सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
DevanagariSanskritpublished258 पृष्ठ
पृष्ठ 204, कुल 258 में से
संदर्भ में पढ़ेंपृष्ठ 204
पूर्वश्चेत्पतितो नस्यात् लघुस्तुपतिताद्भवेत् ।
उत्तरेणाकृतार्थेन सहितात्तदसम्भवे ॥
अकृतार्थेन पूर्वेण सान्तरे पतिते पृथक्
लघुनिरन्तरे तस्मिन् लघुरेव गुरुर्भवेत् ।
गुरुहेतो स्तृतीये तु पतितोगः प्लुतो भवेत् ॥
अङ्गाभावे द्रुताग्राद्यास्ताळपूरणहेतवः । इति नष्टम् ।
अथोद्दिष्टम्
ईदृग्रूपोऽत्रकथितो भेदः प्रश्न इतीदृशः ।
उद्दिष्टं तत् सङ्ख्याङ्कसन्ततिं नष्टवलिखेत् ॥
यैरङ्कैः पतितै र्नष्टे लभ्यन्तेये द्रुतादयः ।
तानेवाङ्कान् लभन्ते ते भेदमुद्दिष्टमाश्रिताः ॥
उद्दिष्टे पतितै रङ्कै न्यूने संख्याभिधीयते ।
यद्वा षट्प्लुतहेत्वङ्कमध्येऽन्त्यात्प्राचि सप्तमे ॥
तदभावे तु षष्ठाङ्के पतिते ऽन्त्याङ्कमध्यतः ।