सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 214, कुल 258 में से
संदर्भ में पढ़ेंअथ नृत्याध्याय प्रारम्भः ॥
प्रणम्य सर्वदेवेशं शिवब्रह्मादिकं ततः ।
सङ्गीतशास्त्रं वक्ष्यामि ब्रह्मणायदुदाहृतम् ॥ १ ॥
दामोदरेण विदुषा चतुरेण कलाविदा ।
सङ्गीतदर्पणोनाम क्रियते कृतिनां मुदे ॥ २ ॥
अथानुक्रमणीं वक्ष्ये तलादौ मुखचालिका
यतिनृत्तं शब्दचालिरुड्डुपानि ध्रुवादिकम् ॥ ३ ॥
नानाविधं लागनृत्तं सूडशब्दमतः परम् ।
नानाविधं शब्दनृत्यं विवर्त्त काडसंज्ञकम् ॥ ४ ॥
सूडद्वये गीतनृत्यं नानागीताश्रितं ततः ।
चिन्दुनृत्यं ततः कुर्यात् तालचारीसमन्वितम् ॥ ५ ॥
देशीकट्टरिनृत्तं च वैपोतारुख्यं ततः परम् ।
शब्दनृत्तं कल्पनृत्तं झकरी ध्रौपदं ततः ॥ ६ ॥
खण्डमानेन विविधं बहुरूपमिति क्रमः
पेरणी गोण्डलीचैव नृत्यमन्यद्यथोचितम्
अथैषां लक्षणं वक्ष्ये यथालक्ष्यागमोदितम् ॥ ७ ॥
इत्यनुक्रमणिका
Sl. 1—7 The several items dealt with in this chapter
(சுலோ. 1—7) விஷய அட்டவணை
अथ मुखचालिः । तत्र प्रथमं प्रभुलक्षणम् ।