सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 149, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 149

118
द्रुते विरामेणुर्ज्ञेयः लविरामे द्रुतो मतः ।
द्रुतोपरियदारेखा दविराम स्तदाभवेत् ॥ ६८९ ॥
लघूपरियदामात्रा (रेखा ?) लविरामः प्रकीर्तितः
एवं कालप्रमाणं स्यादङ्गानां तद्विचारयेत् ॥ ६९० ॥
विरामे तु विचारोयं कर्तव्यस्तालधारिभिः ।
इत्यङ्गानि । चतुर्थः प्राणः ।
(668—690) The 4th prana of Tala — 'Anga'
668—690) • தாளத்தின் நான்காவது பிராணமாகிய 'அங்கம்'
समोऽतीतोऽनागतश्च विषमश्च ग्रहामताः ॥ ६९१ ॥
चत्वारः कथितास्ताळे सूक्ष्मदृष्ट्या विचक्षणैः ।
गीतादिसमकालस्तु समपाणिः समग्रहः ॥ ६९२ ॥
गीतादौ विहितेपश्चात् तालवृत्तिर्विधीयते ।
अतीताख्यो ग्रहोज्ञेयः सोवपाणिरितिस्मृतः ॥ ६९३ ॥
पूर्वं तालप्रवृत्तिः स्यात्पश्चाद्गीतादिरुच्यते ।
अनागतः सविज्ञेयः सएवोपरिपाणिकः ¹ ॥ ६९४ ॥
आद्यन्तयोरनियमः विषमग्रहशब्दभाक् ।
तालोवितालोनुतालः प्रतितालश्चतुर्विधः ॥ ६९५ ॥
समग्रहो भवेत्तालो वितालोतीततः स्मृतः ।
अनागतोनुतालः स्याद्विषमः प्रतितालकः ॥ ६९६ ॥

  1. अतीतानागतग्रहलक्षणं एतत् संगीतरत्नाकरादि ग्रन्थस्थात् संप्रदाया-
    गताच्च भिद्यते ।