सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
४२ सङ्गीतमकरन्दे ।
अङ्गतालाः क(थ्यन्ते) ।
गुरवः षोडश ज्ञेया द्वात्रिंशल्लघवः पुनः ।
चतुःषष्टिर्द्रुताश्चैव तालो यक्षपतिर्भवेत् ॥ ३३ ॥
विरामार्धार्धचन्द्रार्धमातृकात्रितयं तथा ।
व्यञ्जनं च लयं खण्डं लघुद्वन्द्वं द्रुतं ततः ॥ ३४ ॥
अनुद्रुतद्वन्द्वलघुस्तालोऽयं वाद्यविभ्रमः ।
इति सङ्गीतकैः प्रोक्तो द्रावडीदश विश्रुतः ॥ ३५ ॥
मरताले नकारः स्याद्गणो ल ततो लगः । , ,
ततश्च बिन्दवश्चैव कल्पितं भचतुष्टयम् ॥ ३६ ॥
पुनर्मठभकारश्च निःशब्दं च गुरुद्वयम् ।
आलापमध्ये चार्द्धेन्दुः सूरिभिश्च विरच्यते ॥ ३७ ॥
गुरुर्वैहुकलायुक्ता द्रुतयुग्मं ततः परम् ।
ब्रह्मताले भवेत्तत्र नारदस्य मतं यतः ॥ ३८ ॥
द्रुतमेकं लघुद्वन्द्वं निःशब्दो लत्रयं भवेत् ।
द्रुतमल्प (?) मया प्रोक्तो लघून्त्याभ्यो निरूपितः ॥ ३९ ॥
गीतझम्पाख्यके ताले व्यञ्जनं द्रुतमिश्रलः ।
वाद्यं झम्पा विरामान्त्यं द्रुतद्वन्द्व च बन्धनम् ॥ ४० ॥
ब्रह्माण्डतालेऽनुद्रुतो द्रुतंसालं ह्याकल्पनम् (?) ।
षड्द्रुतास्त्वर्धबिन्दुश्च लघुश्चैव द्रुतद्वयम् ॥ ४१ ॥
तद्वेदबिन्दुलश्चैव ततो मिश्रलघुद्वयम् ।
द्रुतद्वयं विरामान्त्यं रायकोलाहलः स्मृतः ॥ ४२ ॥
द्रुतत्रयं लघुद्वन्द्वं त्रिरावृत्ता भका ततः ।
मातृकाद्वितयं चैव तालः प्रोक्तो महाशनिः ॥ ४३ ॥
अव्यक्तं व्यञ्जनं बिन्दु तिस्रो लघुः पुनः पुनः (?) ।
व्यञ्जनं वलयं द्वन्द्वमव्यक्तं तिल्वलस्तथा ॥ ४४ ॥
तिस्रो व्यञ्जनो बिन्दु(ः) तिसृमात्रेकमेव च ।
तिनाभेरिरिति प्रोक्तो वाद्यविद्याविशारदैः ॥ ४५ ॥
१ °द्रुतसायन्त्ववत्त्वनं° इति स्यात् ।
नृत्याध्याये तृतीयः पादः । ४३
गगनिःशब्दलध्वेकद्वितीयं लगलश्रुतम् ।
नगलो द्वौ द्रुतं दीर्घं यगणो लवलः स्मृताः ॥ ४६ ॥
गुरवः सप्त विज्ञेयाः सरलानि च षोडश ।
द्रुता विंशतिराख्यातास्तालो वाद्यगजाङ्कुशः ॥ ४७ ॥
(अथ) तालशब्दनिष्पत्तिः ।
तालशब्दस्य निष्पत्तिः प्रतिष्ठार्थेन धातुना ।
गीतं वाद्यं च नृत्यं च भाति ताले प्रतिष्ठितम् ॥ ४८ ॥
संयोगे च वियोगे च वर्तते च तयोर्द्वयोः ।
स्थापितोऽपि दश प्राणैः स कालस्तालसंज्ञिकः ॥ ४९ ॥
शिवशक्त्यात्मकं पुण्यं यशस्यं भुक्तिमुक्तिदम् ।
दशप्राणात्मकं तालं यो जानाति स तत्त्ववित् ॥ ५० ॥
कालमार्गक्रियाङ्गानि ग्रहजातिकलालयाः ।
यतिप्रस्तारकं चैव तालप्राणा दश स्मृताः ॥ ५१ ॥
अथ काललक्षणम् ।
उपर्युपरि विन्यस्य पद्मपत्रशतं सकृत् ।
स कालः सूचिसंवेदात्तत्क्षणस्य कलं प्रति ॥ ५२ ॥
लवः क्षणैरष्टभिः स्यात्काष्ठा चाष्टलवात्मिका ।
अष्टकाष्ठा निमेषः स्यान्निमेषैरष्टभिः कला ॥ ५३ ॥
ताभ्यां चैव चतुर्भागचतुर्भानामनुद्रुतः (?) ।
अनुद्रुताभ्यां बिन्दुश्च बिन्दुभ्यां तु लघुर्भवेत् ॥ ५४ ॥
लघुद्वन्द्वं गुरुश्चैव त्रिलघु द्रुतमुच्यते ।
इतिमानगतिः प्रोक्ता तालज्ञैः पूर्वसूरिभिः ॥ ५५ ॥
अथ मार्गलक्षणम् ।
दक्षिणो वार्तिकश्चैव तथा चित्रविचित्रकः ।
तथा चित्रतरस्तु स्यादतिचित्रतरो मतः ॥ ५६ ॥
४४ सङ्गीतमकरन्दे ।
षैडवः कथितो मार्गस्तस्य रूपं निरूप्यते ।
एतदेव नारदस्य मतमिष्टं यथाक्रमम् ॥ ५७ ॥
अष्टमात्रा कला ज्ञेया मार्गे दक्षिणसंज्ञके ।
वार्तिकस्य तु चतुर्मात्रा कला चित्रा द्विमात्रिका ॥ ५८ ॥
द्रुता चित्रतरे तस्या लघुश्चित्रतरो मतः ।
अतिचित्रतरो मार्गकलाश्च द्रुतसंज्ञिकाः (?) ॥ ५९ ॥
मात्रालक्षणम् ।
लघ्वक्षराणां पञ्चानां मानमुच्चारणे हि तत् ।
तत्प्रमाणं परिज्ञेयं मार्गस्तालस्ततो बुधैः ॥ ६० ॥
मार्गदेशीगतत्वे च तत्राद्यस्य क्रिया द्विधा ।
तद्द्विधं कथयिष्यामि नारदो मार्गलक्षणी (णम्) ॥ ६१ ॥
तत्र चौवाद्निष्क्रामं विक्षेपं च प्रवेशनम् ।
चतुर्विधं च कल्पेत निःशब्दः कथितो बुधैः ॥ ६२ ॥
शम्यतालो द्रुतश्चैव संनिपातस्तथा परम् ।
सशब्देन च संयुक्तो विज्ञेयश्च चतुर्विधः ॥ ६३ ॥
सर्वाङ्गुलिसमाक्षेप औपाद इति कीर्तितः ।
निष्क्रामोध गतिस्तस्या अङ्गुलीनां प्रसारणम् ॥ ६४ ॥
तस्य दक्षिणतः कालो विक्षेप इति कथ्यते ।
विवर्णनं च हस्तस्य प्रवेशोऽधोमुखस्य च ॥ ६५ ॥
तस्य हस्तनिपातस्तु शम्यतालस्तु वामतः ।
हस्तयोरुभयोर्घातो संनिपातद्रुतौ स्मृतौ ॥ ६६ ॥
एतदष्टप्रकारास्तु मार्गभेदा विवक्षिताः ।
तत्रा(द्य)द्वित्रिचतुरकलासु प्रतियोगितः (नः) ॥ ६७ ॥
अथ देशीक्रिया ।
देशीयोग्यं (ग्यान्) प्रवक्ष्यामि व्यापारान् ध्रुवकादिकान् ।
ध्रुवका सर्पिणी कृप्या पद्मिनी च विसर्पिका ॥ ६८ ॥
१ 'षड्भिः कथि' इति शुद्धः पाठः स्यात् । २ 'चावाप' इति शुद्धः पाठः स्यात् । ३ 'आ-
वाप' इति शुद्धः पाठः स्यात् ।
नृत्याध्याये तृतीयः पादः । ४५
विक्षिप्ताख्या पताकाख्या मातृका त्वरित्राष्टमी ।
अमात्राणि (पि) विज्ञेया कथितं नारदेन च ॥ ६९ ॥
सशब्दो ध्रुवका ज्ञेया सर्पिणी वामगामिनी ।
कृष्या दक्षिणतः पातः पद्मिनी स्यादधोगता ॥ ७० ॥
विसर्पिका बहिर्याता विक्षिप्ता कुलजात्मिका ।
पताका चोर्ध्वगमना पतिता करपालना ॥ ७१ ॥
दक्षिणमार्गमात्रानामानि ।
ध्रुवका सर्पिणी चैव पताका परिकीर्त्यते ।
चतुर्मात्रा कला ज्ञेया वार्तिकेऽपि न योजयेत् ॥ ७२ ॥
ध्रुवकापतिते चित्रसरिचित्रादिकान् द्रुतान् (?) ।
अनेनैव प्रकारेण कालमार्गक्रिया भवेत् ॥ ७३ ॥
अथ अङ्गानि ।
अनुद्रुतो द्रुतश्चैव लघुर्गुरुस्ततः परम् ।
प्लुतश्चेति क्रमेणैव तालाङ्गानि च पञ्चधा ॥ ७४ ॥
द्रुतस्य देवता शम्भुर्लघोश्चाद्रिपतेः सुता ।
गौरी च श्रीश्चापि गुरोः प्लुते ब्रह्मादयस्त्रयः ॥ ७५ ॥
अथ ग्रहाः ।
ग्रहास्त्रिधा समा नीतास्तथानागत इत्यपि (?) ।
तल्लक्षणं च वक्ष्यामि नारदो मुनिपुङ्गवः ॥ ७६ ॥
निकोतीते त्वतीतस्य तालातीते त्वनागतः ।
समः समग्रहः प्रोक्तस्तालज्ञैः पूर्वसूरिभिः ॥ ७७ ॥
अथ जातिः कथ्यते ।
३चतुरस्रस्तिस्रमिपस्तालं खंखाभिधे तथा (?) ।
चतुर्विधो भवेत्तालस्तत्स्वरूपं निरूप्यते ॥ ७८ ॥
१ 'समो नीतस्तथा' इति शुद्धः पाठः स्यात् । २ 'नीतोऽतीते' इति पाठः शुद्धः स्यात् । उ-
द्देशे (श्लो. ७६) 'नीतः' इत्येव पाठदर्शनात् । ३ 'चतुरस्रस्तिस्रमिथस्ततः खण्डाभिधस्तथा' इति
शुद्धः पाठः स्यात् ।
नृत्याध्याये तृतीयः पादः । ४७
द्रुतादयः क्रमाद्यत्र यतिः स्रोतोवहा मता ।
गोपुच्छा इति विज्ञेया द्रुतादीनां विपर्ययात् ॥ ८८ ॥
अथ प्रस्तारः ।
अन्येऽपि सन्ति भूयिष्ठास्तालास्ते लक्ष्यवर्त्मनः ।¹
प्रसिद्धविधिरत्रैव शास्त्रेऽस्मिन्प्रतिपादितः ॥ ८९ ॥²
तथेति³ तक्प्रयार्थं तु (?) लघूपाया भवन्त्यमी ।
प्रस्तारसंख्या⁴ नष्टं चोद्दिष्टं पातालकस्तथा ॥ ९० ॥
द्रुतमेरुर्लघुमेरुर्गुरुमेरुः प्लुतस्य च ।
मेरुः संयोगमेरुश्च खण्डप्रस्तारकं तथा ॥ ९१ ॥
प्राचां चतुर्णां मेरूंणां नष्टोद्दिष्टं पृथक् पृथक् ।
एकोनविंशतिरिति प्रैतिख्यानं⁵ ब्रुवेऽधुना ॥ ९२ ॥
प्रस्तारो यथा-
⁶न्यस्याल्पमध्यमहतोऽधस्तात्क्षेपं यनोपरि (?) ।
प्रागूने वामघःस्थाप्यं⁷ संभवे महतो लिखेत् ॥ ९३ ॥
अल्पानासम्भवे तालपूर्त्यै भूयोऽप्ययं विधिः ।
सर्वद्रुतावधिः कार्यः प्रस्तारोऽयं लघौ गुरौ ॥ ९४ ॥
प्लुतो व्यस्ते नन्यते च चाक्षराणि चतुर्विधम् (?) ।
संज्ञया तत्परिज्ञेयं द्रुतं लघुगुरुप्लुतम् ॥ ९५ ॥
प्रत्येकं तु द्रुतादीनां भवेत्कार्यसपञ्चकम् (?) ।
अनुद्रुतमर्धचन्द्रं व्यञ्जनं चारु नासिकम् ॥ ९६ ॥
अव्यक्तं चेति पञ्चैते पर्यायाख्यमनुद्रुते ।
अर्धमात्रद्रुतं व्योम वलयं बिन्दुके द्रुतम् ॥ ९७ ॥
१ °भूयांसस्तालास्ते लक्ष्यवर्त्मनि° । इति सङ्गीतरत्नाकरे पाठो दृश्यते । २ °प्रसिद्धिविधुरत्वेन
शास्त्रेऽस्मिन्प्रदर्शिताः° । इति पाठः सङ्गीतरत्नाकरे । ३ °तद्भेदप्रत्ययार्थं तु लघू° इति पाठः स-
ङ्गीतरत्नाकरे । ४ °प्रस्तारसंख्ये न° इति पाठः सङ्गीतरत्नाकरे । ५ °प्रत्ययार्थं ब्रुवेऽधुना° इति
सङ्गीतरत्नाकरपाठः । ६ 'न्यस्याल्पमाद्यान्महतोऽधस्तात्क्षेप्यं यथोपरि' इति सङ्गीतरत्नाकरे । ७
°प्रागूने वामसंस्थास्तु संभवे° इति सङ्गीतरत्नाकरे ।
नृत्याध्याये चतुर्थः पादः । ४९
समध्वनिसमायुक्तं श्रूयते पुत्रवर्धनम् ।
राज्याभिवृद्धिरतुलं रणे शत्रुपलायनम् ॥ ८ ॥
एकमेकं भिन्नरूपं ध्वनिं यत्र शृणोति यः ।
शिवनादे भवेद्याधिः शक्त्या दारिद्य्रमाप्नुयात् ॥ ९ ॥
( इति मृदङ्गलक्षणम् ।)
अरेखा सारिणी चैव सम्प्रसारी ततः परम् ।
समगैकेव कैवालं हस्तसंयुक्तमेव च ॥ १० ॥
अरेखा संपुटीयुक्ते पुरोदृष्टिमवेक्षते ।
सारिणीं दक्षिणभुजे करौ खण्डयुतौ द्रुतौ ॥ ११ ॥
प्रसारिणी वामभुजे हस्ते हस्तकनिष्ठिके ।
अङ्गुली कङ्कणाभावे वेष्टिताग्र आन्त्यकौ ॥ १२ ॥
समगैकेति विख्याता हस्तौ वामस्तने धृतौ ।
कैवालं दक्षिणकुचे लग्नौ चूचुकदर्शनम् ॥ १३ ॥
चतुरं च कुवलं च धृतहस्तमनूरणम् ।
परिक्रमं च पञ्चैते चासंयुतमर्तं विदुः ॥ १४ ॥
चतुरं कमलं हस्तमुन्नतपार्श्वदक्षिणे ।
वामे पताकवद्वृत्ता चलनं च कुवालकम् ॥ १५ ॥
कनिष्ठाङ्गुलिमुखेन वलये धृतहस्तकम् ।
समपादतलौ दृष्टिपाश्र्वैकैकरो मतः ॥ १६ ॥
ससर्पफणिपक्षेन ऊर्ध्वान्तलपुरो यदि ।
दक्षिणे कटिनृत्यं च करोति च मनूरणम् ॥ १७ ॥
वामपार्श्वं तु वलयं हस्तं यत्र करोति सः ।
तर्जन्यङ्गुष्ठकं रन्ध्रं परिक्रममुदीरितम् ॥ १८ ॥
कुरुडायी चित्रतरं तथा चित्रकलीति च ।
घनरवं नागबन्धं चक्रभ्रमरिका तथा ॥ १९ ॥
अतिचक्रभ्रमरी विध्रुतभ्रमरिका ततः ।
अष्टभ्रमरिकान्येव नारदेन विचर्चिता ॥ २० ॥
५० : सङ्गीतमकरन्दे ।
कुरुडायी शिरोभ्राम्यं स्थितं दक्षिणपार्श्वके ।
पार्श्वे दृष्टिर्विपपदा उच्चोचगमनं ततः ॥ २१ ॥
शिरोभ्रमणम् ।
वामे कटिभ्रमणकं विक्षेपं पा.....णे ।
वामस्कन्धं च दृष्टिं च स्थाप्यचित्रकुली तथा ॥ २२ ॥
भ्रमणं दक्षिणकटे (टौ) पादं विक्षिप्य वामके ।
वामस्कन्धे दृष्टिं.... घनरवं भ्रमणं च तत्(?) ॥ २३ ॥
शिरोभ्रमणकं कृत्वा स्कन्धमध्ये निवेशयेत् ।
समदृष्टिः समगतिर्नागबन्धं कराङ्गुलिम् ॥ २४ ॥
कट ऊर्ध्वं भ्रमणकं कटे लग्नं तु वामकम् ।
वामपार्श्वे तु गमनं चक्रभ्रमरिका भवेत् ॥ २५ ॥
सदैव भ्रमणं कुर्याद्धस्तो दक्षिणकट्यपि (?) ।
निवेश्य दक्षिणगतिरतिभ्रमरकं भवेत् ॥ २६ ॥
सर्वाङ्गभ्रमणं कुर्यात्समदृष्टिरधो द्वयोः ।
मध्ये मध्ये च नटनं धृतभ्रमरिका भवेत् ॥ २७ ॥
घोटारणी चिगुरुश्च समगात्रं यथाक्रमम् ।
वीरगात्रं विपमकमर्धगात्रं तथैव च ॥ २८ ॥
वीरगात्रफणीवालं चिटिवोटवणिस्तथा ।
शिरांसि नवसङ्ख्यानि नारदस्य मतानि तु ॥ २९ ॥
उन्नतं च शिरः कृत्वा भ्रूविक्षेपश्च वीक्षकैः ।
उद्धतौ च करौ कृत्वा चलनं वोटवेणिकम् ॥ ३० ॥
वामहस्ते शिरः स्थाप्य (?) कटाक्षैर्वीक्षितो गतिः ।
मध्ये मध्ये च गमकं चिगुरुः कथ्यते बुधैः ॥ ३१ ॥
तथैव दक्षिणे हस्ते स्थापयेच्च शिरो दृशः ।
मध्यमध्ये विरामं च समगात्रमिति स्मृतम् ॥ ३२ ॥
१ अस्मदादर्शपुस्तके त्रीण्यक्षराणि त्रुटितानि । २ अत्रादर्शपुस्तके द्वे अक्षरे लुप्ते ।
नृत्याध्याये चतुर्थः पादः । ५१
अधोदृष्टिशिरःपातवदनं चिह्नतालुकम् (?) ।
१............तं वरगात्रमिति स्मृतम् ॥ ३३ ॥
अर्धपार्श्वगतिं शीर्षं वक्रकटिसमन्वितम् ।
वामहस्तेऽङ्गुलितटं कटकं विपगात्रकम् ॥ ३४ ॥
अर्धगात्ररङ्गिशिरः पुरोहस्तौ कटीतटौ ।
धृत्वा रञ्जितसर्वत्रनृत्यं नृत्यं च कोहलम् ॥ ३५ ॥
तथैव वामजङ्घोरु शिरो निक्षिप्य दृष्टयः ।
गमनं च फणीवालं २.........भवेत्तथा ॥ ३६ ॥
अन्तःशिरो बाह्यशिरो (रः) ऊर्ध्वाधो बाहुकुञ्चनम् ।
भ्रमति भ्रम्यचतुरो विटभाटावणिक्रमम् ॥ ३७ ॥
चित्रं चैवातिचित्रं च विन्दन्ति सम एव च (?) ।
चत्वारश्चरणा भेदाः कथिता नारदेन च ॥ ३८ ॥
चक्रपादाङ्गुलीरम्यं नटभावं विनिर्दिशेत् ।
नीचोच्चगमनं कुर्याच्चित्रलक्षणमुच्यते ॥ ३९ ॥
उभौ पादाङ्गुली वक्रौ (के) कृत्वा गमनमादिशेत् ।
मध्ये भ्रमणकं कुर्यादतिचित्रं वदन्ति च ॥ ४० ॥
पाद्मालाङ्गुलौ गम्यमधोहस्तौ कृतौ नटः ।
अर्धपार्श्ववक्रभेदं भयेद्विवन्ति तालगाः ॥ ४१ ॥
समपादौ समा दृष्टिः समचारीकृतान्विताः ।
समभ्रमणनटनः सममित्युच्यते बुधैः ॥ ४२ ॥
त्रयस्त्रिंशन्नटीभावाः सर्वदेशेषु संमताः ।
सर्वशास्त्रसमा भावाः कथिता नारदेन च ॥ ४३ ॥
इति श्रीनारदकृतौ सङ्गीतमकरन्दे नृत्याध्याये हस्तकप्रकरणं नाम
चतुर्थपादः समाप्तः ॥
इति सङ्गीतमकरन्दः समाप्तः ।
१ अत्रादर्शपुस्तके सप्ताक्षराणि लुप्तानि । २ अत्रादर्शपुस्तके चत्वार्यक्षराणि त्रुटितानि ।
३ इतोऽग्रे आदर्शपुस्तके लेखकेन आदर्शपुस्तकावलोकनकालः स्वाभिधानादिकं च निरूपितं यथा—
“शके १४९९ शालिवाहे पिलङ्गनामवत्सरे आश्विनमासे शुक्लपक्षे विजयदशम्यां विद्यापुरमहानगरे
श्रीमन्महागणपतिदासात्मजकृष्णाजीदत्तेनेदं सङ्गीतमकरन्दाख्यपुस्तकं लिखितम् । महागणपतिर्जयति” ॥
:परिशिष्टम् १
श्रुतीनां संख्यानामशुद्धविकृतस्वरदर्शकतालिका ।
श्रुतिसंख्या | श्रुतिनामानि | शुद्धस्वर-नामानि | शुद्धस्वर-श्रुतिसंख्या | विकृतस्वरनामानि | विकृतस्वरगत-श्रुतिसंख्या
१ | सिद्धा | ० | ० | कैशिकनिषादः | त्रिश्रुतिकः
२ | प्रभावती | ० | ० | काकलीनिषादः | चतुःश्रुतिकः
३ | कान्ता | ० | ० | च्युतषड्जः | द्विश्रुतिकः
४ | सुप्रभा | षड्जः | चतुःश्रुतिकः | अच्युतषड्जः | ०
५ | शिखा | ० | ० | ० | ०
६ | दीप्तिमती | ० | ० | ० | ०
७ | उग्रा | ऋषभः | त्रिश्रुतिकः | ० | ०
८ | ह्लादी | ० | ० | विकृतर्षभः | चतुःश्रुतिकः
९ | निर्धरी | गान्धारः | द्विश्रुतिकः | ० | ०
१० | दिरा | ० | ० | साधारणगान्धारः | त्रिश्रुतिकः
११ | सर्पसहा | ० | ० | अन्तरगान्धारः | चतुःश्रुतिकः
१२ | क्षान्तिः | ० | ० | च्युतमध्यमः | द्विश्रुतिकः
१३ | विभूतिः | मध्यमः | चतुःश्रुतिकः | अच्युतमध्यमः | ०
१४ | मालिनी | ० | ० | ० | ०
१५ | चपला | ० | ० | ० | ०
१६ | बाला | ० | ० | { त्रिश्रुतिपञ्चमः, कैशिकपञ्चमो वा | त्रिश्रुतिकः
१७ | सर्वंरत्ना | पञ्चमः | चतुःश्रुतिकः | ० | ०
१८ | शान्ता | ० | ० | ० | ०
१९ | विकलिनी | ० | ० | ० | ०
२० | हृदयोन्मलिनी | धैवतः | त्रिश्रुतिकः | ० | ०
२१ | विसारिणी | ० | ० | विकृतधैवतः | चतुःश्रुतिकः
२२ | प्रसूना | निषादः | द्विश्रुतिकः | ० | ०
परिशिष्टम् २
प्राचीनसंगीतग्रन्थानां ग्रन्थकाराणां च नामावली जिज्ञासुबोधार्थमत्र प्रका-
शिता । तत्र ये ग्रन्था मुद्रितास्तेषां नामानि नक्षत्रचिह्नेन दर्शितानि ।
ग्रन्थनामानि ग्रन्थकर्तृनामानि
अनूपसंगीतविलासः भावभट्टः
अभिनयमुकुरम् ... ...
अभिनवभरतसारसंग्रहः मुम्मडिचिक्कभूपालः
अर्जुनभरतम् अर्जुनः
अष्टोत्तरशतताललक्षणम् ... ...
आदिभरतम् भरताचार्यकृतम्
आनन्दसजीवनम् राजा मदनपालः
औमापत्यम् उमापतिः
कल्पतरुः गणेशदेवः
गीतालाङ्कारः अनन्तनारायणः
तालदशप्राणदीपिका गोविन्दः
तालदीपिका टिप्पभूपालः
तालप्रस्थम् ... ...
तालप्रस्तारः ... ...
ताललक्षणम् नन्दिकेश्वरः
तालादिलक्षणम् ... ...
तालाभिनयलक्षणम् नन्दिकेश्वरः
ध्रुवपदटीका भावभट्टः
नर्तननिर्णयः पुण्डरीकविठ्ठलः
नाददीपिका भट्टाचार्यः
नारदी शिक्षा नारदः
नृत्तरत्नावली गणपतिदेवसेनः
नृत्याध्यायः अशोक मल्लः
पञ्चमसारसंहिता नारदः
*भरतनाट्यशास्त्रम् भरतमुनिः
भरतभाष्यम् न्यायदेवः
भरतलक्षणम् ... ...
भरतशास्त्रम् रघुनाथः
भरतशास्त्रसङ्गीतम् ... ...
परिशिष्टम् २ ५५
ग्रन्थनामानि ग्रन्थकर्तृनामानि
भरतसारसङ्ग्रहः चन्द्रशेखरः
मतङ्गभरतम् लक्ष्मणभास्करः
मुक्तावलिप्रकाशिका ... ...
मुरलीप्रकाशः भावभट्टः
मेलाधिकारलक्षणम् ... ...
रागकौतूहले नृत्तप्रकरणम् रामकृष्णभट्टः
रागचन्द्रोदयः हेमल्लः
रागतत्त्वविबोधः श्रीनिवासः
रागध्यानादिकथनाध्यायः ... ...
रागनिरूपणम् नारदः
रागप्रस्तारः ... ...
*रागमञ्जरी पुण्डरीकविठ्ठलः
रागमाला पुण्डरीकविठ्ठलः
रागमाला रत्नमाला वा क्षेमकरणः
रागरत्नाकरः गन्धर्वराजः
रागलक्षणम् ... ...
रागविचारः धीररामः
*रागविबोधः सोमनाथः
रागविवेकः ... ...
रागादिस्वरनिर्णयः रघुनाथदासप्रसादः
रुद्रडमरुभवसूत्रविवरणम् ... ...
वीणावाद्यलक्षणम् ... ...
वीरपराक्रमः वासुदेवः
श्रुतिभास्करः भीमदेवः
षड्रागचन्द्रोदयः ... ...
सप्ताङ्गलक्षणम् ... ...
*षड्रागचन्द्रोदयः पुण्डरीकविठ्ठलः
सङ्कीर्णरागाध्यायः ... ...
सङ्गीतकल्पतरुः ... ...
सङ्गीतचिन्तामणिः कमललोचनः
सङ्गीतदर्पणम् हरिवल्लभः
*सङ्गीतदर्पणम् दामोदरः
सङ्गीतदामोदरः शुभङ्करः
सङ्गीतदीपिका निम्बभूपालः
५६ सङ्गीतमकरन्दे ।
ग्रन्थनामानि ग्रन्थकर्तृनामानि
सङ्गीतनारायणः ... ...
सङ्गीतनारायणः पुरुषोत्तममिश्रः
सङ्गीतपाठः ... ...
*सङ्गीतपारिजातः अहोबलः
सङ्गीतपुष्पाञ्जलिः ... ...
*सङ्गीतमकरन्दः नारदः
सङ्गीतमकरन्दः वेदः
सङ्गीतमीमांसा कुम्भकर्णमहीमहेन्द्रः
सङ्गीतमुक्तावली देवाणाचार्यः
” ” देवेन्द्रः
सङ्गीतमेरुः कोहलः
सङ्गीतरत्नमाला ... ...
*सङ्गीतरत्नाकरः श्रीशार्ङ्गदेवः
सङ्गीतरत्नावली सोमदेवपरमर्दी
*सङ्गीतरत्नकरटीका कल्लिनाथः
- ” ” ( अध्याय १ ) सिंहभूपालः
” ” कुम्भकर्णनरेन्द्रः
” ” ( हिंदीभाषा ) गङ्गारामः
” ” हंसभूपालः
सङ्गीतराघवः बोमभूपालः
सङ्गीतराजः कुम्भकर्णः
सङ्गीतविनोदः ... ...
सङ्गीतवृत्तरत्नाकरः विठ्ठलः
सङ्गीतशिरोमणिः ... ...
सङ्गीतसमयसारः पार्श्वदेवः
सङ्गीतसमयसारः ... ...
सङ्गीतसर्वार्थसारसङ्ग्रहः ... ...
संगीतसारामृतम् तुलजेन्द्रः
सङ्गीतसारावली ... ...
सङ्गीतसारोद्धारः हरिभटः
सङ्गीतसुधा ... ...
सङ्गीतसुधाकरः सिंहभूपालः
सङ्गीतसुधाकरः हरिपालः
सङ्गीतसुन्दरः सदासिवदीक्षितः
सङ्गीतसुधामृतम् तञ्जावरनिवाशि भोसले इत्युपाङ्गतुलाजिमहाराजः
परिशिष्टम् २ ५७
ग्रन्थनामानि ग्रन्थकर्तृनामानि
सङ्गीतसेतुः गङ्गारामः
सङ्गीतामृतम् कमललोचनः
सङ्गीतोपनिषत् सुधाकलशः
सारसंहिता नारदः
स्वरप्रसारः ... ...
स्वरमञ्जरी ... ...
स्वरमेलकलानिधिः ... ...
*स्वरमेलकलानिधिः रामामात्यः
*हृदयप्रकाशः हृदयनारायणदेवः
*हृदयकौतुकम् हृदयनारायणदेवः
Additional List of Sanskrit Works on Music
(Supplied by the Central Library, Baroda, as
found in several Mss.-Catalogues and Reports.)
Dr. Bhandarkar's Report 1887-91.
१. संगीतरागकल्पद्रुम.
India office Library Catalogue-Tawney & Thomas.
२. संगीतनारायण. by नारायण.
Buhler's Catalogue-Gujarat, Kathiawad, etc.
३. संगीतरत्नाकर. by सारंगदेव (as distinguished from शार्ङ्गदेव which
is also mentioned in the same place )
४. संगीतोपनिषत्सार.
Oudh Catalogue.
५. संगीतसुधा. by भीमनागेन्द्र.
६. संगीतरत्न. ,, शारंगदेवसूरि.
७. संगीतरत्नसार. by भरताचार्य.
Bodleian Library Catalogue.
८. हस्तरत्नावली. by राघव.
८
५८ सङ्गीतमकरन्दे ।
India office Catalogue-Pt. 2-Eggeling.
९. ताललक्षण. by कोहलाचार्य.
Oppert's List.
१० सङ्गीतसुधाकर. ( सङ्गीतरत्नाकरव्याख्या ) by शिंगभूपाल
Tanjore Catalogue-Burnell.
११ दत्तिलकोहलीयम् by दत्तिलकोहल
१२ अभिनयदर्पण " नदिकेश्वर
१३ वाद्यप्रबन्धलक्षण.
१४. हस्तलक्षण.
१५ अभिनयलक्षण
१६ भरतार्णव by सुमति ( Condensed from नदिकेश्वर's भरतार्णव )
१७ नाट्यलक्षण
१८ भरतीयनाट्यलक्षण
१९. पादूलित by दुढिव्यास
२० कीर्तन
२१ राघवप्रबन्ध
Mysore & Coorg Catalogue-Rice.
२२. नन्दिभरत. by नन्दी
Mysore Catalogue.
२३. सङ्गीतपर्यावली.
२४. अभिनयप्रकरण. (शिवतत्वरत्नाकरांतर्गत )
२५ सङ्गीतचूडामणि. by हरिपालमहीपति.
२६ सङ्गीतलक्षणदीपिका by गौराचार्य
२७ सङ्गीतलक्षण
२८ सङ्गीतसारसङ्ग्रह by पार्श्वदेव
Central Library, Baroda.
२९ सङ्गीतचूडामणि by कविचक्रवर्ति
३० मानकौतूहल ( सङ्कीर्णाध्याय only ) in हिंदी
३१ भावप्रकाशन by शारदातनय
३२ मानमनोरञ्जन by मयाशङ्कर
३३. सङ्गीतराज by कुम्भकर्ण-
which is a सङ्गीतमीमांसा of 16,000 granthas consisting of
five Ratnakos'as (1) पाठ्यरत्नकोश (2) गीतरत्नकोश (3) वाद्यरत्नकोश
(4) नृत्तरत्नकोश (5) रसरत्नकोश, of which No 2 consisting of
about one third of the work is yet to be secured
परिशिष्टम् २ ५९
Rajendralal Mitra's Notices of Sanskrit Mss.
३४. रागमाला. by जीवराजदीक्षित.
Bikaner Catalogue.
३५. सुबोधिनी. (करणतन्त्रव्याख्या) by गणेशदेव.
३६. संगीतसार.
३७. संगीतरत्नाकर. by चूनरक son of लक्ष्मणार्य.
Madras Oriental Library.
३८. अभिनयशास्त्र. by कोहल.
३९. स्वररागसुधारस. (तालदशप्राणप्रकरण) तेलगूभाषांतरसहित.
४०. नाट्यचूडामणि. by सोमणार्य.
४१. भरतार्थचंद्रिका. by नंदिकेश्वर.
४२. मृदंगलक्षण.
४३. रागवर्णनिरूपण.
४४. रागसागर.
४५. संगीतरत्नाकर. (आंध्रभाषाटीकासहित)
Mr. T. C. Krishnaswami Iyer of Mylapore gave the
following names in the "Hindu" of Madras:—
Miscellaneous
४६. संगीतरत्न. } Both by राधामोहन सेन.
४७. संगीतरंग. }
४८. नाटकदर्पणसूत्र.
४९. संगीतसूत्रधार. by हरिजीवनब्राह्मणिक.
५०. संगीतसूत्र by मनोमथयनदि (ति?) (Probably मम्मट).
५१. संगीतकौमुदी by नारायण.
५२. अष्टमातृकाप्रबन्ध.
५३. गीतप्रकाश.
५४. हस्तमुक्तावलि.
सङ्गीतमकरन्दग्रन्थस्थानां पारिभाषिकदिशब्दानां वर्णानुक्रमणी।
पृष्ठं
अङ्गतालाः ४२
अङ्गद १३,३६
अङ्गानि ४५
अतिचित्र ५१
अतिश्रमरकं ५०
अत्रि ४
अद्भुत ५
अनाहत १,२
अनुराधा ५
अनुवादी ३,१२
अनुष्टुप् ४
अन्तर ७
अभिरङ्गता ६
अरुणा ११
अरेखा ४९
अवरोही ३
अश्वक्रान्ता ६
आग्नेय. १३
आत्रेय ४
आयति ११
आरोही ३
आलापा ६
आलिङ्ग २३
आहत २
इतिहासज्ञः २८
उमा ८
उच्चनीचा ११
उड्डु २२
उत्तममन्दा ६
उत्तरा ५
उत्तरायता ६
उष्णिक ४
ऋषभ ३
औडवः १२,२६
पृष्ठं
कच्छपी २२
कण्टक ५१
कटका २२
कन्या ५
कपिलः ४
कमलास्यकः १३
कम्पित १३
करणा २२
करुणा ५
कलोपनता ६
कवि २८
कश्यप. १२,३३
काकली ७
कान्ता ८
काललक्षणम् ४३
काहला २२
किन्नरी २२
किन्नरेशः १३
कुपित १३
कुबेरः १३
कुब्जिका २२
कुम्भ ५
कुरुंडायी ५०
कुचल ४९
कुशद्वीप ४
कुशिकः १३
कूटकारः २४
कूटतानः १०
कूर्मारवा ११
कूर्मी २२
केवाल ४९
कैशिकी ११
कोहलं ५१
कोहलः ३३
-something?
Wait, look at the first word:
कम...
Wait, could it be "कमठदुहितः"?
Wait, who is "कमठदुहितः"?
Kamatha-duhita = daughter of Kamatha?
Wait, could it be "कमलदुहितः"? Daughter of Kamala?
Wait, could it be "कर्कटदुहितः"? No, starts with क, then म.
Wait, could it be "कमलादयितः"? (Husband of Kamala = Vishnu)?
LOOK AT THE WORD:
क
म
ला (or र?)
द
यि
तः
Wait! Look at the letter before तः:
Is it 'यि' or 'हि' or 'चि'?
Wait! Look at 'द' - then 'यि' - य with i-kar!
"कमलादयितः"???
Wait, Kamala-dayita = Vishnu!
Wait, but Gopipati (Krishna/Vishnu) is on page 3.
Is Kamala-dayita on page 13?
Wait, look at the fourth and fifth letters:
Letter 1: क
Letter 2: म
Letter 3: look at the third letter:
Is it 'ठ'? 'र'? 'ला'?
Wait, does it have an 'aa' vowel mark?
No, wait! Look at the third letter:
It is 'दु'!
Wait, is it only 5 letters?
Let's count:
६२ सङ्गीतमकरन्दे ।
पृष्ठं | पृष्ठं
नागबन्धं ५० | बिन्दुः १३
नाट्यं १ | वीभत्सः ५
नाट्यशाला २७ | बोटावणी ५०
नादभेदाः २३ | बृहती ४
नादोत्पत्तिः १ | ब्रह्मा २,४,१३,३३
नारदः १,३,४,५,६,१३,३३ | ब्राह्मी. २१
निर्वैरी ८ | भटः २८
निवृत्तः १३ | भरतः १३,३३
नृत्यं १ | भार्गवः ४
पक्षी ४ | भास्करः ४
पञ्चमोदीच्यवा १० | भूमिगुप्तः ५
पटहः २२ | भृगुः ५
पणवः २२ | भूरिदेवेन्द्रः १३
पराशरः ४ | मघा ४
परिक्रमं ४९ | मडुः २२
परिवादिनी २२ | मतङ्गः १३,३३
परिहासकः २८ | मत्सरीकृत ६
पात्रलक्षणं ३० | मध्य १०
पार्वतीपतिः ३ | मध्यमग्रामः ५
पुराणिकः २९ | मनूरण ४९
पुष्कर ( द्वीप ) ४ | मन्द्रः १०
पुष्पाञ्जली ३२ | मन्द्रा २२
पूर्वाषाढा ५ | मर्दलः २१
पौरकी ६ | महती २२
प्रकृतः १३ | मात्रा ४४
प्रकृतिः ११ | माना ( तृ ) गुप्तः १३
प्रभावती ८ | मादली ६
प्रसन्नमध्यः १३ | मार्गः १३
प्रसन्नादिः १२ | मार्गलक्षणम् ४३
प्रसन्नाद्यन्तः १३ | मालिनी ८
प्रसन्नान्तः १२ | मुखरिफा २२
प्रसूना ८ | मूर्च्छना ७
प्रस्तारः ४७ | मृदङ्गः ३३,४८
प्रेङ्खः १३ | मृदङ्गलक्षणम् २१
फणितालं ५१ | यक्षः १३
बलिः १३ | योगिनः २
बाला ८ | रजनी ६
Not to be Issued
BHAVAN'S LIBRARY
Kulapati K. M. Munshi Marg
BOMBAY-400 007
६४ सङ्गीतमकरन्दे ।
पृष्ठं | पृष्ठं
षड्जः ३,३ | सम्भ्रमारी ४९
षड्जकैशिकी १० | शंरा ६
षड्जग्रामः ५ | सशङ्की ३,१२
षड्जमध्य। १० | सर्वारी ६
षड्जादि १० | सामवेदः ३
षण्मुखः १३ | सारस्वती २३
षाडवः १२,२६ | सारिणी ४९
सदाशिवः ३३ | सिद्धा ८
सभापतिः ३९ | सिद्धः ५
सभालक्षणं २७ |
समं ५१ | सुप्रभा ८
समगात्रं ५० | सुमुखी ६
समगीत १० | सूर्यः ५
समगेया ४९ | सैरन्ध्री २२
समुद्रः १३ | स्थायी ३,१२
सरस्वती ३,१३ | स्वरः १४
सर्पसङ्गा ८ | हतः १
सर्वैरत्ना ८ | हनुमान् ३३
सशीर्णरागाः २६ | हरिः १३,३३
सङ्गीतं १ | हरिणाक्षा ६
सञ्चारिणी १२ | हरिश्चन्द्र १३
सञ्चारी ३ | हृदयोन्मलिनी ८
सन्ध्यन्ती १० | हृष्यका ६
सम्पूर्णः १२,२६ | ह्लादी ८