सङ्गीतरत्नाकर: प्रथम भाग (शार्ङ्गदेव - स्वरगताध्याय सविस्तार व्याख्या व अनुवाद सहित)
Sangita Ratnakara of Sarangadeva (Svaradhyaya)
शार्ङ्गदेव (अनुवादक: डॉ. आर. के. श्रृङ्गी एवं डॉ. प्रेमलता शर्मा) द्वारा
पृष्ठ 221, कुल 251 में से
संदर्भ में पढ़ें390 Treatment of Svara
तस्य पुरुषस्य पृथिवी मूत्तिः, आपः क्लेदः, तेजोऽ
भिसन्तापो, वायुः प्राणो, वियच्छिद्राणि, ब्रह्माऽ
न्तरात्मा, यथा खलु ब्राह्मो विभूतिर्लोके......। ५।५*
दशोदकस्याञ्जल्यः शरीरे स्वेनाञ्जलिप्रमाणेन यत्तत् ibid 7.16
प्रच्यवमानं पुरीषमनुबध्नात्यतियोगेन तथा मूत्रं रुधि-
रमन्यांश्च शरीरधातून्, यत्तत् सर्वशरीरचरं बाह्या
त्वग्बिभर्ति, यत्तु त्वगन्तरे व्रणमतं लसोकाशब्दं लभते,
यच्चोष्मणाऽनुबद्धं लोमकूपेभ्यो निष्पतत्स्वेदशब्द-
मवाप्नोति, तदुदकं दशाञ्जलिप्रमाणं, नवाञ्जलयः
पूर्वस्याहारपरिणामधातोर्यतं रस इत्याचक्षते, अष्टौ
शोणितस्य, सप्त पुरीषस्य, षट्श्लेष्मणः, पञ्च पित्तस्य,
चत्वारो मूत्रस्य, त्रयो वसायाः, द्वौ मेदसः, एको मज्जः,
मस्तिष्कस्यार्धाञ्जलिः, शुक्रस्य तावदेव प्रमाणं,
तावदेव श्लेष्मणश्चौजस इत्येतच्छरीरतत्त्व-
मुक्तम् । ७।१६
I.2. 75-77 ab तत्रायं शरीरस्याङ्गविभागः । तद्यथा—द्वौ बाहू, Caraka,
द्वे सक्थिनी, शिरोग्रीवम्, अन्तराधिरिति षडङ्गमङ्गम् । Śā. Sthā.
७।५ 7-5
ibid 77 ab शरीरे षट् त्वचः, तद्यथा—उदकधरा त्वग्वाह्या, ibid 7-4
द्वितीया त्वगसृग्धरा, तृतीया सिध्मकिलाससम्भवा-
धिष्ठाना, चतुर्थी दद्रुकुष्ठसम्भवाधिष्ठाना, पञ्चम्यल-
जीविद्रधिसम्भवाधिष्ठाना, षष्ठी तु यस्यां छिन्नायां
ताम्यत्यन्ध इव च तमः प्रविशति, यां चाप्यधिष्ठा-
यापि जायन्ते पर्वसु कुष्णारुंषीनि स्थूलमूलानि
दुश्चिकित्स्यतमानि चेति षट् त्वचः, एताः षडङ्ग-
शरीरमवतत्य तिष्ठन्ति । ७।४
ibid तस्य खल्वेवंप्रवृत्तस्य शुक्रशोणितस्याभिपच्य- Suśruta,
मानस्य क्षीरस्येव सन्तानिकाः सप्त त्वचो भवन्ति । Śā. Sthā
तासां प्रथमाऽवभासिनी नाम, या सर्ववर्णानवभासयति 4. 3-5
पञ्चविधां च छायां प्रकाशयति, सा व्रीहेरष्टादशभाग-
प्रमाणा सिध्मपद्मकण्टकाधिष्ठाना; द्वितीया लोहिता
नाम, तृतीया श्वेता नाम, चतुर्थी ताम्रा नाम, पञ्चमी
वेदिनी नाम, षष्ठो रोहिणी नाम, सप्तमी मांसधरा
नाम । ४।३
- See Suśruta Śa. Stha. 1.20
Appendix I 391
कला खल्वपि सप्त संभवन्ति धात्वाशयान्तर-
मर्यादाः । ४।४
यथा हि सारः काष्ठेषु छिद्यमानेषु दृश्यते । Suśruta, Śā.
तथा धातुहि मांसेषु छिद्यमानेषु दृश्यते । ४।५ Sthā 4.5
I.2. 81-82 ab वाताशयः, पित्ताशयः, श्लेष्माशयो, रक्ताशयः, ibid, 4.5
आमाशयः, पक्वाशयो, मूत्राशयः, स्त्रीणां गर्भा-
शयोऽष्टम इति । ५।७
ibid 88-90 मांससिरास्नाय्वस्थिजालानि प्रत्येकं चत्वारि ibid, 5,11
चत्वारि, तानि मणिवन्धगुल्फसंश्रितानि परस्पर-
निवद्धानि परस्परसंश्लिष्टानि परस्परगवाक्षितानि
चेति, यैर्गवाक्षितमिदं शरीरम् । ५।११
ibid 92 सङ्घातास्तु दशोत्तरे द्वे शते; तेषां शाखा ibid,
स्वष्टषष्टिः, एकोनषष्टिः कोष्ठे, ग्रीवां प्रत्यूर्ध्वं 5. 28-32
त्र्यशीतिः । ५।२८
त एते सन्धयोऽष्टविधाः—कोरोलूखलसामुद्ग-
प्रतरतुन्नसेवनीवायसतुण्डमण्डलशङ्खावर्ताः । तेषा-
मङ्गुलिमणिवन्धगुल्फजानुकूर्परेषु कोराः सन्धयः,
कक्षावङ्क्षणदशनेषूलूखलाः, अंसपीठगुदभगनितम्बेषु
सामुद्गाः, ग्रीवापृष्ठवंशयोः प्रतराः, शिरः कटीकपालेषु
तुन्नसेवन्यः, हनोरुभयतस्तु वायसतुण्डः, कण्ठहृदय-
नेत्रक्लोमनाडिषु मण्डलाः, श्रोत्रशृङ्गाटकेषु शङ्खा-
वर्ताः । तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ।
५।३२
I.2. 94 ab अस्थ्नां तु सन्धयो ह्येते केवलाः परिकीर्तिताः । ibid, 5. 33
पेशीस्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते ॥ ५।३३
ibid 98cd. अपत्यपथे चतस्रः—तासां प्रसूतेऽभ्यन्तरतो द्वे, मुखा- ibid, 5. 51
श्रिते वाह्ये च वृत्ते द्वे, गर्भच्छिद्रसंश्रितास्तिस्रः,
शुक्रार्तवप्रवेशिन्यस्तिस्र एव । पित्तपक्वाशययोर्मध्ये
गर्भशय्या, यत्र गर्भस्तिष्ठति । ५।५१
ibid. 99-100 शङ्खनाभ्याकृतियोंनिस्त्र्यावर्ता सा प्रकीर्तिता । ibid, 5.
तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता ॥ ५।५५ 55-56
यथा रोहितमत्स्यस्य मुखं भवति रूपतः ।
तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः ॥ ५।५६