समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 628, कुल 726 में से
संदर्भ में पढ़ेंलिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । ५६७
सार्धभागायते स्यातां कर्णाः शालायुगान्विताः ।
पूर्ववच्छुण्डिकार्यं च कमलेयमुदाहृता¹ ॥ २१७॥
चतुर्दशविभक्तासु सप्तस्वस्तिषु( ? ) कल्पयेत् ।
निर्गमायामतुल्यासु² शालाः पञ्च पृथक् पृथक् ॥ २१८॥
अग्रभद्रे तु कर्तव्यं शालात्रितयमुत्तमम् ।
इति विज्ञेय( ज्ञैः ) समाख्याता शाला वज्रधरप्रिया ॥ २१९॥
इत्थं जगत्यश्चतुरश्रसंस्थाः
( ³स्पदायनों ? ) वर्तुलसन्निवेशाः ।
( वृत्तायता धस्तियुताश्चयः सम्यग् ? )
जङ्घाः सदा शिल्पभिरप्रमत्तैः ॥ २२० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
जगतीलक्षणाध्यायो नामैकोनसप्ततितमः ॥
अथ लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः ।
अथ प्रमाणं लिङ्गानां लक्षणं चाभिधीयते ।
( लोहं हस्तत्रिभागेन कनीयसम् ? ) ॥ १ ॥
( ⁶व्यंशवृद्धानावैवं स्युराहस्ताँत्रतवाविधे ? ) ।
( ह्रस्वमध्योत्तमाख्यानि त्रीणि त्रीण्यल्पकादिभिः ॥ २ ॥
लिङ्गानामभिः प्रासाद्स्थानुसारतः ? ) ।
अतश्च द्विगुणानि( स्युंवारुणाजानि प्रमाणतः ? ) ॥ ३ ॥
( त्रिर्गुणान्यस्माज्जातानि ? ) मृत्तिकाप्रभवानि च ।
स्वस्य स्वस्य कनिष्ठस्य पदेन परिवर्तनात् ॥ ४ ॥
१ द. तः । २ द. स्तु । ३ मुद्रित पुस्तके पाठभेदस्तु ‘स्तदायता’ इति स्यान् । ४ द. दांता ।
५ द. प्रतों ‘ ........ ’ इत्येवास्ति । ६ मुद्रित पुस्तके ‘व्यंशवृद्धा नवैवं स्युरा हस्तत्रितयावधेः’
इति स्यान् । द. त्र्यं । ७ द. नैवैवं । ८ द. सूत्रे तथा विधे ; ९ द. लिङ्गिनाममभिः प्राहुः प्रा° ।
१० द. वारुण्या । मुद्रित पुस्तके ‘स्युर्दाहजानि प्रमाणतः’ इति स्यान् । ११ मुद्रित पुस्तके
‘त्रिगुणान्यश्मजातानि’ इति स्यान् । १२ द. तिकी ।