सामग्री पर जाएँ
सर्वकोश
सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

पृष्ठ 18, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 18

२ सङ्गीतमकरन्दे
आकाशसंभवो नादो यः सोऽनाहतसंज्ञितः ।
तस्मिन्ननाहते नादे विरामं प्राप्य देवताः ॥ ५ ॥
योगिनोऽपि महात्मानस्तदानाहतसंज्ञके ।
मनो निक्षिप्य संयान्ति मुक्तिं प्रयतमानसाः ॥ ६ ॥
सोऽप्याहतः पञ्चविधो नादस्तु परिकीर्तितः ।
नखवायुजचर्माणि लोहशारीरजास्तथा ॥ ७ ॥
नखं वीणादयः प्रोक्ता वंशाद्या वायुपूरकाः ।
चर्माणि च मृदङ्गाद्या लोहास्तालादयस्तथा ॥ ८ ॥
देहनादेन ते युक्ता नादाः पञ्चविधाः स्मृताः ।
गीतं वाद्यं च नृत्यं च त्रयं सङ्गीतमुच्यते ॥ ९ ॥
आदौ ब्रह्मा विचार्यैव नाट्यं लोके प्रपञ्चितम् (?) ।
अनाहतात्समाकृष्य सप्तनामानि योजितः ॥ १० ॥
तं नादं सप्तधा कृत्वा तथा षड्जादिभिः स्वरैः ।
नाभिहृत्कण्ठतालुषु नासादन्तोष्ठयोः क्रमात् ॥ ११ ॥
षड्जर्षभगान्धारौ मध्यमः पञ्चमस्तथा ।
धैवतश्च निषादश्च स्वराः सप्त प्रकीर्तिताः ॥ १२ ॥
षड्जं मयूरो वदति चातको ऋषभं तथा (?) ।
अजो विरौति गान्धारं क्रौञ्चः क्वणति मध्यमम् ॥ १३ ॥
पुष्पसाधारणे काले पिकः कूजति पञ्चमम् ।
अश्वश्च धैवतं चैव निषादं च गजस्तथा ॥ १४ ॥
एवं स्वरान् समाकृष्य वीणादिषु निधाय च ।
तेन चाहतनादेन सङ्गीतमकरोत्तदा ॥ १५ ॥
सरस्वत्याश्च वीणायां षड्जादिखरसंयुक्तम् ।
पाठयामास सर्वेषां हृद्यं श्रुतिमनोहरम् ॥ १६ ॥
— रूपालसी रागालसिरिति स द्विविधः स्मृतः । —
रोगास्तल्लनतानाथरूपतः शब्द उच्यते ॥ १७ ॥
१ अस्य श्लोकस्य पाठोऽशुद्धः वर्तते । पुस्तकान्तराभावात् आदर्शपुस्तके यथा दृष्टः तथैवात्र नि-
वेशितः । २ °चातको रिषभं° इति पाठे सन्धिदोषो न स्यात् । ३ 'रागलभनतानाथो रूपकः
शब्द उच्यते' इति शुद्धः पाठः स्यात् ।