सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 202, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 202

171
द्रुतमेरुर्लघोर्मेरुः गुरुमेरुः प्लुतस्यच ।
मेरुश्चेति ततः खण्डप्रस्तारस्तदनन्तरम् ॥
नष्टोद्दिष्टञ्चमेरूणांचतुर्णांन्तुक्रमेणतु ।
ततो विरामप्रस्तारं नष्टादिः क्रमशः पृथक् ।
लघूपायेन वक्ष्यामः शास्त्रतस्संप्रदायतः ॥
प्रस्तारप्रक्रियाश्चात्र प्रोक्तास्ताः सुमनोहराः ।
ज्ञानाय सुधियां सम्यक् सांप्रतं कथयिष्यते ॥
अथ प्रस्तारः
लिखित्वेप्सिततालस्य मात्राः पिण्डीकृताः पुनः ।
गुरोरादेरधः कुर्यात् तद्धीनं च परं समम् ॥
ज्येष्ठानुक्रमत स्सम्यक् शेषं लेख्यञ्च वामतः ।
तथा च रत्नाकरः :---
सर्वद्रुतावधिः कार्यः प्रस्तारोयं लघौ गुरौ ।
प्लुतेव्यस्ते समस्ते च न तु व्यस्ते द्रुतेऽस्ति सः ॥
इति प्रस्तारः ।
एकद्वित्र्यङ्गदिक्चन्द्रनवषट्सु क्रमादियम् ।
सूचीपरान्तयुग्माङ्क तुर्यषष्ठस्य योगतः ॥
यैरङ्कैरिष्टतालस्य परासूची विधीयते
तैरङ्कैरिहचज्ञेया भेदा दलगपांतगाः ॥ तथाच रत्नाकरः ।