सङ्गीतरत्नाकर: प्रथम भाग (शार्ङ्गदेव - स्वरगताध्याय सविस्तार व्याख्या व अनुवाद सहित)
Sangita Ratnakara of Sarangadeva (Svaradhyaya)
शार्ङ्गदेव (अनुवादक: डॉ. आर. के. श्रृङ्गी एवं डॉ. प्रेमलता शर्मा) द्वारा
पृष्ठ 220, कुल 251 में से
संदर्भ में पढ़ेंगोधामांसाऽशने पुत्रं सुषुप्तं धारणात्मकम् ।
गवां मांसे तु बलिनं सर्वक्लेशसहं तथा ॥ ३।३०
माहिषे दौहृदाच्छूरं रक्ताक्षं लोमसंयुतम् ।
वाराहमांसात् स्वप्नालुं शूरं संजनयेत् सुतम् ॥ ३।३१
मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम् ।
समरोद्विग्नमनसं नित्यभीतं च तंत्तिरात् ॥ ३।३२
अतोऽनुक्तेषु या नारी समभिध्याति दोहृदम् ।
शरीराचारशीलैः सा समानं जनयिष्यति ॥ ३।३३
कर्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत् ।
यथा तथा दैवयोगाद् दोहृदं जनयेद्धृदि ॥ ३।३४
I.2.33-39ab पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिक- Caraka,
मन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी कार्श्यमापद्यते Śā. Sthā
विशेषेण । ४।२१ 4.21-26
षष्ठे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिक-
मन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी बलवर्णहानि-
मापद्यते विशेषेण । ४।२२
सप्तमे मासि गर्भः सर्वभावैराप्याय्यते, तस्मात्तदा
गर्भिणी सर्वाकारैः क्लान्ततमा भवति । ४।२३
अष्टमे मासि गर्भश्च मातृतो गर्भतश्च माता रसवाहि-
नीभिः संवाहिनीभिर्मुहुरोजः परस्परत आददाते
गर्भस्यासंपूर्णत्वात्, तस्मात्तदा गर्भिणी मुहुर्मुहुर्मुदायुक्ता
भवति मुहुर्मुहुश्च ग्लाना ग्लाना तथा गर्भः । तस्मात्तदा
गर्भस्य जन्म व्यापत्तिमद्भवत्योजसोऽनवस्थितत्वात्;
तं चैवमभिसमीक्ष्याष्टमं मासमगण्यमित्याचक्षते
कुशलाः । ४।२४
तस्मिन्नेकदिवसातिक्रान्तेऽपि नवमं मासमुपादाय
प्रसवकालमित्याहुराद्वादशान्मासात्, एतावान्कालः,
वैकारिकमतः परं कुक्षाववस्थानं गर्भस्य । ४।२५
एवमनयाऽऽनुपूर्व्याऽभिनिर्वर्तते कुक्षौ । ४।२६
पञ्चमे मनः प्रतिबुद्धतरं भवति । ३।३५ Suśruta,
षष्ठे बुद्धिः । ३।३६ Śā. Sthā.
सप्तमे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः । ३।३७ 3. 35-39
अष्टमेऽस्थिरीभवत्योजः, तत्र जातश्चेन्न जीवेन्नि-
रोजस्त्वान्नैर्ऋ तभागत्वाच्च, ततो बलिं मासोदनमस्मै
दापयेत् । ३।३८
नवमदशमैकादशद्वादशानामन्यतमस्मिन् जायते,
अतोऽन्यथा विकारी भवति । ३।३९
I. 2. 39 cd-मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडी ibid 3. 40
40 ab प्रतिबद्धा, साऽस्य मातुराहाररसवीर्यमभिवहति ।
तेनोपस्नेहेनास्याभिवृद्धिर्भवति । असंजाताङ्गप्रत्यङ्ग-
प्रविभागमानिषेकात् प्रभृति सर्वशरीरावयवानु-
सारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो
जीवयति । ३।४०
I. 2. 44 तत्र गर्भस्य पितृजमातृजरसजात्मजसत्त्वजसात्म्यजानि ibid 3. 43
शरीरलक्षणानि व्याख्यास्यामः । गर्भस्य केशश्मश्रु-
लोमास्थिनखदन्तसिरास्नायुधमनीरेतः - प्रभृतीनि
स्थिराणि पितृजानि, मांसशोणितमेदोमज्जहृन्नाभिय-
कृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि, शरीरो-
पचयो बलं वर्णः स्थितिर्र्हानिेश्च रसजानि, इन्द्रियाणि
ज्ञानं विज्ञानमायुः सुखदुःखादिकं चा