सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 159, कुल 837 में से
संदर्भ में पढ़ें१०० सात्वतसंहिता
चूर्ण, जिसमें गन्धक मिला हुआ हो, उसको एक द्रोण परिमाण में कुण्ड में डाल
कर फैला देवे ॥ ८७-८८ ॥
अग्न्यानयनकथनम्
ताम्रपात्रेऽथवाऽन्यस्मिन् समादाय हुताशनम् ॥ ८८ ॥
आरण्यं लौकिकं वाथ मणिजं दर्पणोद्भवम् ।
अग्न्यानयनमाह—ताम्रपात्र इति । आरण्यम् = अर(ण्य?णि)संभवमित्यर्थः ।
अरणिन्निर्मथनप्रकार उक्तो लक्ष्मीतन्त्रे—
ध्यायेत् सर्वात्मिकां शक्तिं तामेवत्वधरारणिम् ।
उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् ॥
मथ्नीयात् तारया सम्यक् तथा चैवानुतारया ।
—(४०।४१-४२) इति
एवमरणिजनितस्याग्नेरिदमेव जातकर्मेति ज्ञेयम् । इतः परं नामाद्यग्निसंस्काराः
कार्याः, मणिजाद्यग्निस्तु गर्भाधानादिभिरेव संस्कार्यः । तथा च लक्ष्मीतन्त्रे—
लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते ।
लौकिके वापि संस्कारं निषेकादि समाचरेत् ॥ (४०।४६) इति ।
अग्नेर्निषेकादिसंस्कारविधानं तु श्रीजयाख्यानुसारेश्वरपारमेश्वरयोः प्रतिपादि-
तम् । तदर्थं कुण्डमध्ये लक्ष्म्यावाहनादिकमप्युक्तम्, अन्येऽपि बहवो विशेषास्तत्र
तत्रापेक्षितास्तयोरेव संगृहीता ग्राह्याः ॥ ८९ ॥
कालवैश्वानराख्यस्य हृदयेशस्य वै प्रभोः ॥ ८९ ॥
मारुतानुगता भासा योज्या बाह्याग्निना सह ।
स्वहृदयस्थितभगवत्तेजसः पात्रस्थाग्निना संयोजनमाह—कालेति । प्रसिद्धं हि
कालवैश्वानराख्यत्वं भगवतः । तथा च पौष्करे विष्वक्सेनार्चनप्रकरणे—
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः ।
स एव द्विज देवो हि विष्वक्सेनः प्रकीर्तितः ॥
स्थित आहवनीयादिभेदेन मखयाजिनाम् ।
ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ॥
—(२०।५४-५५) इति।
मारुतानुगता = मारुतो रेचकरूप इत्यर्थः । मन्त्र एव मारुत इत्यर्थः, उभय-
थाप्युक्तमीश्वरादिषु—‘मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम्’ (५।८६) इति,
‘विरेच्य विन्यसेत् तस्मिन् वह्निपात्रे पुरार्चिते’ (५।८७) इति । भासा = तेजस्संज्ञो
भगवतः षष्ठो गुण इत्यर्थः । तथा वक्ष्यति नृसिंहकल्पपरिच्छेदे—
व्यस्तो गुणगणात् षष्ठस्तेजो नाम गुणो हि यः ॥
परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् ।