सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 156, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 156

षष्ठः परिच्छेदः ९७
अस्मिन् कालेऽर्हणाद्यं तु ताम्बूलान्तं निवेदयेत् ॥ (५।४५) इति ।
एवंकारिणां पूजनमपि भगवदर्चनवद् भगवन्मन्त्रैरेव कार्यम् । तथा च
लक्ष्मीतन्त्रे—
ततो गुरून् समानीय मन्मयान् वापि वैष्णवान् ।
प्रदद्यात् प्रापणार्थं तु तेभ्यो मन्मन्त्रमुच्चरन् ॥
—(४०।२९-३०) इति
एवंकारिप्रदानस्य पञ्चमाङ्गत्त्वमुक्तं जयाख्ये—
अन्तःकरणयागादि यावदात्मनिवेदनम् ॥
तदाद्यमङ्गं यागस्य नाम्नाऽभिगमनं महत् ।
पूजनं चार्च्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ॥
बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद ।
मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या ॥
तत्तृतीयं हि यागाङ्गं तुर्यमग्नेन पूजनम् ।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥
सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥
प्राणाग्निहवनं नाम्ना अनुयागस्तदष्टमम् ।—(२२।७५-८०)
इति ॥ ७३-७५ ॥
अब जप का प्रकार कहते हैं—स्फटिक या अक्षसूत्र अथवा अपने हाथों के
पर्व से जैसी सुविधा हो यथाभिमत संख्या में जप करे । फिर जप के पश्चात् माला
के साथ भगवद् भक्तों की गन्ध धूप से पूजा करे ॥ ७३-७४ ॥
इस प्रकार विष्णु भक्तों की क्रमानुसार पूजा कर उन्हें नैवेद्य प्रतिपादन करे,
उसके बाद मात्रावसान (विशेष बीज) द्वारा होम कर अग्नि को सन्तृप्त करे ॥ ७५ ॥
प्रमाणपरिशुद्धं च विभवानुगुणं शुभम् ।
चतुरावरणं कुण्डं कृत्वाऽङ्गुष्ठविभूषितम् ॥ ७६ ॥
त्र्यंशेनाधार्धंशतो वापि खाताद् व्यासो विधीयते ।
चक्रशङ्खाम्बुजाकारं वृत्तं वा चतुरश्रकम् ॥ ७७ ॥
गदाद्यैश्चक्रपर्यन्तैर्लाञ्छनैर्लाञ्छितं तु वा ।
अथ षष्ठमङ्गं वह्निसन्तर्पणं निरूपयन्नादौ कुण्डलक्षणमाह—प्रमाणपरिशुद्धमिति
सार्धद्वाभ्याम् ॥ ७६-७८ ॥
अब षष्ठ अङ्गभूत वह्नि सन्तर्पण का निरूपण करते हुए कुण्ड लक्षण कहते
हैं—प्रमाण से परिशुद्ध अपने विभव के अनुगुण चार आवरण वाले कुण्ड को
अपने अंगूठे से विभूषित करे ॥ ७६ ॥