सामग्री पर जाएँ
सर्वकोश
सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

पृष्ठ 19, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 19

सामवेदादिदं गीतं तज्जग्राह पितामहः ।
तद्गीतं नारदायैव तेन लोकेषु वर्णितम् ॥ १८ ॥
गीतेन प्रीयते देवः सर्वज्ञः पार्वतीपतिः ।
गोपीपतिरनन्तोऽपि वंशध्वनिवशं गतः ॥ १९ ॥
सामवेदे ततो ब्रह्मा वीणासक्ता सरस्वती ।
अन्ये च बहवः पूर्वे यक्षदानवमानवाः ॥ २० ॥
अज्ञातहृदयस्वादुर्बालः पर्यङ्कधारकः ।
रुदन् गीतामृतं पीत्वा हर्षोत्कर्षं प्रपद्यते ॥ २१ ॥
वनेचरस्तृणाहारः श्रुत्वा मृगशिशुः पशुः ।
लुब्धो लुब्धक सङ्गीते गीते यच्छति जीवितम् ॥ २२ ॥
कृष्णसर्पोऽपि तं नादं श्रुत्वा हर्षं प्रपद्यते ।
तस्य गीतस्य माहात्म्यं कः प्रशंसितुमर्हति ॥ २३ ॥
सर्वाश्रमाणां जातीनां नृपाणां प्रीतिवर्धनम् ।
धर्मार्थकाममोक्षाणामिदमेव हि साधनम् ॥ २४ ॥
स्थायी स्वरेषु सञ्चारी तथारोह्यवरोहकौ ।
स्वराश्चतुर्विधा ज्ञेया रागोत्पादनगोचराः ॥ २५ ॥
स्वरा वादी च संवादी विवादी च चतुर्विधाः ।
अनुवादी च सर्वत्र प्रयोगे बहुशः स्मृतैः ॥ २६ ॥
वादी स्वरस्तु राजा स्यान्मन्त्री संवादिंरुच्यते ।
स्वरो विवादी वैरी स्यादनुवादी च भृत्यवत् ॥ २७ ॥
देववंशास्तु सगमाः पञ्चमः पितृवंशजः ।
रिधौ ऋषिकुले जातौ निषादोऽसुरवंशजः ॥ २८ ॥
ब्रह्मजाती समौ ज्ञेयौ रिधौ क्षत्रियजातिकौ ।
निगौ वैश्याविति प्रोक्तौ पञ्चमः शूद्रजातिकः ॥ २९ ॥


१ 'सञ्जग्राह' इति पाठः समीचीनः । २ 'रतो' इति समीचीनः पाठः स्यात् । ३ 'स्मृताः' इति
बहुवचनान्तः पाठः समीचीनः । ४ 'संवादी' इति शुद्धं पदं, छन्दोभङ्गभिया 'संवादिः' इति कृतं
स्यादिति भाति ।