सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 138, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 138

षष्ठः परिच्छेदः ७९
आचामन्तमिवाम्भोभिः साक्षादम्भःपरिग्रहे ।। इति ।
अत्राचमनानन्तरं गन्धपुष्पमालादीपधूपसमर्पणं मधुपर्कानन्तरं ताम्बूलनिवेदनं
चेश्वरपारमेश्वरादिषूक्तं ग्राह्यम् । तथा चोक्ताः पाद्मे मन्त्रासनोपचाराः—
आवाहननमस्कारौ प्रत्युत्थानमनन्तरम् ।
पुष्पाञ्जलिः स्वागतोक्तिरासनं भद्रपीठिका ।।
अर्घ्यं पाद्यप्रतिग्राहं पाद्यप्रोक्ताभिमर्शनम् ।
आलेपनं चरणयोश्चन्दनक्षोदवारिभिः ।।
अपामाचमनीयं तु प्रतिग्रहणदर्शनम् ।
उपस्पर्शनमालेपश्चन्दनाद्यम्बुचर्चया ।।
पुष्पमाला धूपदानं मधुपर्कनिवेदनम् ।
घनसारो नागवल्ली ........... .... ॥ इति ॥ २३-२४ ॥
अब आसनादि उपचारों के समर्पण का प्रकार कहते हैं—आवाहन किये गये
उन प्रभु को जो पादपीठ सामान्य हो और कोमल आस्तरण से भूषित हो ऐसा
श्रेष्ठ आसन और पादपीठ समर्पित करे । इसके बाद पाद्य, अर्घ्य, आचमनीय
जलादि देकर पूजन करे ॥ २३-२४ ॥
सपुत्रदारमात्मानमष्टाङ्गपतनेन तु ॥ २४ ॥
चेतसा भक्तियुक्तेन निवेद्य तदनन्तरम् ।
आत्मात्मीयनिवेदनमाह—सपुत्रेति । अष्टाङ्गपतनेन (सा० ६।१८७-१८८)
वक्ष्यमाणाष्टाङ्गप्रणामेन । इदानीमात्मनिवेदनविज्ञापनं चोक्तं पाद्मे—
दासोऽहं ते जगन्नाथ सपुत्रादिपरिग्रहः ।
प्रेष्यः प्रशाधि कर्तव्ये मां नियुङ्क्ष्व हिते सदा ॥ इति ॥ २४-२५ ॥
इस प्रकार भक्ति युक्त चित्त से निवेदन करने के बाद साष्टाङ्ग प्रणिपात करके
पुत्र दार सहित अपने को निवेदित करे ॥ २४-२५ ॥
भगवानथ विज्ञाप्यः कृत्वा तत्पादगौ करौ ॥ २५ ॥
स्फुटीकृतं मया देव त्विदं स्नानवरं त्वयि ।
सपादपीठं परमं शुभं स्नानासनं महत् ॥ २६ ॥
आसादयाशु स्नानार्थं मदनुग्रहकाम्यया ।
अथ स्नानार्थं विज्ञापनमाह—भगवानिति द्वाभ्याम् । कृत्वा तत्पादगौ करावित्यत्र
व्यस्तकरावित्यर्थः । तथा चोक्तं पारमेश्वरे—
कृत्वाभ्यर्च्यर्चिदादेवस्य पाणिना दक्षिणं पदम् ।
दक्षिणेनाथ वामेन वामं संगृह्य मन्त्रतः ॥ (६।३०२-३०३)
इति ॥ २५-२७ ॥