सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
पृष्ठ 24, कुल 76 में से
संदर्भ में पढ़ेंसङ्गीताध्याये प्रथमः पादः । ९
जातिभिः श्रुतिभिश्चैव खरा ग्रामत्वमागताः ।
तद्वृत्तथैव भृत्यैव काव्यबन्धप्रतिष्ठिताः ॥ ८६ ॥
स्वराः षड्जादयस्तत्र ग्रामौ द्वौ षड्जमध्यमौ ।
केचिद्गान्धारमप्याहुः स तु नेहोपलभ्यते ॥ ८७ ॥
सप्तस्वरादयो ग्रामे चतुर्दश च मूर्च्छनाः ।
तासामेकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥ ८८ ॥
भूर्लोकाज्जायते षड्जो भुवर्लोकात्तु मध्यमः ।
स्वर्गलोकात्तु गान्धारो नारदस्य मतं यथा ॥ ८९ ॥
आद्या ह्युत्तरमन्द्रा स्याद्रञ्जनी चोत्तरायता ।
चतुर्विधशुद्धषड्जौ पञ्चमी मत्सरीकृता ॥ ९० ॥
ऽअक्रान्ता तु षष्ठी च सप्तमी ॰॰॰॰रुद्धता ।
प्रतिपद्यादितिथिषु जाता मन्द्रास्तु संयुताः ॥ ९१ ॥
सनिधपमगरिसा ज्ञातव्याः सप्त मूर्च्छनाः ।
षड्जग्रामाश्रिता ह्येता नारदेन विवक्षिताः ॥ ९२ ॥
मध्यसंचीरादिखरः ।
संवीरा हरिणाश्वा च स्यात्कलोपनतायता ।
शुद्धमध्या तथा चैव मार्दली पौरली तथा ॥ ९३ ॥
कृष्णप्रतिपदः सप्त लिथीषु (?) जनिताः खराः ।
ताखरा (?) मध्यमग्रामे स्थापिता नारदेन च ॥ ९४ ॥
नन्दा विशाला सुमुखी चित्रा चित्रावती शुभा ।
आलापा चेति गान्धारग्रामे स्युः सप्त मूर्च्छनाः ॥ ९५ ॥
कृष्णाष्टम्यादितिथयः स्वराः सप्त हितास्तथा ।
गान्धारे स्थापितास्तेन नारदेन यथाक्रमम् ॥ ९६ ॥
सप्त स्वरास्तथा सप्त मूर्च्छना याः प्रकीर्तिताः ।
तानाश्चतुरशीतिस्तु ता एतस्मिन्निरूपिताः ॥ ९७ ॥
१ ०सप्त स्वराश्रयो ग्रामाश्चतुर्दश० इति शुद्धः पाठः स्यात् । २ ०चतुर्थी शुद्धषड्जा च पञ्च० इति
भरतनाट्यशास्त्रस्यः पाठः । ३ ०अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुद्गता० इति भ. ना. पाठः ।
२