सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 151, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 151

120
सशब्दा च ध्रुवाज्ञेया सर्पिणी वामगामिनी ।
कृष्या दक्षिणतः पातात् पद्मिनीस्यादधोगता ॥ ७०३ ॥
विसर्जिता बहिर्याता विक्षिप्ताकुञ्चनात्मिका ।
पताकातूर्ध्वगमना त्पतिता करपातनात् ॥ ७०४ ॥
ध्रुवपाते प्रयोज्यास्ता नावापादौ कदाचन ।
लघ्वौतु ध्रुवकाज्ञेया ध्रुवकापतितापुनः ॥ ७०५ ॥
गुरौ प्लुते क्रमाद्ज्ञेया ध्रुवकासर्पिणी तथा ।
कृष्याच कथिता तज्ज्ञैस्तिस्र एतामनीषिभिः ॥ ७०६ ॥
(701—706) The 7th prana of Tala ‘ — Kala ’
(சு-701—706) தாளத்தின் ஏழாவது பிராணமாகிய ‘ கலா ’
इति कलाः सप्तमप्राणः ।
क्रियानन्तरविश्रान्तिर्लयस्स त्रिविधोमतः ।
द्रुतोमध्योविलम्बश्च द्रुतः शीघ्रतमोमतः ॥ ७०७ ॥
द्विगुणद्विगुणौज्ञेयौ तस्मान्मध्यविलम्बितौ ।
मार्गभेदाच्चिरक्षिप्रमध्यभावोप्यनेकधा ॥ ७०८ ॥
लयोक्षरेपदेवाक्ये योसौ चात्रोपयुज्यते ।
तथाच प्रतिभाविलासः । कोलामलकबिल्वञ्चक्रमेण लययोजनम् ॥
मन्दोप्यमन्दागतय स्तालादीनां विचारयेत् ।
इति लय अष्टमः प्राणः ।
लयप्रवृत्तिनियमो यतिरित्यभिधीयते ॥ ७१० ॥