सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 171, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 171

चतुरङ्गुलमानेनाऽप्यन्नग्रासमथाहरेत् ।
तन्निधाय स्रुचा दर्भे तदूर्ध्वं पूर्ववत् घृतम् ॥ १५२ ॥
दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः ।
भूयोऽग्नौ स्रुक्चतुष्कं तु चाज्यस्यापाद्य यत्नतः ॥ १५३ ॥
ततोऽन्न माज्यसंसिक्तं प्राग्वत् कृत्वहुतिं पुनः ।
दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम् ॥ १५४ ॥
हुत्वाऽप्यन्नाहुतीनां च ह्याख्यां जुहुयात् ततः ।
तासां होमक्रममाह—घृतसिक्तां चतुःसंख्यामित्यारभ्य आज्याख्यां जुहुयात् तत
इत्यन्तम् । घृतसिक्तां घृतेनोभयतः सिक्तामित्यर्थः, ‘आज्येनोभयतः सिक्तम्’ (६।
१३६) इति पूर्वोक्तेः । एकैकाम् पूर्वमिध्महोमप्रकरणे चतुश्रुतस्समिधां युगपत् प्रक्षेप-
स्योक्तत्वादत्रापि तादृशत्वशङ्काया निवृत्यथमेकैकामित्युक्तम् सुपुष्कलामित्यनेन कृमि-
भक्षितत्वादिदोषराहित्यमुच्यते । प्राग् आसादनकाल इत्यर्थः । कुङ्कुमादिना आदि-
शब्देन कर्पूरकस्तूर्यौ गृह्येते, स्रग्धूपमधुपर्कं स्रक् पुष्पमित्यर्थः । ‘ततः पुष्पमयीं दद्यात्’
(४०।६८) इति लक्ष्मीतन्त्रोक्तेः । धूपः = गुग्गुल्वादि । मधुप(र्क? र्कः) संमिलित-
पयोदधिमध्वाज्यम् । बीजानि = मुद्गादीनि । अन्नानि = पायसादीनि । आज्यं =
गोघृतम् । आहत्य सप्त समिधो ज्ञेयाः । यथाक्रमम् = उत्त्क्रममनतिक्रम्येत्यर्थः । पूर्वं
काष्ठसमिधम्, ततः पुष्पम्, ततो धूपम्, ततो मधुपर्कम्, ततो बीजानि, ततश्चरुम्, तत-
स्त्वाज्यं क्रमेण जुहुयादिति यावत् ।
क्वचित् सात्वतपुस्तकेषु ईश्वर(५।१९४) पारमेश्वरपुस्तकेषु च ‘बीजान्याज्यं
यथाक्रमम्’ इत्यशुद्धपाठो लिखितः । तदनुसारेण केषुचित् पारमेश्वरप्रयोगेषु बीजाहु-
त्यनन्तरमाज्याहुतिस्तदनन्तरं चर्वादुहतिरिति लिखितम्, तदसंगतम्, यतः पूर्वं सामा-
न्यतोऽन्नसमिद्दानोक्तिमन्तरा तत्रान्नसमिधो दाने विशेषोऽयं विधीयत इत्युक्तेरवतरणा-
संभवात्, आज्याख्यां जुहुयात् तत इति चर्वादुहुत्यनन्तरमाज्याख्यसमिद्दानस्योक्त-
त्वाच्च ।
प्राक् संस्कृताग्नौ साधितमित्यत्र चरुसाधनप्रकारस्तु दीक्षाप्रकरणे वक्ष्यमाणो
ज्ञेयः । तन्मध्ये चरुमध्ये । आज्यस्य स्रुक्चतुष्कं निक्षिपेत्, स्रुचाज्येन चतुर्वारमभि-
घार्येदित्यर्थः । अन्नग्रासं कुक्कुटाण्डप्रमाणमन्नकबलमित्यर्थः । ‘कुक्कुटाण्डप्रमाणं तु
ग्रास इत्यभिधीयते’ (अ०सं० १२१-१२२) इति स्मृतेः । अथादाय स्रुचं तत्र तद्वद्
दद्याच्चतुष्टयमित्यत्र, तदूर्ध्वं पूर्ववद् घृतमित्यत्र, दद्यादग्नौ चतुष्कं तु इत्यत्र च स्रुवेणेति
ज्ञेयम् । ततोऽन्नमाज्यसंसिक्तं प्राग्वत् कृत्वा स्रुचाऽज्येन चरुं चतुर्वारमभिघार्येत्यर्थः ।
पूर्वप्रयोगेणेत्यनेन स्रुचि स्रुवेण चतुरभिघारः, तत्र चरुनिक्षेपः, तदुपरि पुनश्चतुरभि-
घारस्स्रुवेणाज्याहुतिचतुष्टयम्, चर्वाहुत्यनन्तरं पुनः स्रुचाऽज्याहुतिचतुष्टयं च संगृह्यते ।
एवमन्नाहुतीनां चतुष्टयं हुत्वेत्यनेनान्नाहुतीनामपि चतुःसंख्याकत्वमेव ज्ञेयम् । एवं
काष्ठसमिधोऽन्नसमिधश्च चतुःसंख्याकत्वोक्त्या पुष्पादीनां पञ्चसमिधामपि चतुः-
संख्यया होमो ज्ञायते ।