सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 212, कुल 837 में से
संदर्भ में पढ़ेंसप्तमः परिच्छेदः १५३
अनिष्टनिवर्तकत्वादिष्टप्रापकत्वाच्चावश्यं भोक्तव्यमित्यर्थः । अत्र भोजनमिति कर्मणि
ल्युडन्तम्'' (पृ० ९४-९५) इति ॥ ९३-९४ ॥
उस दिन भगवान् के समक्ष सोलह संख्यक द्विजेन्द्रों को अपनी शक्ति के
अनुसार कारिसम्प्रदान से अवशिष्ट तथा पाकपात्र में बचे हुए चरु विशेष से भोजन
करावे । यह विशेष व्रत करने वाले को अनिष्ट निवर्त्तक तथा इष्ट का प्रापक कर्म
है ॥ ९३-९४ ॥
व्रतान्तरकथनम्
एवं सितेऽसिते वापि ह्युभयोरपि पक्षयोः ॥ ९४ ॥
यथाभिमतमासाद् वै समारभ्य यजेत् क्रमात् ।
एकादश च मासेशान् पर्वादी तु सकृत् सकृत् ॥ ९५ ॥
द्वादश्यां सोपवासस्तु तन्मासेशमथार्चयेत् ।
तत्कारणादिभेदोत्थं चातुरात्म्येन वै सह ॥ ९६ ॥
पुण्यं व्रतमिदं विद्धि वृद्धस्त्रीबालसिद्धिकृत् ।
नित्यं सद्द्वैष्णवैः कार्यमविरुद्धमखेददम् ॥ ९७ ॥
प्राक्प्रणीतैर्महाभोगैः शक्त्या दानसमन्वितैः ।
गृहस्थैर्ब्रह्मचर्यस्थैर्वानप्रस्थैस्तु भिक्षुकैः ॥ ९८ ॥
येन केन प्रकारेण वित्तं सम्भृत्य वै पुरा ।
पुनर्ब्रतान्तरमाह—एवं सितेऽसिते वापीति प्रक्रम्य भैक्षपूर्वेण सर्वदेत्यन्तम् ।
अस्यार्थः—यथाभिमतमासे शुक्लपक्षे कृष्णपक्षे वोभयोर्वा प्रतिपद्मारभ्यैकादश्यन्तं
तन्मासेशस्योत्तरादिनैकादशमासेशान् प्रत्यहमेकैकक्रमेणाभ्यर्च्यैकादश्यां कृतोपवा-
(सम्?सो) द्वादश्यं तन्मासेशम्, तत्कारणभूतो वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धो वा
यस्तदादिचातुरात्म्यं च सम्पूज्य दानादिकं कुर्यात् । एवं चेदं सुस्पष्टं बोध्यम्—चैत्रमासे
यदि व्रतमनुष्ठीयते तन्मासेशो विष्णुः, तदुत्तरं मधुसूदनादयो वैशाखाद्येकादशमासेशाः
प्रतिपदादिष्वर्चनीयाः । तन्मासेशो विष्णुः, तत्कारणभूतसङ्कर्षणादिवासुदेवान्ताश्चत्वा-
रश्च द्वादश्यामर्चनीयाः । एवमन्यत्रापि ज्ञेयम् । केशवादीनां त्रिकं त्रिकं प्रति वासुदेवा-
दीनामेकैकस्य कारणत्वमुत्तरत्र (८।५५-५६) सुस्पष्टं वक्ष्यति ॥ ९४-९९ ॥
अब पुनः अन्य व्रत कहते हैं—शुक्लपक्षं तथा कृष्णपक्ष अथवा उभय पक्ष
में जो मास अभीष्ट हो उससे प्रतिपदा से आरम्भ करे । पर्व के आदि में एक-एक
के क्रम से ११ मासेशों का यजन करे । इन मासेशों का अर्चन द्वादशी में उपवास
करते हुए करे क्योंकि उन-उन मासों के वही कारणभूत देवता हैं ॥ ९४-९६ ॥
यह व्रत महापुण्यप्रद है । वृद्ध, स्त्री तथा बालकों को सिद्धि देने वाला है ।
अतः सद् वैष्णवों को यह व्रत अवश्य करना चाहिये क्योंकि यह कल्याण करने
वाला है तथा दुःख दारिद्र्य को नष्ट करने वाला है ॥ ९७ ॥
सा० सं० - 14