सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५६१
( शेषा भ ? ) पूर्ववत् सर्वा शुण्डिकादिक्रिया भवेत् ।
( यदागभी१ ? ) करवीरेयमीशादित्रिदशप्रिया ॥ १५८ ॥
एतस्या एव पृष्ठस्था२ यदा सन्त्यष( ष्ट ) कर्णिको३( काः )।
वामशाले विधीयेते नलिनीति तदा भवेत् ॥ १५९ ॥
( दत्तंशस्य सालि४ख्यात् तद्यौ दृशभिः पदैः ? ) ।
सूत्राणि पातयेत् तस्य ततो दिक्षु विदिक्षु च ॥ १६० ॥
प्रासादभ्रमणस्यान्ते द्विपदायामव( वि )स्तृती( न् ) ।
कुर्वीताष्टसु संम्पातेष्वष्टौ कन्दान् समन्ततः ॥ १६१ ॥
( विधाय तां चतुर्भक्तां कुर्याद् भ्रमांस्तथा ? ) ।
अन्तरेण च कन्दानां कर्तव्यं कर्णिकाष्टकम् ॥ १६२ ॥
देशात् सार्धं यदा सूत्रे( ? ) यथा संपत्स्यते मिथः ।
पार्श्वद्वयात् कर्णिकानां संस्थानं स्यात् तथाविधम् ॥ १६३ ॥
भक्त्वैवं सर्वभद्रानि त्रिपदोऽन्तः सुरालयः ।
पार्श्वभ्रमो व्यर्धपादो( ? ) दशधा भाजिते भवेत् ॥ १६४ ॥
कन्दाश्च द्विपदाः कार्या बहिर्दिक्षु विदिक्षु च ।
अन्योन्याभिमुखास्तेषु शालाः कार्या यथोदिताः ॥ १६५ ॥
( शंक्तियस्ता समीक्षते ? ) विष्णोरप्रतिमौजसः ।
कार्येयं तस्य ( तान्थेस्युः ? ) ( पुंडरीकविनामतः ? ) ॥ १६६ ॥
एतस्याः कर्णिकास्थाने यदा वृत्तं प्रकल्प्यते१३।
तदानीमातपत्रं स्यात् कर्तव्या ब्रह्मणश्च सा ॥ १६७ ॥
कृत्वा वृत्तायतं क्षेत्रं विभजेद् दशभिः पदैः ।
तस्य मध्ये विधातव्यं देवागारं पदैस्त्रिभिः ॥ १६८ ॥
१ द. र्भा । २ द. स्थे । ३ द. के । ४ द. स्य स्यात् । ५ द. संतापे । ६ मुद्रित प्रतौ
'विधाय तांश्चतुर्भक्तान् कुर्याद् दिक्षु भ्रमांस्तथा' इति स्यात् । ७ द. तांश्चतुर्भक्ताः । ८ द. ग्रा° ।
९ द. संपन्नसो मिथः । १० द. शक्तयस्ता समाख्यपेत् रष्टोर प्र° । ११ द. नान्येभ्य । १२ मुद्रित
पुस्तके 'केति नामतः' इति स्यात् । १३ द. प्रकल्पयेत् ।
वा. ७१

५६२ समराङ्गणसूत्रधारे
तस्य पार्श्वेषु कर्तव्यो¹ भ्रमः सार्ध(द्वि)भागिकैः³ ।
द्विभागं बाह्यवृत्तं स्यात् तत्र कुर्यादिमां क्रियाम् ॥ १५९ ॥
भागैर्द्वादशभिस्तच्च तुल्यमानैर्विभाजयेत् ।
एकैकं च पुनर्भार्ग चतुर्धा तेषु भाजयेत् ॥ १६० ॥
द्विभागायामविस्तारा शाला मध्ये विधीयते ।
भागिकश्चतुरश्रंश्च दिर्छा(?)लान्(त्रि)तये भ्रमः ॥ १६१ ॥
वामदक्षिणतः शाले (ताँ ?) ये भवतः शुभे ।
ते वृत्ते संविधातव्ये संमुखे च परस्परम् ॥ १६२ ॥
(शाला तु खुमार्गस्याच्छालाईभागार्वविस्तृतः ?) ।
⁹कल्प्यस्तेनैव मानेन (सचावा?) भ्रमणं भवेत् ॥ १६३ ॥
जगत्यैषा समाख्याता चक्रवालेति नामतः ।
दिवाकराय कर्तव्या सग्रहार्याथवेन्दवे ॥ १६४ ॥
(समक्षवायभद्रायामात्रियुक्तायं वा पुन?) ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ १६५ ॥
गर्भात् कोणगसूत्रेण सर्वतो वृत्तमालिखेत् ।
बहिखिपदविस्तारं कन्दं कुर्याच्चतुष्पदम् ॥ १६६ ॥
शालायां(लां) च द्विपदायामां विस्तारात् सार्धभागिकाँम् ।
शेषं तु भद्रशालायाः समन्ताद् भ्रमणं भवेत् ॥ १६७ ॥
भद्रस्योभयतो वृत्ते द्वि¹³भागायतविस्तृते ।
शाले च वृत्तयोरन्तर्भागिकायामविस्तृती ॥ १६८ ॥
याम्यसौम्यापरास्वेवं दिक्षु भद्रत्रयं भवेत् ।
सार्धमायामविस्तारास्त(त्त)दधर्भमणान्विताः ॥ १६९ ॥
शाला विदिक्षु कर्तव्याः शोभनाश्चतसृष्वपि ।
भद्रमध्ये स्थितां शालां हित्वा प्राच्याँ(तु सा) भवेत् ॥ १७० ॥
१ द. व्यं । २ द. मं । ३ कं । ४ द. ग । ५ द. ग्र । ६ द. च्छा । ७ मुद्रित पुस्तके
'तासां' इति स्यात् । ८ द. शालातुरिखमार्गस्याच्छालाई भा° । ९ द. क्षम्य । १० द. यथो वंदने ।
११ द. गि । १२ द. क । १३ द. गोयत्त । १४ द. म्य । १५ द. च्य ।

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५६३
सार्धंमायामविस्तारास्त(त्त)दर्धभ्रमणान्विता ।
सनक्षत्राय सोमाय कर्तव्या पुष्टिहेतवे ॥ १७१ ॥
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।
पञ्चभागायतां मध्ये शालां वृत्तां प्रकल्पयेत् ॥ १७२ ॥
सार्धभागद्वय(स्त?)मिता देवागारस्य बाह्यतः ।
(१भ्र्मण संविधातव्य ?) कर्णशालाश्च कर्णगाः ॥ १७३ ॥
कर्णमानं३ बहिर्वृत्तं भ्रमयित्वासान्दं(समन्त)तः ।
भद्रोपभद्रकर्णेषु वृत्ताः शालाः प्रकल्पयेत् ॥ १७४ ॥
पदद्वयसमायामा(ः) पदत्रितयविस्तृतौ(ः) ।
भागिका(क)भ्रमणोपेता(ः) शालाः कुर्वीत भद्रजाः ॥ १७५ ॥
द्वे भद्रात् पार्श्वयोः शाले द्वे च प्रतिरथाश्रये ।
भागिकायामविस्तारा(रे) कुर्यादर्धपरिक्रमे ॥ १७६ ॥
बौ(बा)हल्यायामतः सार्धभागा(ः?) शालार्धकर्णगा ।
तासां तदर्धमानेन विधातव्यः परिक्रमः ॥ १७७॥
प्रविष्टौ तु पदार्धेन भद्रान् प्रतिरथावुभौ ।
इत्येषा जगती प्रोक्ता मानतश्चन्द्रमण्डला७ ॥ १७८॥
अथ ८वृत्ता++ ९ब्रूमो जगतीः षड् यथाक्रमम् ।
पञ्चभागायताः क्षेत्रा विस्तरेण चतुष्पदाः( ?) ॥ १७९ ॥
विद्ध्यादायतं वृत्तं (चमस्यां ११भवभागिकः ?) ।
मध्ये स्यात्(त्रिं१२पदास्तामा सं१३द्विपदविस्तृताः ?) ॥ १८०॥
मत्तवारणसंयुक्ता य(प्र)तोल्यालङ्कृता शुभा ।
सोपानशुण्डिकाप्रान्तं ++ गण्डितमण्डिता१४ ॥ १८१ ॥
१ द. भाग । २ द. भ्रमणी संविधातव्यः क॰; मुद्रित पुस्तके ‘भ्रमणाः संविधातव्याः’ इति
स्यात् । ३ द. नाद्व । ४ द. दं ततः । ५ द. तः । ६ द. श्व कर्णगाः । ७ द. लाः । ८ मु. पु.
‘वृत्तायताः’ इति स्यात् । ९ द. ब्रगो । १० द. ॰ध्यायितं । ११ द. त । १२ मु. पु. ‘त्रिंपदायामा
सार्धद्विपदविस्तृता’ इति स्यात् । १३ द. सा । १४ द. का ।

५६४ समराङ्गणसूत्रधारे
उक्तेयं मातुलिङ्गीति जगत्यमरवल्लभा ।
अस्या एव यदा पृष्ठे द्विभागायामविस्तृतिः ॥ १८२ ॥
शाला पूर्वक्रमेण स्यात् तदा ज्ञेया घटीति सा ।
तद्रूपे ( तद्यतालालं ? ) द्वे शाले वामदक्षिणे ॥ १८३ ॥
( यदि पश्चिमशाला च १तत्रेस्यायमती जगती तदा ? ) ।
घटीकर्णेषु सर्वेषु द्विभागायामविस्तृती ( ताः ) ॥ १८४ ॥
यदि स्युर्भ्रमसंयुक्ता ( ः ) शाला ( ः ) प्राग्वद् विभाजिता ( ः ) ।
( कुरुक्षेत्रेर्धायंतरिक्षे द्वे च पृष्ठे वार्तन्तदूर्य ३? ) ॥ १८५ ॥
कालिङ्गीयं भवेदेवं ( पार्श्वयो र्नयुर्लैमदात्रेपु ४? ) ।
५पुस्यांसु ( एतस्यां तु ) यदा शाला शुण्डिकाननसंत्रि( स्थि )ता ॥
वृत्तायतविनिर्माणा जगती स्याष्ट( त् ) ++++।
६एता वृत्तायताः ।
ब्रूमोऽथाष्टाश्रिसंस्थान( ना ) जगतीः शुभलक्षणाः ॥ १८७ ॥
चतुरश्रीकृतं क्षेत्रं सपादैर्दशभिर्भजेत् ।
परित्यजेत् ततः ७सूत्रं ८कर्णे कर्णे पदत्रयम् ॥ १८८ ॥
सपादांश्चतुरो भागान् मध्यभागेऽवशेषयेत् ।
९संसिध्यते( ति ) च साष्टाश्रि तस्यार्धे स्यात् सुरालयः ॥ १८९ ॥
अष्टाश्रिमध्यभागस्थः + शेषं १०भ्रमणं भवेत् ।
प्रासादश्च ( च )तुर्द्वारश्च( च ? )तुर्भिर्मण्डपैर्युताः( तः ) ॥ १९० ॥
( प्रासादसाक्रसूत्र ? ) मुखलिङ्गं निवेशयेत् ।
मूलकन्दार्धतः ( ११केन्दा क्रमादिक्षु १३वै ? ) ॥ १९१ ॥
तुल्यप्रमाणकांनष्टौ१४ चतुर्भागविभाजिता( तान् ) ।
भ्रमशालाश्च पूर्वोक्तक्रमेण परिकल्पयेत् ॥ १९२ ॥
१ द. नेत्रे । २ द. र्वाँ । ३ द. पू । ४ द. अंयु र्ष्णमदा । ५ द. त्रपु स्यां । ६ द. एतदाः ।
७ द. स्तत्र । ८ द. प । ९ द. स । १० द. तु भ्रमणं । ११ द. मुद्रित पुस्तके ‘कन्दान् क्रमाद् दिक्षु
विदिक्षु च’ इति स्यात् । १२ द. या । १३ द. विदिक्षु । १४ द. ता ।

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५६३
सोपानशुण्डिकागण्डैस्ता(गो)पुरायैरलङ्कृतः ।
(करव्यासामेरुपता वैवा सर्वार्थमुदाहृता ?) ॥ १९३॥
कृत्वा पूर्ववदष्टाश्रि क्षेत्रं भद्रं वि(४द्वि)धा भजेत् ।
कुर्याद् भागार्धकं भद्रे पक्षयोश्च विनिर्गतम् ॥ १९४॥
तद्विस्तारं भजेत् षड्भिर्निर्गमस्तैस्त्रिभिः पदैः ।
परिक्रमो भवेत् ++ पार्श्वयोः पृष्ठ(तोऽ)ग्रतः ॥ १९५॥
शेषं (शाला)युगं कार्यं भागद्वितयमायतम्५ ।
सार्धभागिकविस्तारं (संघचेस्यरस्यं च ?) ॥ १९६॥
अनेनैव प्रकारेण भद्रे भद्रे भवेद् गतिः ।
कर्णभद्रं विधातव्यं त्रिपदायामविस्तृति६ ॥ १९७॥
चतुर्धा भाजिते तस्मिन् भागेन भ्रमणं भवेत् ।
शेषं तु शाला विज्ञेया द्विपदायामविस्तृता ॥ १९८॥
विदिग्(न्ते)षु सर्वेषु न्यासोऽयमतिसुन्दरः ।
मूलशाला तु कन्दार्धे (भ्रमश्चार्धीभ्रमं ततः ?) ॥ १९९॥
मातृकेयं समाख्याता९ (जगतुपसरचन्दितकिन्नरोंशप्रदिति ?) ।
११भद्रं ++ पदेभ्यः स्याद् भद्र(भाग)त्रितयनिर्गतम् ॥ २००॥
चतुर्भागिकविस्तारं त्रिपदायामकन्दकम् ।
तदा स्याच्छेखरा नाम भद्रत्रितयभूषिता ॥ २०१॥
नित्यप्रमुदितानेकदेववृं१२त्तद(न्द)कृतास्पदा ।
१३प्रागष्टय(ष्टा)श्रीकृते क्षेत्रे चतुर्भागविभाजिते ॥ २०२॥
द्विभागायामविस्तारे प्रासादे दशमे भ्रमे ।
अश्रिभिः समविस्तारा(१४दौसष्टौ ++?) प्रकल्पयेत् ॥ २०३॥
सदा भागप्रविस्तारं(रान्) तांश्च कुर्यात् पृथक् पृथक् ।
निर्गमेण चतुर्भागो(गान्) भागिकैं१५ श्रमणान्वितान् ॥ २०४॥
१ द. ण्डं स्तो । २ द. ता । ३ द. च । ४ द. तथा । ५ द. तीम् । ६ द. तिः । ७ मुद्रित
पुस्तके 'भ्रमश्चार्धभ्रमस्ततः' इति स्यात् । ८ द. द्धि । ९ द. त । १० द. किन्नरा रा । ११ द. प्रति
भद्रं । १२ द. ॰वृतदक्षतास्पदा । १३ द. प्र । १४ मुद्रित पुस्तके पाठभेदस्तु 'नष्टौ कन्दान्' इति
स्यात् । १५ द. कः ।

५६६ समराङ्गणसूत्रधारे
द्विभागायामविस्तारं मध्ये शालाद्वयं भवेत् ।
पद्मगर्भेयमित्युक्ता प्रजापतिमनःप्रिया ॥ २०५ ॥
भवेतो१( दा )र्यादिदेवीनां सदा चित्र( त्त )प्रसादिनी ।
विधाय( क्षेत्रमष्टास्रतवदर्धायामविस्तृतौ ? )२ ॥ २०६ ॥
मध्ये देवगृहं कार्यं तदर्धेन भ्रमो बहिः ।
३भद्रं भवेद् द्वादशभिस्तैश्चतुर्भिर्विनिर्गमः ॥ २०७ ॥
तस्य( स्यात् ? ) भद्राणां निर्गमोऽपि चतुष्पदः ।
४विस्तारः षट्पदस्तेषां चतुर्भिस्तं विभाजयेत् ॥ २०८ ॥
भागार्धेन ( च ) शाला स्याद् भागत्रितय( स ? )मायात( यता ) ।
भ्रमश्च स्या + ( त्तु )कर्तव्यो भागं तत्पार्श्वयोः ( रुद्राया ? )॥२०९॥
द्विभागायामविस्तारा( रे ) शाले स्यातां पदभ्रमे ।
इयमंशुमती प्रोक्ता जगती शुभलक्षणा ॥ २१०॥
विधाय क्षेत्रमष्टाश्रि तदर्धायामविस्तृति ।
मध्ये देवगृहं कार्यं तदर्धेन भ्रमो बहिः ॥ २११॥
प्रासादसमविस्तारं भद्रं कृत्वा ततो भजेत् ।
चतुर्दशभिरस्य ( स्यान्निगिर्यमो ? ) दशभिश्च तैः ॥ २१२॥
मौलिकभ्रमणस्यान्ते त्रिपदायतविस्तृता९ ।
शालातिशोभना कार्या सार्धभागभ्रमान्विता ॥ २१३ ॥
द्विपदायामविस्तारे भागिकभ्रमणान्विते ।
कर्तव्ये पार्श्वयोस्तस्याः शाले द्वे चारुदर्शने ॥ २१४॥
प्रतिभद्रं विधातव्यं भागपञ्चकविस्तृतम् ।
भागत्रयं प्रविष्टं च तत्र शाला त्रिभागिकी ॥ २१५॥
भागद्वितयविस्तारा भागिकभ्रमणान्विता ।
पार्श्वयोः प्रतिभद्रस्य कर्णिके भागनिर्गमे ॥ २१६ ॥
१ द. द्वा । २ मुद्रित पुस्तके ' क्षेत्रमष्टाश्रि तदर्धायामविस्तृति' इति स्यात् । ३ द. भद्रयाय ।
४ द. विस्तरे । ५ द. णः । ६ द. प्रदोद सं० । ७ द. वे । ८ मुद्रित पुस्तके ' स्यान्निर्गमो ' इति
स्यात् । ९ द. ताः ।

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५६७
सार्धभागायते स्यातां कर्णाः शालायुगान्विताः ।
पूर्ववच्छुण्डिकार्यं च कमलेयमुदाहृता¹ ॥ २१७॥
चतुर्दशविभक्तासु सप्तस्वस्तिषु( ? ) कल्पयेत् ।
निर्गमायामतुल्यासु² शालाः पञ्च पृथक् पृथक् ॥ २१८॥
अग्रभद्रे तु कर्तव्यं शालात्रितयमुत्तमम् ।
इति विज्ञेय( ज्ञैः ) समाख्याता शाला वज्रधरप्रिया ॥ २१९॥
इत्थं जगत्यश्चतुरश्रसंस्थाः
( ³स्पदायनों ? ) वर्तुलसन्निवेशाः ।
( वृत्तायता धस्तियुताश्चयः सम्यग् ? )
जङ्घाः सदा शिल्पभिरप्रमत्तैः ॥ २२० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
जगतीलक्षणाध्यायो नामैकोनसप्ततितमः ॥
अथ लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः ।
अथ प्रमाणं लिङ्गानां लक्षणं चाभिधीयते ।
( लोहं हस्तत्रिभागेन कनीयसम् ? ) ॥ १ ॥
( ⁶व्यंशवृद्धानावैवं स्युराहस्ताँत्रतवाविधे ? ) ।
( ह्रस्वमध्योत्तमाख्यानि त्रीणि त्रीण्यल्पकादिभिः ॥ २ ॥
लिङ्गानामभिः प्रासाद्स्थानुसारतः ? ) ।
अतश्च द्विगुणानि( स्युंवारुणाजानि प्रमाणतः ? ) ॥ ३ ॥
( त्रिर्गुणान्यस्माज्जातानि ? ) मृत्तिकाप्रभवानि च ।
स्वस्य स्वस्य कनिष्ठस्य पदेन परिवर्तनात् ॥ ४ ॥
१ द. तः । २ द. स्तु । ३ मुद्रित पुस्तके पाठभेदस्तु ‘स्तदायता’ इति स्यान् । ४ द. दांता ।
५ द. प्रतों ‘ ........ ’ इत्येवास्ति । ६ मुद्रित पुस्तके ‘व्यंशवृद्धा नवैवं स्युरा हस्तत्रितयावधेः’
इति स्यान् । द. त्र्यं । ७ द. नैवैवं । ८ द. सूत्रे तथा विधे ; ९ द. लिङ्गिनाममभिः प्राहुः प्रा° ।
१० द. वारुण्या । मुद्रित पुस्तके ‘स्युर्दाहजानि प्रमाणतः’ इति स्यान् । ११ मुद्रित पुस्तके
‘त्रिगुणान्यश्मजातानि’ इति स्यान् । १२ द. तिकी ।

५६८ समराङ्गणसूत्रधारे
कनिष्ठायाने¹(?)हीनं च कर्तव्यं लक्षणं² बुधैः ।
(सप्तमे यदि वा तिर्यग्गलोधसन्निभाम् ॥ ५ ॥
स्तम्भद्रानौ दंतकैकवेलेषा⁴ विष्णुवारिता ?) ।
पक्षरेखा विधातव्या लक्षणोद्धरणार्धनी⁶(?)॥ ६॥
पक्षक्षेत्रे कृते षोढा ⁷त्यक्तार्थांशकरैर्वृता(?)।
पुत्रार्थिनां पक्षलेखा हिता ( ⁸राद्यपिर्थिनानामपि ?) ॥ ७॥
अष्टभिर्नवभिर्वास्मिन् भक्ते त्यक्त्वांशकावधः ।
स्यात् पक्षलेखा षड्भिश्च सप्तभिश्चेष्टकामदा ॥ ८॥
यद्वा षोडशभिर्भक्ते विहायाधोऽशकद्वयम् ।
(पशुरेखासरैर्नन्दैः स्तयैः शक्रैश्च शस्यते ?) ॥ ९ ॥
लिङ्गेऽङ्गुलानि यावन्ति यवत्र्यंशैस्तदुन्मितैः ।
⁹लक्षणाद्धारणा कार्यमन्तरं लक्ष्यंरेखयोः(?)॥ १०॥
रेखान्तरेषु (मांशस्य नर्थांशे ?) पूँर्वकसम्रिमितम् ।
खातं कुर्वीत रेखायां विस्तारं च विचक्षणैः ॥ ११ ॥
कुँर्यान्न लक्षणे द्वा(णोद्धा)रं लिङ्गे (लोहेचरत्रजे ?)।
बाणलिङ्गे चले चापि (तथानोजॉहिलक्षणम् ?) ॥ १२ ॥
पूजांशमेकादशधा भक्त्वोर्ध्वं सर्वतः समा(म)म् ।
तिर्यक् तथैकनवतिं भागानां शिरसो भजेत् ॥ १३ ॥
भवेत् सहस्रं लिङ्गानां सैकभित्यसमैः पदैः ।
सहस्रलिङ्गमित्युक्तं (पञ्चाङ्गव्यङ्गमेवता ? ) ॥ १४ ॥
(अथां विभागं र्ववधा लिङ्गे सर्वमे भावयेत् ?) ।
ऊर्ध्वं¹⁷ भागतत्रयं त्यक्त्वा भागभागेन कल्पयेत् ॥ १५ ॥


१ द. नि । २ द. ºणेर्बुधैः । ३ द. ग्ततुलोधनसन्निभम् । ४ द. पां । ५ द. ºक्षणां । ६ द.
तं । ७ द. त्यक्तवार्धांशं । ८ द. मुद्रित पुस्तके ‘विद्यार्थिनानामपि’ इति स्यात् । ९ द. मुद्रित पुस्तके
‘लक्षणोद्धारणं कार्यमन्तरे पक्षरेखयोः’ इति स्यात् । १० द. लक्ष्म । ११ द. यू । १२ द. र्ण ।
१३ द. कुर्यान्न लक्षणोपेतं द्वारं लिं° । १४ द. तेजो । १५ द. क्तो । १६ द. न । १७ द. र्ध्व ।

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५६९
भागेन (शंकास्य ?) ग्रीवाः कुर्यात् ततः परम् ।
भागद्वयेन (स्कन्धांशपणे युग्मपटानि च ?) ॥ १६ ॥
(पुष्पसंस्थे च ?)माशासु विहिते चतसृष्वपि ।
चतुर्मुखं भवेल्लिङ्गमर्चितं सर्वकामदम् ॥ १७॥
त्रिमुखं (खे) तु ललाटा(दी)ना(न्य) ज्ञान्यंशेन १साङ्घिणा ।
पृथक् पृथक् विधेयानि शेषांशात् स्कन्धकल्पना३ ॥ १८ ॥
ऐकचक्रे(?) तु सार्धेन ललाटादान(दीनि) कल्पयेत् ।
४नवभक्ते त्याञ्चे(त्यजेद् ) द्वौ द्वौ विभागौ पार्श्वयोर्द्वयोः ॥ १९॥
विधिरेष चतुर्वक्त्रे (विभक्ते ?) पार्श्वयोर्द्वयोः ।
सार्धं सार्धं त्यजेद् (५भूषा ?)मेकवक्त्रे(र्घशस्य च ?) ॥ २० ॥
चन्द्रार्धालङ्कृतं कार्यं कू(ज)टाकूटधरं शिरः ।
शिरसो (६वर्तते ?) कार्या पूर्वप्रोक्तेन वर्त्मना ॥ २१ ॥७
(८एकत्रै चतुरो स्यातां विस्तृते ?) मुखनिर्गमः ।
स्याद्वा विभागै(१०र्केन्द्रि काराख्यैर्यथाक्रमम् ?) ॥ २२॥
मुखलिङ्गं न कर्तव्यं लिङ्गात् सर्वसमा१३हिते ।
सर्वेषां मुखलिङ्गानां द्विदलं पीठमिष्यते ॥ २३ ॥
(तैरू दैर्घ्य ?) जायन्ते त्रयस्त्रिंशत् सहोदितैः ।
लो(लौ)हानि तद्वद् दारूत्थान्यस्म(इम)मृत्प(त्प्र)भवानि च ॥
तेषां (यवनवाल्यायान्यानन्तराणि च ततोऽपि षट् ?) ।
चतुराद्याश्चतुर्वृद्धा हस्तैः (सहस्तप१४द्धैतः ?) ॥ २५ ॥
ये प्रासादा निरन्धारा नवलिङ्गानि तेष्विह ।
पञ्च + द्वादशाद्येषु साधारेष्वा शतार्धतः ॥ २६ ॥
१ द. शि । २ द. सांहिणा । ३ द. शेषं स । ४ द. नां । ५ मुद्रित पुस्तके ‘एकवक्त्रे’ इति
स्यात् । ६ द. इतः पूर्वं “पृथगांगानि चत्वारि शेषत्र(यं) न दृश्यते । भागत्रये मूर्ध्वभावि शिरः सर्वेषु
कारयेत् ॥” इत्यधिकः पाठः । ७ द. मुद्रित पुस्तके ‘भाग’ इति पाठः स्यात् । ८ मुद्रित पुस्तके ‘वर्तना’
इति स्यात् । ९ द. इतः परं “द्वारं लिंगे लोहेच्चरत्रजे ।” इत्यधिकः पाठः । १० मुद्रित पुस्तके ‘एकत्रि-
चतुरास्यानां विस्तृतेः’ इति स्यात् । ११ द. त्रि च । १२ द. रार्केन्द्रवि । १३ द. वृते । १४ द. द्व ।
वा. ७२

१७० समराङ्गणसूत्रधारे
एकाद्येकोत्तरैर्हस्तैः शैलजानि प्रचक्षते ।
प्रासादगर्भमानाद् वा पश्चद(शां)शैस्त्रिभिरुत्तमम् ॥ २७ ॥
नवांशैः पञ्चभिर्मध्यं कनीयोऽर्धेन तद् भवेत् ।
प्रभेदैरन्तर(रै)स्तेषां यथायोगं त्रिभिस्त्रिभिः ॥ २८ ॥
षडन्यानि भवन्त्येवं नवलिङ्गानि पूर्ववत् ।
तेभ्योऽप्यवान्तरैर्भैदैः प्राग्वत्$^३$ सन्त्रिविधैर्युता( ?) ॥ २९ ॥
दिशानया दारुजानि $^४$++यल्लोहजानि च ।
दौष्ये(दैर्घ्ये) षोडशधा भक्ते चतुर्भिः सुरपूजितम् ॥ ३० ॥
लिङ्गं विष्कम्भतो (नाद्यं भूतैः सैं अंशैतैः ?) शुभैः ।
भवेत् सर्वसमं षड्भिराद्याख्यं चतुरश्रकम् ॥ ३१ ॥
कोणे$^६$ कर्मा(र्णा)र्धसूत्रेण लाञ्छिते शेषलोपमा(ना)त् ।
अष्टाश्रि स्यात् सप्तभक्ते (हानातुणेशयोरन्थ ?) ॥ ३२ ॥
गर्भसीमार्थसूत्रेण वर्तनाद् वृत्तनिर्मितं(ता) ।
अधोमध्योर्ध्वभागाः स्युश्चतुरश्रादिकाः क्रमात् ॥ ३३ ॥
ब्रह्मविष्णुमहेशानां दैर्घ्याल्लिङ्गे समोत्तमाः ।
(नमस्तेष्वपि लिङ्गानां $^{१०}$थुँथुभागतः ? ) ॥ ३४ ॥
(पूनाधैव$^{११}$ ? ) विधातव्यौ भागौ ब्रह्मशिवाश्रयौ ।
लिङ्गस्य दैर्घ्यजं$^{१२}$ पीठे विस्तारोऽसौ विधीयते( ?) ॥ ३५ ॥
लिङ्गविस्तारतश्चान्यत् पार्श्वपीठे विशिष्यते ।
तत्समो ब्रह्मणो भाग(गा)त् संप्रदायापहृत्य वा ॥ ३६ ॥
रुद्रभागो विधातव्यो ब्रह्मभागे(गो)ऽपि तद्वशात् ।
एवं कृते परिहृतस्वा(स्त्वा)यै दोषो भवेदिह ॥ ३७ ॥
कर्तुः (कारैष्टैतुंश्च$^{१४}$ ?) स्यात् तस्मिन् परिहृते शुभम् ।
ऊर्ध्वं $^{१५}$त्र्यंशस्य दानेन वर्तनाद् बालचन्द्रमाः ॥ ३८ ॥
१ द. लिंगं । २ द. न्ते । ३ द. क्त । ४ मुद्रित पुस्तके खंडित स्थाने 'कल्पये' इति स्यात् ।
५ द. स त्र्यंशतैरुतैः । ६ द. णैः । ७ मु. पु. 'हानात् कर्णाशयोरथ' इति स्यात् । ८ द. णै ।
९ द. तः । १० द. प्पुष्णुभागतः । ११ द. 'थैवौ' । १२ द. यत । १३ द. या । १४ मु. 'कारयितुश्च'
इति स्यात् । १५ द. ष्टि ।

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५७१
( कुक्कुटाण्डचतुर्थस्य त्रपुसम्भवे तु ? ) ।
अष्टमांशां१ स( शस्य ) तुच्छत्रं दानादैर्घ्यस्य वर्तनात् ॥ ३९ ॥
कृतेऽष्टांशे चतुर्थास्मिन् भागवृद्ध्या४ तदुच्यते ।
पुण्डरीकं विशालाख्यं श्रीवत्सं ( शौक्रसर्वणम् ) ॥ ४० ॥
लिङ्गेषु ( ६लक्षणोद्वारं ? ) कर्तव्यः स च कथ्यते ।
रुद्रभागं ७त्रिधा भक्त्या( क्त्वा ) द्वाभ्यां लक्षणमुद्धरेत् ॥ ४१ ॥
( शिरोधायतो लिङ्गे लक्षणापि ? ) तदिष्यते ।
यद्वायताननं षष्ठे कर्तव्य( व्यं ) नवमांशके ॥ ४२ ॥

  • वायं ++ वाकारपक्षरे( खा )विवर्जितम् ।
    पार्श्वरेखात्रिभागेन विस्तृतं चतुरश्रकम् ॥ ४३ ॥
    प्राग्वदष्टास्ति( श्रि ) वृत्तं च षडश्रोच्छत्रमस्तकम् ।
    शत्रुमर्दनसंज्ञेन च्छत्रेण समलङ्कृतम् ॥ ४४ ॥
    लिङ्गमिन्द्रार्चितं शास्तमैन्द्रदिग्विजयार्थिनां( म् ? ) ।
    प्रतिष्ठाप्यमिदं शत्रोर्यद्वा स्तम्भनमिच्छता ॥ ४५ ॥
    लोकपालैश्चेति कुर्यात् + त्र्यंशाधार्धिलक्षणम् ।
    ऐन्द्रे वज्राभमध्येऽस्या( स्य ) ( पै१२ )क्षरेखा विधीयते ॥ ४६ ॥
    स्वदैर्घ्यदलरुद्रांशैः पञ्चभिश्चित्रै१३र्भावना( म् ? ) ।
    विस्तृतं चतुरश्रं स्यान्मध्ये वृत्ते च पूर्ववत् ॥ ४७ ॥
    अश्रिभिः सप्तभिर्युक्तं वृत्तं स्वास्रा( स्र )विवर्जितम् ।
    ( प्राग्विस्तारार्धविस्तारि लक्षमस्योत१४मस्तकम् ? ) ॥ ४८ ॥
    पूद्धये( यद्वै )कादशभिर्भक्ते पक्षयोश्च( १५च्छिभि ? )स्त्रिभिः ।
    लुप्तैरंशैस्तदेवांशैनौ( शोनो )च्छिद्रं छत्रमिष्यते ॥ ४९ ॥
    १ द. वं । २ द. स्य स । ३ द. ना । ४ द. द्धा । ५ द. शक्रमर्दन; मुद्रित पुस्तके
    'शत्रुमर्दनम्' इति स्यात् । ६ मुद्रित पुस्तके 'लक्षणोद्धार' इति स्यात् । ७ द. रः । ८ द. द्वि ।
    ९ द. वावाननं । १० द. चिंनां । ११ द. लौश्चिति कुर्यात्त्र्यंशादर्द्धनलक्षणं । १२ द. क्षरेरेखा ।
    १३ द. क्षैत्र भावनं । १४ द. न । १५ द. बि; मुद्रित पुस्तके 'त्रिभि' इति स्यात् ।

५७२ समराङ्गणसूत्रधारं
इदमग्नार्चितं लिङ्गं कृत्वाग्नेर्योजयेद् दिशम् ।
चिकीर्षुर्णारिसन्तापं प्रतिष्ठाप्यमिदं सदा ॥ ५० ॥
स्वधै(दै)र्घ्यार्धनवांशानां पञ्चकेन प्र(वि)स्तृतम् ।
कुर्यात् कुण्डं च(ष्ठोष्ठं च पार्श्वयुगं ?) त्रिभिस्त्रिभिः ॥ ५१ ॥
नवधा सर्वतः कृत्वा त्रींस्त्रीनुत्सृज्य कोणगान् ।
कुर्वीताप्यस्र(स्र)मेवं स्यात् क्रमाद् वृत्तं विनाश्विभिः ॥ ५२ ॥
मूर्धानं दशभिर्भक्त्वा भागत्रितयला(लो)पने ।
पक्षयोर्विहिते कुर्यादुच्छ्रितिं दशमांशतः ॥ ५३ ॥
लक्षणं पूर्ववत् कार्यं (दण्डाग्रकोर ?) मग्रतः ।
(कैथं यान्यादिष्वि ?)+ + लिङ्गमेतज्जिगीषुभिः ॥ ५४ ॥
वधार्थं वा विपक्षाणां सर्वैर्वैवस्वतत्वान्चि(चिं)तम् ।
(आग्रयवत्कविष्णोसाः किन्त्वर्तुस्यदशापिकं⁵ ॥ ५५ ॥
खराशिर्मस्तकेरुक्ते ? ) सार्धभागपरिक्षते⁷ ।
पार्श्वयोः (स्यादभिर्लाभं ?) खङ्गाग्राभं च शस्यते ॥ ५६ ॥
षड्भा(खड्गा)भिधमिदं लिङ्गं प्रतिष्ठाप्य (तु) निर्ऋतिः ।
(अंथापर्येन्दिरासतत्त्व१३ ?) तत्त्वव्यो(यो)गं च शाङ्करम् ॥ ५७ ॥
(सार्व संशांशकलिंविष्वास्यारुणान्वितो ?) ।
चतुर्भिर्लक्ष्म चैतस्य पाशाग्राभं (कतासिचत्१६ ?) ॥ ५८ ॥
लिङ्गमेतत् प्रतिष्ठाप्य (वैरुणास्वादिगासतंम्१७ ?) ।
योनं(गं) तथाप्लवानैशां किन्तै(न्त्वे)तच्छान्तिपुष्टिकृत् ॥ ५९ ॥
(स्वधै द्वादशभागांशैः सप्तभिः पुवतेनिले१९ ।
वेष्णासांकं शोकैकैः भक्ते द्वित्रिलोपने पैरश्चतम्२० ? ) ॥ ६० ॥
१ द. र्ति । २ द. पृष्ठं च पार्श्वयुग । ३ द. ह । ४ द. दंडाग्राकारमं । मुद्रित पुस्तके
'दण्डाग्राकारम्' इति स्यात् । ५ मुद्रित पुस्तके 'स्थाप्यं याम्यदिशि' इति स्यात् । ६ द. ष्व ।
७ द. कः । ८ द. तो । ९ द. पि । १० द. भा । ११ द. गग्रातं । १२ द. निर्ऋतिः । १३ मुद्रित
पाठस्तु 'अथाप स्वं दिग्गीशत्वं' इति स्यात् । १४ द. त्स्य । १५ द. सा । १६ द. वत् । १७ मुद्रित
पुस्तके 'वरुणः स्वदिगीशताम्' इति स्यात् । १८ द. ता । १९ द. पुवतो निलि । २० द. पारश्वतां ।

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५७३
विधेयं पूर्ववद् वृत्तं शरच्छत्रं विनापरम् ।
लक्ष्म ध्वजाग्रवच्चास्य ( त्वैतंसृष्रतांपरिः ) ॥ ६१ ॥
अथाप ( सुँदिर्गेसेत्वं ? ) तथा योगं च शाम्भवम् ।
⁴द्विषदोच्चाटविश्लेष( परौक्षकंपान्विधेर्व्वाभिः ? ) ॥ ६२ ॥
प्रतिष्ठाप्यमिदं लिङ्गं ( र्व्व्यधीयां + ? ) मनीषिभिः ।
( कार्यवारुणः सव्याक्षं किन्त्वाचोसे गुरुदशाम् ? ) ॥ ६३ ॥
( पँत्तांशोमूर्द्वि ? ) पार्श्वस्थ +⁶ पादांशपरिच्युतेः ।
छत्रं स्यात् (परिच्युँतेः ?) लक्ष्म चैतस्य गदाग्रसदृशं भवेत् ॥ ६४॥
एतँल्लनेश्वरः कृत्वा ( स्वैदिर्गासत्वसाद्धं ? ) वान् ।
योगं च शिवधामाप्त्यै विभूत्यं ( र्त्तिं ) प्राप्तवानतः ॥ ६५ ॥
( स्वद्वे¹³ ? ) रुद्रांशकैः षड्भिर्विस्तृतं चतुरश्रकम् ।
( र्भवभक्ते त्रयं ? ) त्यागाद् भवत्यथा ( ष्टा ) श्रि पार्श्वयोः ॥ ६६ ॥
वृत्तं तु पूर्ववत् कार्यं कुक्कुटाण्डनिभं शिरः ।
( त्र्यंशवसर्वैर्नवभिः ? ) कुक्कुटाण्डमिदं भवेत् ॥ ६७ ॥
( मूशनवभिः पार्श्वयोस्त्रित्रिशांतनाः कुक्कुटाण्डकम् ? ) ।
अश्रित्रयं च कर्तव्यं पूजाभागसमाश्रयम् ॥ ६८ ॥
शैद्रा ( ला ) ग्रप्रतिमं लक्ष्म लिङ्गे कर्तव्यमैश्वरे ।
स्यादिदं योगसाम्राज्यज्ञानैंसम्प्राप्तिकारकम् ॥ ६९ ॥
ब्राह्मे स्याद् रौद्रवत् सर्वे ( र्वं ) पद्मकुङ्मलवच्छिरः ।
लक्ष्मास्मा ( स्मि ) न् कमलाकारं लिङ्गं ( ङ्गे ) कमलजन्मनि ( नः ) ॥
लिङ्गमेतत् प्रतिष्ठाप्य प्राजापत्यं प्रजापतिः ।
लेभे पदमतः ( स्थौंसिदं व्येषूर्पदस्यतिः ? ) ॥ ७१ ॥
१ द. रां । २ द. ‘कृत्वैतत्सृष्टतां परिः’ इति स्यात् । ३ मुद्रित पुस्तके ‘स्वदिगीशत्वं’ इति
स्यात् द. स्सु । ४ द. वि । ५ द. शु । ६ द. य । मुद्रित पुस्तके ‘वायव्यायां’ इति स्यात् ।
७ मुद्रित पुस्तके ‘सप्तांशे मूर्ध्नि’ इति स्यात् द. ˚तां । ८ द. स । ९ द. व्यातः । १० द. एक(त)द्व ।
११ मुद्रित पुस्तके ‘स्वदिगीशत्वमाप्त’ इति स्यात् । १२ द. द्व्र । १३ द. द्वै । १४ मुद्रित पुस्तके
‘भक्ते भागत्रय’ इति स्यात् । १५ द. स्थूलाश्चप्र˚ १६ द. नं । १७ द. मुद्रित पुस्तके ‘स्थाप्यमिदं
श्रेष्ठ पदेच्छुभिः’ इति स्यात् । १८ द. थू ।

५७४ समराङ्गणसूत्रधारे
वैष्णवे रौ(द्र)वत् सर्वं शिरोऽस्मिन् कुंन्तु(न्त)सन्निभम् ।
भैक्ता(क्तवा) भवज्तुल्यं वा कर्तव्यं लक्ष्म वैष्णवे ॥ ७२ ॥
पुण्यक्षेत्रोद्भवमिदं द्विजादीनां (सिताद्यया ?) ।
संग्राहयेच्छिलाद्रव्यं (गुक्तयोषितयान्विराम् ?) ॥ ७३ ॥
इदं पक्कमपक्वं वा (लोहत् ?)भयैर्गर्भितम् ।
अपक्वं(क्वे) वज्रलेपाद्यं कर्तव्यं सिद्धि(मास्नु ?)भिः ॥ ७४ ॥
भूतये लोहजं लिङ्गं सीसकत्रपुवर्जितम् ।
काञ्चन(पैयं ?)शत्रुच्छेद(कार्ययि संचितम् ?) ॥ ७५ ॥
(यास्य लिङ्गोक्तलक्ष्मौतत् त्रापुंसांनागांकुन्मचात्र्यादि ?) ।
लोहोद्भवं वा यन्मातृ++गुह्यकसिद्धिकृत् ॥ ७६ ॥
भिक्ष(क्षू)णां चलमेतत् स्यान्मुमूक्ष(मुक्षू)णां च वेश्मशुं ।
श्रेष्ठं समस्त(रान्ताछ्रं ?) वज्रजं(स्रजं) तदरिच्छिदे ॥ ७७ ॥
पद्मरागं (मैहाभृत्यो ?) सौभाग्या(यैर ?) मौक्तिकम् ।
पुष्परागम(हा)नीलौ+यौतीरसमुद्भवम् ॥ ७८ ॥
यशसे कुलसन्तत्यै तेजसे सूर्यकान्तर(क)म् ।
ता+च्छं स्फाटिकं सर्वकामदं (शूलारस्त्रो ?) ॥ ७९ ॥
मणिजं +++ शत्र(त्रु)क्षयाय (पुलका ?) तथा ।
सस्यकं सस्यनिष्पत्तौ (भोजगं ?) दिव्यसिद्धिदम् ॥ ८० ॥
श्रेष्ठं (सारक्त+?) लिङ्गम आरोग्याहितचेतसाम् ।
वैकृत(न्त)कसहावर्तराकायस्कान्तजं हितम् ॥ ८१ ॥
(क्षुद्र सिस्रिषु ?) तन्मन्न +++ जातिसंस्कृतम् ।
फलं सम्यग् गुणाढ्यमन्यासु मणिजातिषु ॥ ८२ ॥
१ द. कुंचु । २ द. तक्ता । ३ द. संग्रह्यायिच्छिलद्रव्यं । ४ द. त । ५ द. च वज्रं । ६ द. यां ।
७ द. नपमं; मुद्रित पाठभेदस्तु 'प्रभवं' इति स्यात् । ८ द. र्याय । ९ द. मा । १० द. सु ।
११ मुद्रित पु. 'महाभृत्यै' इति स्यात् । १२ मुद्रित पु. 'य तु' इति स्यात् । १३ द. क्त । १४ द. द्या ।
१५ द. मिन्यै । १६ द. सो । १७ द. सो ।

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५७५
वर्णाभिधानसंस्थानविशेषाम्ब्य १+ तद्विदा ।
(२पृथियां३ सपीठं वा तं ४ ? ) स्यान्नोध्र्वं नवाङ्गुलात्त् ॥ ८३ ॥
सिद्धये (चरदारान्तावश्वनकाद्वा ? ) प्रशस्यते ।
सुसंस्थानं सुदीप्तं चेद(वाक्यं पिनयं ? ) दोषकृत् ॥ ८४ ॥
(सूक्ष्मपको गुणोपेत ? ) बलीयान् सर्वदोषकृत् ।
सान्निध्यकारणं दीप्तिः समस्तमणि(ज)न्मनाम् ॥ ८५ ॥
मानोन्मानप्रमाणादित्येषु ग्राह्यं नवा बुधैः ।
शैलं हस्तादधः स्थे(श्रे)यः प्रासादेषु च शस्यते ॥ ८६ ॥
नतश्चलमपि प्राहु(६र्हीणाश्रयसिस्त्रियो ।
इतश्चेदकृत्ये सुयवांकं पिण्डिकाधियाँङ्कम् ॥ ८७ ॥
अर्था भागद्वये ती ++ भागंपिण्डिकावटे ? ) ।
वृत्ता भागास्त्रयोऽप्यस्य प्रतिष्ठा स्याद् गुहासु च ॥ ८८ ॥
क्षेत्रे परिगृहीतेऽसौ देशे देशाधिपक्षयः ।
[ निष्पन्नरूपप्रगुणं मंडलां भव्यसाक्रया ॥ ८९ ॥
सिद्धरालाप्रधौतेस्मिर्नैभिः सिद्धरसं गतम् ।
यत्रोक्तः गैर्भस्तंकार्यात् तन्नालेखात् समा भवेत् ॥ ९० ॥
तैरखीइजटाकाङ्गा हरितालविष्टेधिभिः ।
सर्वैषाभिः प्रविष्टाभिरनालिं १६ ने लेखनीकृतम् ॥ ९१ ॥
प्रदेशो यानित्यां विश्रान्तिं ? ] व्यक्तिकृद् भवेत् ।
विषरुद्रजटापथ्या (चन्द्र ? ) कन्दविभीतकैः ॥ ९२ ॥
सुदर्शनाश्वमाराभ्यार्मेविदुग्धेन संयुतः ।
प्रलेपो यदि वा पौर्श्वे (चि) ह्नाभिर्व्यक्तिहेतवे ॥ ९३ ॥
१ द. श्च । २ मुद्रित पुस्तके 'पृथिव्यां वा स्वपीठे वा तत्' इति च स्यात् । ३ द. वीं ।
४ द. तत् । ५ द. न् । ६ द. हींणी श्रेयसिन्नियौ । ७ द. य । ८ द. ष्य त्रि । ९ द. गः । १० द. प्ता ।
११ द. भामसांक्रया । १२ द. र्नतः । १३ द. गर्भ संकः स्यात्कृत्वालेखात्त् । १४ द. करवीरजटाकांक्षी ।
१५ द. तृ । १६ द. म । १७ द. चिह्नन्ति । १८ द. स । १९ द. र्याश्चि । २० द. र्व्य ।

५७६ समराङ्गणसूत्रधारे
इदानीमिह पीठानां ( १स्तथाव ? ) कथ्यते ।
मानतो नामतो( र्घाच ? )२विशेषेतरसिद्धये ॥ ९४ ॥
( ३देव्यादि भेदवतीठं तु पदेको गर्भमानतः ।
तत्सिद्धिर्मुखतः प्रोक्त शुभं भंगे मुक्तयो ॥ ९५ ॥
कारादिलिङ्गमानेन यामितंन्यमुखं ५ततः ? ) ।
भुक्तये मुक्तये चैतान्युपदिष्टानि मुख्यतः ॥ ९६ ॥
लिङ्गवद् गर्भमानेन सम्यग्वा ( ता ) नि कल्पयेत् ।
लिङ्गदैर्घ्यप्रमाणानि ( मानेषु वेश्मसा ? ) ॥ ९७ ॥
अव्यक्तमुक्तलिङ्गानां समं [ विष्पतः ।
कारादिलिङ्गमानेन यार्मितान्यनुषङ्गतः ॥ ९८ ॥
भुक्तये मुक्तये तेनात्६पदि७ग्यर्भानां तद८र्दाङ्घ्रिविस्तृतिः ।
नृपार्कंविक्तजायामास्तदर्धोच्छ्रायविस्तृ९तिः ? ] ॥ ९९ ॥
उत्तमादि सहाघांनां(?) सिद्धयै कुर्वीत पीठिकाम् ।
वृत्तं वा चतुरश्रं वा सर्वप्रासादलिङ्गगम् ॥ १०० ॥
वृत्तं व्यक्तेषु न हितं विनाशादि ++++।
विधिना पृथिवी ++ पो (पा) वकी पूर्णसंज्ञिता ॥ १०१ ॥
भाभावती११ त्रपाक्षी(?) च गण्यन्ते ताश्च नामतः ।
इन्द्रादिलोकपालानां कार्या लिङ्गे( व्यचसु ? )क्रमात् ॥ १०२ ॥
ऐशानलिङ्गे रौद्रान्ति ++ या पीठिका भवेत् ।
१२ते चैतासु त्रयेऽन्यास्तु(?) भुक्तिमुक्तिफलप्रदा१३ ॥ १०३ ॥
( पपापपावरावापी वज्रै१४ ? ) चन्द्रकला स्मृता ।
संवर्ता नन्दिकावतें(र्त्ता) चैताः साधारणा मताः ॥ १०४॥
अथ लक्षणमेतेषां( तासां ) सर्वासामभिधीयते ।
ऐन्द्रलिङ्गा वृत्ता पृथ्वी स्तम्भादौ चतुरश्रिका(?) ॥ १०५ ॥
१ द. डा । २ द. स्तथा च लक्ष्म कं । ३ द. दष्वादि मे ं । ४ द. ग । ५ द. न्य । ६ द. नि ।
७ द. त्यु । ८ द. का । ९ द. तदर्दोच्छ्रविमृतिः । १० द. स । ११ द. ना भवती च । १२ द. ते
चैतास्ततान्यान्यस्तु । १३ द. दाः । १४ द. ज्ञ ।

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५७७
चतुरश्रस्य यः कर्णस्तच्चतुर्थांशमष्टधा ।
कृत्वांशसप्तकेनास्य (तुर्यान्तर्गतसत्कल्पनात् ?) ॥ १०६ ॥
पाश्चात्यभागयोः पार्श्वे बहिः सूत्रस्थिताव(थे²?) ।
वृत्तद्वयस्य भ्रमणं विदधीत विचक्षणः ॥ १०७ ॥
(चतुरश्रे पुरोगर्भसूत्राष्टस्यासवर्घनात् ।
कृतपत्रर्भसमुद्देशं पार्श्वाभ्यां सूत्रमात्रयेत् ?) ॥ १०८ ॥
लोपनात् त्यक्तभाग(स्या होतासि ?) पीठिका भवेत् ।
आग्नेयलिङ्गं स्याच्छक्र(त्रु)नाशसन्तापदाहकृत् ॥ १०९ ॥
क्षेत्रे + चतुरश्रेश्य द्वादशांशं परित्यजेत् ।
(पामदो गर्भनस्तेन ?) वृत्तस्यार्धं समालिखेत् ॥ ११० ॥
इत्यर्धचन्द्राकारोऽयं (सामी⁴?)भवति पीठिका ।
याम्यलिङ्गस्य नगरा(६दक्षिणान्था ?)रिनाशनी ॥ १११ ॥
चतुरश्रे विभागार्धवर्धनात् पार्श्वयोर्द्वयोः ।
(पुरिखीं ?) भागवृद्ध्या च सूत्रद्वयनिपातनात् ॥ ११२ ॥
(रौत्संतल्या ?) नैर्ऋती स्त्रीमरणद्वेषरोगकृत् ।
(पूर्वचन्द्रमाकृतिर्णां ?) वारुणी परिमेखला( : ?) ॥ ११३ ॥
शान्तिके पौष्टिके चैष्ट(चाथ) मृत्युनाशोने(च) पीठिका ।
प्रतीच्यो (?) षडंशस्य वृद्धिं कृत्वा +¹²++ तः ॥ ११४ ॥
'(गर्भावँ ?) वृत्तलेखेन यत् सम्पातचतुष्टयम् ।
(कर्णाभ्यकर्णं ?) भवेत् तेन वृत्तिं (त्त) स्थानद्वयेन च ॥ ११५ ॥
षडश्रं सममा(ले)ख्यं यद्वा वज्रसमाकृतिं¹६ ।
नाभस्वती पीठिका स्यात् (पर्णेनि ?)र्मरुतो दिशि ॥ ११६ ॥
१ द. न्त । २ द. घेः । ३ द. त । ४ द. रे । ५ द. मा । ६ द. दा । ७ द. स्त्री ।
८ द. रौतसंत्य नैऋती व्यांस्त्राभरणा द्वे° । ९ मुद्रित पाठः 'पूर्ण चन्द्राकृतिः कार्या कार्या' इति स्यात् ।
१० द. °तिः पूर्णा वारुणे परमेखला । ११ द. चेश्चा । १२ द. तदग्र । १३ द. च । १४ मु० 'कर्णा
भ्यर्णे' इति स्यात् । १५ द. द्वि । १६ द. तिः ।
वा. ७३

१७८ समराङ्गणसूत्रधारे
कर्मसूच्चाटनाद्येषु विनियोज्या जिगीषुभिः ।
याक्षी त्रिमेखला वृत्ता वित्ताप्त्यै¹ धनदार्चिते(ता) ॥ ११७ ॥
(गणाद्द्रिमेखलाषट्श्रितः³ ? ) ।
कुर्वीतैकेन खुरकं चतुर्भिर्जाड्यकुम्भकम् ॥ ११८ ॥
(द्वाभ्यामङ्गं तथैकेन प्रवेशोऽत्र जाड्यकुम्भस्य शस्यते ।
अञ्जूयस्य चतुर्भिस्तैः कर्णिकाया द्वये नराः ? ) ॥ ११९ ॥
एकेन कण्ठकस्या(श्चा)तो निर्यात्येकेन कर्णिका ।
(⁴विभागैरं पुंजं ? ) षड्भिस्ततश्चैकेन मेखलाः ॥ १२० ॥
पद्मेय पीठिका ख्याता सर्वकामप्रदायिनी ।
क्षेत्रे षोडशधा भक्ते भागेन खुरको भवेत् ॥ १२१ ॥
चतुर्भि(र्जशंतां ) कुम्भस्त्रिभिरेकेन कर्णिका ।
त्रिभिः ⁶कण्ठश्चतुर्भिश्च पूर्ववन्निर्गमो भवेत् ॥ १२२ ॥
इमं(यं) + व्यक्तलिङ्गेषु पीठिका स्यात् पयोधरा ।
(एवंविधैव चापीठ स्यात्किमुच्यक्तो⁹ ? ) लक्षणे ॥ १२३ ॥
भक्ते द्वादशभिः पीठमानं द्विभागिको भवेत्(?) ।
जगतीति(तु) त्रिभिः (कुंसे¹⁰ ? ) द्वाभ्यामेकेन वेदिका ॥ १२४ ॥
कण्ठो द्वाभ्यामथैकेन वेदिका पुनरुत्तरा ।
¹¹ऐकेकेन तु भागेन ततः स्यात् पीठिकोद्वयम्¹² ॥ १२५ ॥
एवं षडश्रा कर्तव्या वज्राक्षा पीठिका बुधैः¹³ ।
(पीठिका क्षेत्रेण निर्मत्तैषो¹⁴ ? ) भागेन खुरको भवेत् ॥ १२६ ॥
द्वाभ्यां जङ्घार्थे¹⁵ भागेन वेदी द्वाभ्यां तु कण्ठर्थं¹⁶(कः) ।
(उ¹⁷भैयाभ्यां निर्गमः सा ¹⁸क्षीच्छि ? ) चन्द्रकला भवेत् ॥ १२७ ॥
१ द. प्त्यौ । २ द. मे । ३ द. ता । ४ मुद्रित पाठस्तु 'विभागैरम्बुजं' इति स्यात् ।
५ द. यु । ६ मुद्रित पुस्तके 'जगती' इति स्यात् । द. °गं° । ७ द. ण्ठा । ८ द. ठि । ९ द. °क्तोक्त ।
१० द. कुंसे । मुद्रित पुस्तके 'कुम्भो' इति स्यात् । ११ द. एकेनैव । १२ द. पट्टिका द्वयं ।
१३ द. बुधैः । १४ द. के । १५ द. य । १६ द. यः । १७ द. भाभ्यां । १८ द. क्षीरित्थं ।

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५७९
( आपा^१यनायपुद्यौ^२ च पदारेखैव चामृता ? ) ।
भवेत् षण्मेखलादर्द्धादूर्ध्वकण्ठोऽथ भागिकः ॥ १२८ ॥
पट्टिकात्रितयं शेषे क्षेत्र(^३त्रे ) स्यान्निर्गमान्तरम् ।
रुद्रार्चिता पीठिकेयं^४ संवर्तैत्यभिधानतः ॥ १२९ ॥
यां कृत्वा प्रकृतेरूर्ध्वं गताः संवर्तकादयः ।
^५रौद्रावोथस्तराख्यं(?) ते भेजिरे पदमव्ययम् ॥ १३० ॥
षोढा पीठोदये भक्ते भागं स्यात् पट्टिकात्रयम् ।
एकेन कण्ठो भागेन पट्टिकान्यापि भागिका ॥ १३१ ॥
नन्द्यावर्ताङ्किता सेयं नन्द्यावर्तेति कीर्तिता ।
साधारणीयं सर्वेषां लिङ्गानां सर्वसिद्धिदा ॥ १३२ ॥
( भवा^६कण्ठसुवासर्ध्यानामियं सिद्धखुरा ।
दोदे^८रन्योनमिथै^७ ? ) भवन्त्यन्याश्च पीठिकाः ॥ १३३ ॥
मास( न )संस्था न कथितास्तासामानन्त्यकारणात् ।
त्र्यंशेन गर्तः^९ स्यादासां षोडशांशेन मेखला ॥ १३४ ॥
खातश्च नेयः श्वभ्रान्तं^१० मेखलामध्यतो ह्यतौ( सौ ) ।
( प्राणाँलौ^११र्घसमा ? ) दैर्घ्यविस्ताराभ्यामुदग्दिशि ॥ १३५ ॥
[ ^१२पञ्चाशद्विशयंस्ताल सद्ध्वयंमन्तरा ।
सदांसद्वि^१३भयं प्रान्ते खातोऽग्रे द्विगुणामुखान्^१४ ॥ १३६ ॥
^१५सार्धाभमेखला कार्याः ^१६प्राणालः स्वस्तृतं^१७ भागतः ।
गुणागुणास्त्रयो^१८ लिङ्गे तान्यार्पन्नेव^१९ ? ] भावयेत् ॥ १३७ ॥
^२०आवर्ताः शोभनाकाराः शुभाः स्यु +^२१+++ धः ।
( नतु ? ) पीठब्रह्मशिले शस्ते लिङ्गजात्यनुगे सदा ॥ १३८ ॥
१ द. प्या । २ द. ष्ट्यौ । ३ द. ˚के ने यं । ४ द. संवर्त्तयत्य˚ । ५ द. रुद्रचोथस्तदाराख्यं ।
६ द. न्य । ७ द. त्क । ८ द. स्या । ९ द. र्भः । १० द. तं । ११ द. लोर्वा । १२ द. पंचाशद्वि-
सयँस्ताल सत्ता सद्ध्वयमन्तरा । १३ द. तय । १४ द. त् । १५ द. सार्द्धानमेखलः । १६ द. प्र ।
१७ द. त । १८ द. ये । १९ द. त्रै । २० द. अ । २१ द. स्त्येन्यथा ।

५. ताल-मान, मण्डप-विधि व उपसंहार (अध्याय ६६-८३)

५८० समराङ्गणसूत्रधारे
भर्ग(गर्भ)कर्णचतुर्थांशमाना स्याद् ब्रह्मणः शिला ।
१+++गस्य कर्णेन यद्वा ब्रह्मशिला भवेत् ॥ १३९ ॥
(योताभिषेक ?) ब्रह्मशिला ब्रह्मांशतो भवेत् ।
तावत्या (ता) भ्यधिका कार्या तस्याः कर्मशिला बुधैः ॥ १४० ॥
स्थापयेत् (पुरुषत्रया ?) शिवा (वं) मध्ये निवेशयेत् ।
ब्रह्माणं दक्षिणेनास्य वामतः पुरुषोत्तमम् ॥ १४१ ॥
अन्यथास्थापनादेषां प्रत्यवायो महान् भवेत् ।
(त्रिभागौना४ शचा ?) स्यातां कोशान्तश्चक्रिणो भवेत् ॥ १४२ ॥
(त्रिभागोनस्तिंवासातां कोशान्तश्चक्रिणो भवेत् ।
त्रिभागोन्नतस्यादान्तः कोकस्यान्तः ?) पद्मजन्मनः ॥ १४३ ॥
ब्रह्मविष्णुमहेशानां +६+++निवेशने ।
प्रमाणमेतेषु (द्विश्च ?) पृथक्स्थानां यदृच्छया ॥ १४४ ॥
उमामहेश्वरौ यत्र तत्रोमा ब्रह्मविष्णुवत् ।
आकाशे(?) प्रतिमा (येष्ठा ?) चत्वारिंशच्च पञ्च च ॥ १४५ ॥
हस्तान् कार्या त्रिभागोना मध्या ९हीना तदर्धतः ।
यात्रार्थी प्रतिमा द्वारप्रमाणेन विधीयते ॥ १४६ ॥
भव(तच्च) द्वारं त्रिधा चत्वा(भक्त्वा) पीठं भागेन कल्पयेत् ।
तै१०(द्वा)भ्यां (तु) प्रतिमा कार्या ज्येष्ठास्यै१२ (यां) मानमीदृशम् ॥
मध्यायां नवधा द्वारं कृते(त्वै)कं भागमुत्सृते(जेत्) ।
शेषान् भागान् त्रिधा कृत्वा पीठं भागेन कल्पयेत् ॥ १४८ ॥
अै१३र्चासुभाभ्यां हीनायां विदध्याद् द्वारमष्टधा ।
एव(क)मुत्सृज्य शेषेण ++++++++॥ १४९॥
१ द. ब्रह्मभा । २ मु० ‘यावताम्यधिका’ इति स्यात् । ३ द. ह्म । ४ द. न शिवा । ५ द.
‘स्ति’ स्थाने ‘शि’ । ६ मुद्रित पुस्तके ‘कमोऽयं स्याद्’ इति पूरणीयं भाति । ७ द. तो । ८ द. ज्ये ।
मुद्रित पुस्तके ‘ज्येष्ठा’ इति स्यात् । ९ द. र्हाना । १० द. र्द्वा । ११ द. उभाभ्यां प्र० । १२ द.
०र्थामन० । १३ द. आ ।