् दशमी सिता ॥ ११२ ॥
तदादि वै हृषीकेशमन्त्रेणाखिलमाचरेत् ।
सा० सं० - 16