सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
पृष्ठ 23, कुल 76 में से
संदर्भ में पढ़ेंसङ्गीताध्याये प्रथमः पादः । ७
ग म प ध नि स रि ।
षड्जः प्राधान्यमायत्वादामाल्याद्विगतस्तथा (?) ।
ग्रामः स्यादथ लोपत्वान्मध्यमस्तु पुरःसरः ॥ ६३ ॥
क्रमाद्ग्रामत्रये देवा ब्रह्मविष्णुमहेश्वराः ।
हेमन्तग्रीष्मवर्षासु ज्ञातव्यास्तु यथाक्रमम् ॥ ६४ ॥
पूर्वाह्नकाले मध्याह्ने अपराह्ने नयादिभिः ।
षड्जादिमध्यगान्धाराः श्रूयेतैश्वर्यसन्ततिः (?) ॥ ६५ ॥
क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।
मूर्च्छनेत्युच्यते ग्रामद्वये ताः सप्त सप्त च ॥ ६६ ॥
षड्जग्रामे तु करमम् मन्दोपिरटनीयता (?) ।
शुद्धषड्जा मत्सरीकृदश्वक्रान्ताभिरुद्गता ॥ ६७ ॥
ताः शुद्धमध्यमार्गेण सप्त पारं च हव्यकाः ।
मध्यमस्थानषड्जेन मूर्च्छनारभ्यते क्रमात् ॥ ६८ ॥
अधःस्थानैर्निषादाद्यैः षड्जः स्यान्मूर्च्छनाक्रमात् ।
मध्यममध्यमारभ्य संवीरी मूर्च्छना भवेत् ॥ ६९ ॥
षड्जस्थानपदोधस्थस्वरादारभ्यते क्रमात् ।
षड्जस्थानस्थितैराद्यैरथान्याद्याः परे विदुः (?) ॥ ७० ॥
हरिणाश्वादिरागाद्यैर्मध्यमस्थानसंज्ञितैः ।
षड्जादीन्मध्यमादींश्च ततोऽर्द्धः सः स्वरः क्रमात् ॥ ७१ ॥
चतुर्धा ताः पृथक् शुद्धाः काकलीकलितास्तथा ।
सान्तराः सङ्घयोपेताः षट्पञ्चाशदुदीरिताः ॥ ७२ ॥
श्रुतिद्वयं चेत् षड्जस्य निषादः संश्रयेदसौ ।
सा काकली मध्यमस्य गान्धारस्त्वन्तरः स्वरः ॥ ७३ ॥
१ संगीतरत्नाकरेऽस्य श्लोकस्य पाठो दृश्यते यथा-
'षड्जः प्रधान माथत्वादमाल्याधिक्यतस्तथा ।
ग्रामे स्याद्विलोपित्वान्मध्यमस्तु पुरःसरः ॥' सं. र. पृ. ४६
२ ºसु ज्ञातव्या० इति संगीतरत्नाकरे पृ. ४६ । ३ 'षड्जे तूत्तरमन्द्रादी रजनी चोत्तरायता' इति
शुद्धः पाठः स्यात् ।