सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 139, कुल 837 में से
संदर्भ में पढ़ें८० सात्वतसंहिता
इसके बाद उनके चरणों पर अपना हाथ रख कर भगवान् से प्रार्थना करे कि
हे देव ! मैंने आपके लिये स्नान सामग्री रख दी है । यह शुभ एवं मङ्गलदायी,
पादपीठ और महान् स्नान का आसन है । हे प्रभो ! मेरे ऊपर अनुकम्पा कर स्नान
के लिये लाई गई इस सामग्री को शीघ्र ग्रहण कीजिये ॥ २५-२७ ॥
स्नानासनं निवेद्याथ देवस्य द्वितयं तु वै ॥ २७ ॥
भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि ।
विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम् ॥ २८ ॥
दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये ।
सुशुभे पादुका चाथ तदन्ते स्नानशाटकम् ॥ २९ ॥
सुगन्धशालिसम्पूर्णं मात्रार्थं पात्रमुत्तमम् ।
दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ॥ ३० ॥
स्नानासनाद्युपचारानाह—स्नानासनमित्यादिभिः । अत्र पाणिप्रक्षालनार्थकगन्ध-
तोयसमर्पणानन्तरं पादपीथोक्तावपि पाठक्रमादर्थक्रमस्य बलीयस्त्वेन स्नानासनसम-
र्पणानन्तरमेव पादपीठोऽपि समर्पणीयः, 'सपादपीठं परमं शुभं स्नानासनं महत्'
(६।२६) इति विज्ञापनश्लोक एवोक्तत्वात् । अत एव सात्वतोपबृंहणेश्वर(४।१४३)
पारमेश्वर(६।३०४)योः स्नानासनानन्तरमेव पादपीठसमर्पणमुक्तम् ।
नन्वीश्वर(४।१४६)-पारमेश्वर(६।३०८)योरुभयोरपि 'पाणिप्रक्षालनार्थं तु
पादपीठं ततः शुभम्' इति पाणिप्रक्षालनानन्तरमपि पादपीथोक्तिः परिदृश्यते, तस्याः
का गतिरिति चेत्, सत्यम् । तत्रोभयत्रापि यथावस्थितसात्वतश्लोकानामेव प्रतिपादि-
तत्त्वात् पौनरुक्त्यं दृश्यते । लक्ष्मीतन्त्रे तु—
अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम् ।
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहम् ॥
पाद्याम्बु पादुका स्नानशाटी मात्रा च शालिका ।
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ॥
दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी ।
गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् ॥
हरिद्राचूर्णसंमिश्रमीषत् पङ्ककभावितम् ।
उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् ॥
उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम् । (लक्ष्मी० ३९।५-९)
इति सात्वतश्लोकानामुपबृंहितत्वान्न पादपीठपुनरुक्तिः । अतस्तत्पौनरुक्त्यं
नानुष्ठानप्रतिपादकम्, किन्तु श्लोकपूरणार्थं ज्ञेयम् । यथा पारमेश्वरे मानसे भोगयाग-
प्रकरणे—'मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु' (जय० १२।८१; पा०
५।१३०) इति जयाख्यवचने प्रतिपादितेऽप्यविरुद्धार्थं परिगृह्य विरुद्धं लक्ष्म्यादित्वं
परित्यज्य हृन्मन्त्रादित्वमेवाङ्गीक्रियते, तद्वदिहापीति सन्तोष्टव्यमायुष्मता । अत एवा-
स्मत्तातपादैः सात्वतामृते पाणिप्रक्षालनतोयसमर्पणानन्तरं पादपीठो नोक्तः ।