सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 170, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 170

षष्ठः परिच्छेदः १२१
सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् ।
ततोऽग्नौ दक्षिणे उत्तरे चेध्मप्रक्षेपस्थाने तत्संख्यानुगुणमाज्यहोमं तत्स्थानद्वयस्य
सूर्यसोमात्मकाग्निलोचनत्वं चाह—चतुःसंख्येनेति सार्धेन । जयाख्ये तु—सूर्यसोमयो-
स्तत्तन्मन्त्राभ्यामाहुतिद्वाराऽग्नौ दक्षिणोत्तरयोः संयोजनमुक्तम् । तदपि संगृहीतमीश्वर-
पारमेश्वरयोः । किञ्च, एवमाज्यभागाभ्यां पूर्वमाघारहोमोऽपि संगृहीतस्तत्रैव—
............ आघाराज्यं ततः क्षिपेत् ।
इध्ममूलादथाक्रान्तमिध्मेधोपरि संस्थितम् ॥
स्रुवमाज्येन सम्पूर्य सूर्यबीजेन चिन्तयेत् ।
सहस्रांशुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ॥
अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु ।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात् तत उत्तरे ॥ इति ॥१४५-१४६॥
—(ई०सं० ५।१८८-१९०; पा०सं० ७।१५०-१५२)
ॐ से संयुक्त चार संख्या वाले मन्त्र से दक्षिण में चार स्रुव से होम करे ।
इसी प्रकार उत्तर में भी होम करे । ये दोनों ही सूर्य सोमात्मक होने से अग्निदेव के
नेत्र हैं ॥ १४५-१४६ ॥
एतयोरन्तरं यद् वै तदग्नेर्वदनं स्मृतम् ॥ १४६ ॥
तत्र वै जुहुयात् पूर्वं समिधां सप्तकं क्रमात् ।
घृतसिक्तां चतुःसंख्यामेकैकां हि सुपुष्कलाम् ॥ १४७ ॥
एतयोरन्तरालस्य वदनत्वं तत्र सप्तसमिधां होतव्यत्वं चाह—एतयोरिति । समिधां
सप्तकं समित्-पुष्प-धूप-मधुपर्क-बीज-चरु-घृतानीत्यर्थः । समिध्यते दीप्यतेऽग्नि-
रनयेति व्युत्पत्त्या समित्पुष्पादीनां सप्तानामपि समिदित्येव व्यवहारात् ॥ १४६-१४७ ॥
इनका मध्य भाग अग्नि का मुख है । तदनन्तर पुनः उसी में सात
समिधाओं का होम करे । चार संख्या वाली समिधाओं में एक-एक को घी में
सिक्त कर सर्वथा शुद्ध रूप में होम करे, जो आसादन काल में कुङ्कुमादि से लिप्त
कर पहले स्थापित की गई थी ॥ १४६-१४७ ॥
प्राक् कुङ्कुमादिना लिप्तां काष्ठसंख्यां तु होमयेत् ।
स्रग्धूपं मधुपर्कं च बीजान्नाज्यं यथाक्रमम् ॥ १४८ ॥
तत्रान्नसमिधो दाने विशेषोऽयं विधीयते ।
साधितं संस्कृताऽग्नौ प्राक् तन्निधायाग्रतश्चरुम् ॥ १४९ ॥
समुद्घाट्यावलोक्यादौ सम्प्रोक्ष्यार्घ्याम्भसा ततः ।
दर्भकाण्डचतुष्केण साग्निना तदनुस्पृशेत् ॥ १५० ॥
तन्मध्ये स्रुवचतुष्कं तु मन्त्रैराज्यस्य निक्षिपेत् ।
अथादाय स्रुचं तत्र तद्वद् दद्याच्चतुष्टयम् ॥ १५१ ॥