सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
DevanagariSanskritpublished258 पृष्ठ
पृष्ठ 203, कुल 258 में से
संदर्भ में पढ़ेंपृष्ठ 203
172
ऐकाद्यङ्कान्क्रमान्न्यस्य युञ्जीतान्तं पुरातनैः ।
द्वितीय तुर्यषष्ठाङ्कैरभावे तुर्यषष्ठयोः ॥
तृतीय पञ्चमाङ्काभ्यां क्रमात्तंयोगमग्रतः
लिखेद्दक्षिण संस्थैवमङ्कश्रेणी विधीयते ॥
साचाङ्कैरिष्टताळस्थद्रुतसंख्यैःसमाप्यते
द्रुतो लघुःसार्धमात्रो गुरुः सार्धद्विमात्रुकः ।
प्लुतः सार्धत्रिमात्रश्चेत्येकैकद्रुतवर्धितैः ॥¹
| १ | २ | ३ | ६ | १० | १९ | ३३ | ६० | १०६ | १९१ |
इति सूची
अथनष्टम्
अत्रैतावतिथोभेदः किं रूप इति पृच्छति ।
यत्र तन्नष्टमाख्यातं तस्योत्तरमिहोच्यते ॥
भेदानां यावतांमध्ये नष्टप्रश्नः कृतोभवेत् ।
तावत्संख्याकपर्यन्तां लिखेत्सङ्ख्याकसन्ततिम् ॥
अन्त्याङ्केतलनष्टाङ्कं पातयेदथ शेषतः ।
पातयेत्पूर्वपूर्वाङ्कं तलत्वपतितो द्रुतः ॥
- सङ्गीतरत्नाकरे इतः परंस्थिताः श्लोकार्थाः यथाः—
तालभेदाः क्रमादङ्कैः संख्यायन्तेक्रमादिह । यदङ्कयोगादन्त्योऽङ्कः लब्ध-
स्तैरन्ततः क्रमात् ॥ भेदाद्रुतान्तलध्वन्तगुर्वन्ताश्चप्लुतान्तकाः । संख्यायन्ते इति
प्रोक्ताः संख्यानिःशंकसूरिणा ॥