सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 148, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 148

117
केयूरन्नूपुरौ हार स्ताटङ्कः कङ्कणोगुरुः ।
गुरोश्चयानि नामानि गुरुत्वात्तान्यपि ध्रुवम् ॥ ६८१ ॥
त्रिमात्रस्सामजं शृङ्गीप्लुतौदीप्तः प्लुतोभवेत् ।
त्र्यङ्गंसामोद्भवं ज्ञेयं तारस्थानं प्लुते मतम् ॥ ६८२ ॥
अणुद्रुतं चातिसूक्ष्मघाते योज्यं विचक्षणैः ।
सूक्ष्मघाते द्रुतं पूर्णघाते लघुरिहोदितः ॥ ६८३ ॥
घातक्षेपो गुरुर्ज्ञेयो दीप्ते घातात्करभ्रमः³ ।
३. अस्य पाठांतरमपि दृश्यते । तद्यथा । :― R.Kau 3, 118
अत्यल्पघातेऽणुर्ज्ञेयः सूक्ष्मघाते द्रुतोमतः । पूर्णघाते लघुः प्रोक्तो
घातक्षेपौ गुरुर्मतः ॥ घातात्करभ्रमोयत्र प्लुतोज्ञेयोविचक्षणैः । इति
सार्धत्रिषट्द्वादशाष्टादशैर्वाच्योन्तरेङ्गुलैः ॥ ६८४ ॥
अर्धद्रुतो द्रुतलघुगुरुप्लुत इति क्रमात् ।
पञ्चलध्वक्षरोच्चारमिता मात्रेह कथ्यते ॥ ६८५ ॥
अनया मात्रयाऽत्रस्या ल्घुगुर्वादिकल्पना ।
एकमात्रोलघुः प्रोक्तो द्विमात्रोगुरु रुच्यते ॥ ६८६ ॥
त्रिमात्रस्तु प्लुतोर्ज्ञेयो मात्रार्धं च द्रुतोमतः ।
द्रुतार्धमणुरेकःस्यात्प्रमाणं कथितं बुधैः ॥ ६८७ ॥
इहद्रुतमितिर्नोक्ता मार्गताळेष्वभावतः ।
देशीतालेषु विज्ञेया लघोरेव प्रमाणता ॥ ६८८ ॥