समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 624, कुल 726 में से
संदर्भ में पढ़ेंजगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५६३
सार्धंमायामविस्तारास्त(त्त)दर्धभ्रमणान्विता ।
सनक्षत्राय सोमाय कर्तव्या पुष्टिहेतवे ॥ १७१ ॥
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।
पञ्चभागायतां मध्ये शालां वृत्तां प्रकल्पयेत् ॥ १७२ ॥
सार्धभागद्वय(स्त?)मिता देवागारस्य बाह्यतः ।
(१भ्र्मण संविधातव्य ?) कर्णशालाश्च कर्णगाः ॥ १७३ ॥
कर्णमानं३ बहिर्वृत्तं भ्रमयित्वासान्दं(समन्त)तः ।
भद्रोपभद्रकर्णेषु वृत्ताः शालाः प्रकल्पयेत् ॥ १७४ ॥
पदद्वयसमायामा(ः) पदत्रितयविस्तृतौ(ः) ।
भागिका(क)भ्रमणोपेता(ः) शालाः कुर्वीत भद्रजाः ॥ १७५ ॥
द्वे भद्रात् पार्श्वयोः शाले द्वे च प्रतिरथाश्रये ।
भागिकायामविस्तारा(रे) कुर्यादर्धपरिक्रमे ॥ १७६ ॥
बौ(बा)हल्यायामतः सार्धभागा(ः?) शालार्धकर्णगा ।
तासां तदर्धमानेन विधातव्यः परिक्रमः ॥ १७७॥
प्रविष्टौ तु पदार्धेन भद्रान् प्रतिरथावुभौ ।
इत्येषा जगती प्रोक्ता मानतश्चन्द्रमण्डला७ ॥ १७८॥
अथ ८वृत्ता++ ९ब्रूमो जगतीः षड् यथाक्रमम् ।
पञ्चभागायताः क्षेत्रा विस्तरेण चतुष्पदाः( ?) ॥ १७९ ॥
विद्ध्यादायतं वृत्तं (चमस्यां ११भवभागिकः ?) ।
मध्ये स्यात्(त्रिं१२पदास्तामा सं१३द्विपदविस्तृताः ?) ॥ १८०॥
मत्तवारणसंयुक्ता य(प्र)तोल्यालङ्कृता शुभा ।
सोपानशुण्डिकाप्रान्तं ++ गण्डितमण्डिता१४ ॥ १८१ ॥
१ द. भाग । २ द. भ्रमणी संविधातव्यः क॰; मुद्रित पुस्तके ‘भ्रमणाः संविधातव्याः’ इति
स्यात् । ३ द. नाद्व । ४ द. दं ततः । ५ द. तः । ६ द. श्व कर्णगाः । ७ द. लाः । ८ मु. पु.
‘वृत्तायताः’ इति स्यात् । ९ द. ब्रगो । १० द. ॰ध्यायितं । ११ द. त । १२ मु. पु. ‘त्रिंपदायामा
सार्धद्विपदविस्तृता’ इति स्यात् । १३ द. सा । १४ द. का ।