सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 152, कुल 258 में से
संदर्भ में पढ़ें121
(707-710) The 8th-Prana of Tala - 'Laya'
(சு-707-710) தாளத்தின் எட்டாவது பிராணமாகிய 'லயம்'
इति लयाः । अष्टमःप्राणः ॥
समा स्रोतोगता चान्या मृदङ्गाच प्रकीर्तिता ।
पिपीलिकाच गोपुच्छा यतयः पञ्चधा स्मृताः ॥ ७११ ॥
आदिमध्यावसानेषु लयैकत्वे समा त्रिधा ।
लयत्रैध्यादादिमध्यावसानेषु यथा क्रमात् ॥ ७१२ ॥
चिरमध्यद्रुतलया तदास्रोतोगता मता ।
अन्या विलम्बमध्याभ्यां मध्यद्रुतवती परा ॥ ७१३ ॥
मृदङ्गास्याद् द्रुताद्यन्ता मध्यतश्चविलम्बभाक् ।
अपरास्यात् द्रुताद्यन्ता मध्येमध्यलयान्विता ॥ ७१४ ॥
अन्या विलम्बमध्यातु मध्याद्यन्ता तथामता ।
स्यादाद्यन्तविलम्बातु द्रुतमध्या पिपीलिका ॥ ७१५ ॥
अपराभवेदाद्यन्तमध्या मध्यद्रुता परा ।
आद्यन्तयो र्विलम्बः स्यात् मध्ये मध्यलयान्विता ॥ ७१६ ॥
द्रुतमध्यविलम्बास्यात् गोपुच्छा द्रुतमध्यभाक् ।
द्वितीयान्यामवेन्मध्यविलम्बितलयान्विता ॥ ७१७ ॥
(710-716) The 9th prana of Tala - 'Yati'
(சு-710-716) தாளத்தின் ஒன்பதாவது பிராணமாகிய 'யதி'
इति यतयः ॥ नवमः प्राणः ।
16