समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६९
[ इत ऊर्ध्वमादर्शग्रन्थे द्वे पत्रे ( १६८, १६९ तमे ) लुप्ते । तयोराहत्य उपपञ्चाशाः श्लोका
नष्टाः संभाव्यन्ते । ]
++++++++++++ पञ्जरात् ॥
त्रिभागेन तु भागस्य अष्टशृङ्गस्य(?) पक्षकः ।
नष्टशृङ्गस्य(?) शृङ्गस्य चान्तरे सलिलान्तरम् ॥
अन्योन्यं शृङ्गनिष्कासो भागेनैकेन शस्यते ।
दशभागायतं भद्रं चतुर्थांशेन निर्गम(तम्) ॥
एवमेष तलच्छन्दः कथितः सुरसुन्दरे ।
ऊर्ध्वमानमथ ब्रूमो भागशुद्ध्या यथाक्रमम् ॥
पीठादारभ्य विस्तारो (राद्) द्विगुणा स्यात् समुन्नतिः ।
उपपीठेऽप्यलंकुर्याद् भागमेकं समुन्नतम् ॥
पदेन पादहीनेन ( गजा ? ) द्वारसमुन्नतिः ।
उच्छ्रितिर्जाड्यकुम्भस्य सार्धभागा विधीयते ॥
कलशोत्तरपत्रे च पादहीनपदोन्नते ( : ? ) ।
अस्यादूर्ध्वं तु कर्तव्या पदार्धं ग्रासपट्टिका (?) ॥
( आयपीतोच्छदा प्रोक्ता मूलभूतोभिवास्तुनः ?) ।
खुरकश्च पदार्धेन (सार्धभागे कुम्भपूरकः ? ) ॥
भागेनैकेन कलशः समवृत्तोऽतिसुन्दरः ।
भागं सपादं कुर्वीत मेखलान्तरपत्रके ॥
षड्भागेनु (नो) च्छ्रिता जङ्घा भागार्धं ग्रासपट्टिका ।
कर्णे चैकेन भागेन भागार्धं (कुंणपो?) भवेत् ॥
भागेन हीरकं कुर्याद् यथा शोभा प्रजायते ।
मेखलान्तरपत्रे च सार्धभागेन कारयेत् ॥
ऊर्ध्वतः पदयोर्मध्ये स्यात् सार्धद्वादशांशकम् ।
तन्मध्ये सार्धभागं तु राजसेनं सपट्टकम् ॥
१ ' कोणयोः' इति स्यात् ।
वा. ४७
३७० समराङ्गणसूत्रधारे।
द्वौ भागौ वेदिका भागस्यार्धमासनपट्टकः ।
भागं चन्द्रावलोकं स्यात् स्तम्भमासनमूर्धनि ॥
निवेशयेत् पश्चभागं भरणं भागिकं ततः ।
भागमेकं समुच्छ्रायां ( यः ) शीर्षकं द्विगुणायतम् ॥
पट्टस्य कुर्यादुत्सेधं भागमर्धसमन्वितम् ।
सार्धभागद्वयं बाह्यं ( तद्रूपं दूतावलं छिवितम् ? ) ॥
द्वौ भागौ छाद्यकस्योर्ध्वे कार्या वासनपट्टिका ।
विराजमाना सा कार्या रूपग्रासवरालकैः ॥
मेखलान्तरपत्रेषु ( तु ) भागाद् रूपसमन्विते ।
भागद्वयेन कर्तव्या द्वितीया मेखला बुधैः ॥
कूटान्यतः परं कुर्यात् कर्मयुक्तानि सर्वतः ।
कूटेषु कुर्यात् प्रत्येकं सिंहकुम्भसमन्वितम् ( ? ) ॥
उरोमञ्जरिका तानि भवत्येव ( ? ) यथाक्रमम् ।
अष्टाण्डकत्रयान्तेषु षडण्डं स्याच्चतुष्टयम् ॥
चतुरण्डं द्वयं कृत्वा त्वेवं कर्णे विदुर्बुधाः ( ? ) ।
नव कुण्डानि(?) तुल्यानि विस्तारेण पदद्वयम् ॥
सार्धं भवति प्रत्येकं सार्धमुच्चैः पदद्वयम् ।
एवं ( निकर्तं एकैकं स्यात् ? ) तत्पदं वांशदण्डकम् ॥
सिंहकर्णः षडुच्छ्रायो भद्रे स्यात् प्लवविस्तृतिः ।
द्वितीय( श्चानुदन्तश्च ? ) शोभितश्चारुकर्मणा ॥
तृतीयो द्विपदः कार्यः सिंहकर्णो मनोरमः ।
विस्तारो मूलमञ्जर्याश्चतुर्दशपदो भवेत् ॥
भागसप्तदशोच्चे तु मातृभिः( ? ) पद्मकोशवत् ।
स्कन्धश्चाष्टपदः प्रोक्तो ग्रीवा सार्धपदोच्छ्रिता ॥
द्विपदश्चाण्डकोत्सेधश्चन्द्रिकार्धपदोन्नतः( ता ) ।
कलशं त्रिपदं प्राहुर्मातुलिङ्गस्य( स )मुद्भवम् ॥
मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७१
मध्ये तु मूलमञ्जर्याः कुर्वीत शिखरत्रयम् ।
सुरेखं सुप्रसन्नं च सर्वदेशिविभूषितम् ॥
षट्पञ्चाशं (?) भवेदस्मिन्नण्डकानां शतद्वयम् ।
एवं श्रेष्ठोऽयमाख्यातः प्रासादोऽण्डकमानतः ॥
सप्त( शत )मेकान्नसतत्या युतं स्यान्मध्यमे पुनः ।
एकोत्तरं शतं (तं ) प्राहुरण्डकानां कनीयसाम( सि ) ॥
मन्दारकुसुमाकाराण्या(ण्येता)नि सुरसुन्दरे ।
कुर्याद् ( य ) एनं प्रासादमीदृशं सुरसुन्दरम् ॥
स वैरिञ्चं (यु) गशतं सूर्यलोके महीयते ।
सुरसुन्दरः ॥
नन्द्यावर्तमथ ब्रूमः प्रासादं नृपवृद्धिदम् ॥
भूषितं मना(नाग)कन्याभिर्वल्लभं पृथिवीभुजाम् ।
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥
पदद्वयमिदं यन्त्र नादाय(?) ब्रह्मणः पदात् ।
वृत्तं समालिखेद् गर्भा वस्मैलं च तुलं(?) भवेत् ॥
भागेन च तुलो(?) भित्तिर्भागेन स्याद् भ्रमन्तिका ।
भागेन बाह्यभित्तिः स्यात् पदपञ्चकवर्जिता ॥
कन्दे वि(द्वि)भागं कुर्वीत पुष्पशेखरकं ततः ।
द्विपदा बाह्यतः कर्णा विधातव्यास्तु वर्तुलाः ॥
यथागात्रं विधातव्याः स्वस्तिकाकृतयश्च ते ।
चत्वारो रथिका(कन्दो कोणे कर्णे ?) चतुष्टयम् ॥
पञ्चभागायतं भद्रं सार्धभागविनिर्गमम् ।
भद्रान्तपातिनी कुर्यात् प + ङ्गे पदसंमिते ॥
शेषं भद्रं तु कर्तव्यं विस्तारेण त्रिभागिकम् ।
भागस्यार्धेन विस्तीर्णं तथा भागप्रवेशकम् ॥
१ 'यलादादाय' इति स्यात् ।
३७२ समराङ्गणसूत्रधारे
एतत्प्रमाणं कर्तव्यमिह प्राज्ञैर्जलान्तरम् ।
तलच्छन्दानुगं भद्रं नन्द्यावर्तं(र्ते) यथाक्रमम् ॥
ऊर्ध्वमानमथ ब्रूमो नन्द्यावर्तं(र्ते) यथाक्रमम् ।
सार्धभागद्वयोच्छ्रा( १यामासनं तस्य ?)दूर्ध्वतः ॥
( २कार्यतुलोदयस्य+?) मध्ये भागैस्तथाष्टभिः ।
तुलोदयस्य मध्ये स्याद् वेदीबन्धो द्विभागिके (क)ः ॥
भागिकः कुम्भकोसेन( त्सेधो ) मेखलाकलशान्वितः ।
चतुर्भागा भवेज्जङ्घा भागिकं भरणं भवेत् ॥
मेखलान्तरपत्रे तु भागेनैकेन कल्पयेत् ।
पादेन राजसेनं स्याद् ( वदूत्तच पट्टतः ? ) ॥
वेदी साष्टपदोत्सेधा भागपादेन चासनम् ।
भागार्धेन नतं कुर्याद् भागं ( ३पञ्चवलोकत ? ) ॥
पादोनत्रिपदः स्तम्भः पल्लवैरुपशोभितः ।
हीरग्रहणशीर्षं च कुर्याद् भागसमुच्छ्रिति ॥
पट्टमेकपदोत्सेधं छायकं द्विपदायतम् ।
भागेन कुर्यादुपरि पट्टिकां चारुकर्मणा(म् ?) ॥
अंशांस्त्रीनुच्छ्रितः सिंहकर्णः स्याच्चतुरायतः ।
भूषितः( खरसे + न ? ) स च कार्योंऽतिशोभनः ॥
विस्ताराद् द्विपदे शृङ्गे सार्धभागद्वयोच्छ्रिते ।
अस्योर्ध्वमन्यशृङ्गं स्यात् सहशोच्छ( च )परिस्तुति( : ? ) ॥
प्रत्यङ्गस्तु व(ङ्गेषु च) कूटानि सार्धांशोच्छ्रायवन्ति च ।
द्वितीयः सिंहकर्णः स्यात् सिंहकर्णस्य मस्तके ॥
( ४ततो शृङ्गं ? ) तृतीयः स्याच्चतुर्थस्तस्य चोपरि ।
षड्भागविस्तृता कर्ण( : ? ) कूटस्था मूलमञ्जरी ॥
१ 'यमासनं स्यात् त' इति स्यात् । २ 'कार्यस्तुलोदयस्तस्य' इति स्यान् । ३ 'चन्द्राव-
लोकनम्' इति स्यात् । ४ 'ततः शृङ्गे' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७३
सप्तभागोच्छ्रिता च स्यात्(स्कन्धस्यच शोच्छ्रितिः १ ? ) ।
स्यादुरोमञ्जरी मूलमञ्जर्या मध्यसंश्रया ॥
भागैश्चतुर्भिर्विस्तारः षड्भिश्चास्याः समुच्छ्रितिः ।
कलशाण्डकसंयुक्ता कर्णाभ्यन्तरमञ्जरी ॥
स्यादण्डकैकविंशत्या नन्द्यावर्तः सुलक्षणः ।
भक्त्या ये कारयन्त्येनं नद्यावर्तमनुत्तमम् ॥
विमानं शुभमारुह्य शक्रलोकं व्रजन्ति ते ।
नन्द्यावर्तः ॥
प्रासादमथ वक्ष्यामः पूर्ण पूरितवाञ्छितम् ॥
वन्दितैः(तं) किन्नरैर्यक्षैर्मनुष्यपितृवल्लभम् ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥
विस्तार(राद्) द्विपदो गर्भः कार्या भित्तिस्तु भागिकः ।
द्विपदं कन्दभद्रं च निर्गमोऽस्यार्धभागिकः ॥
शोभना दिषु(क्षु) सर्वासु द्विपदा च भ्रमन्तिका ।
पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ॥
आयत्या चतुरो (भागावण्डभित्तेर्विनिर्गमा ? ) ।
भद्रं सुशोभनं तस्या द्वि(वि)धातव्यं द्विभागिकम् ॥
पर्णस्तु पदिका( ? ) पक्षभद्रं भागार्धनिर्गतम् ।
जलान्तरं तु भागार्धमायामक्षेपयोः समम् ॥
चतुर्भागो वलस्यास्य( ? ) गर्भो भित्तिस्तु भागिकी ।
यामायुर्वित्तगोस्त्रीणां वलभी कीर्तिकारयेत् ( ? ) ॥
पूर्वतः कारयेद् द्वारं चतुर्गर्भेऽत्र मन्दिरे ।
ऊर्ध्वमानं तु वक्ष्यामः प्रासादस्यास्य सम्प्रति ॥
पीठं द्विभागिकं कार्यं वेदीबन्धो द्विभागिकः ।
जङ्घा पदचतुष्कं च शोभिता रूपकर्मणा ॥
१ 'स्कन्धः स्याच्च दशोच्छ्रितिः' इति पाठ्यं स्यात् ।
३७४ समराङ्गणसूत्रधारे
पदद्वयं तु कर्तव्यं (हीनंनं ?) सातपत्रकम् ।
कलशाण्डकयुक्तानामुच्छ्रायस्त्रिपदो बुधैः ॥
कर्तव्यः कर्णशृङ्गाणां सर्वेषामपि मानतः ।
चतुष्पदोच्चा वलभी घण्टाकलशसंयुता ॥
मल्लच्छाद्यत्रयं कुर्यात् कर्णशृङ्गस्य चोपरि ।
युक्तमन्तरपत्रेण भागोच्छ्रायं पृथक् पृथक् ॥
भागेनैकेन घण्टा स्याद् भद्रा(भागा)भ्यां कलशाण्डके ।
समूलकलशे कर्णे सूत्रं सम्पातयेद् बुधः ॥
मल्लच्छाद्यं विधातव्यं सूत्रेणैकेन लाञ्छितम् ।
प्रासादमेवं पूर्णायुर्यः कुर्याद् भक्तिमानिमम् ॥
(सप्तकामः + ?) पुरुषः स(श)र्वलोके महीयते ।
पूर्णः ॥
सिद्धार्थमथ वक्ष्यामः सर्वकामार्थसिद्धि(द)म् ॥
कामाः सिध्यन्ति यत्कर्तुरिहलोके परत्र च ।
चतुरश्रे समे क्षेत्रे विभक्ते दशभिः पदैः ॥
कुर्वीत षट्पदं गर्भं + + चास्य चतुष्पदम् ।
भागेनैकेन रमणीं बाह्यभित्तिं च भागिकीम् ॥
कुर्वीत द्विपदान् कर्णाञ् शालां षड्भिः पदैर्बुधै(धः) ।
तदूर्ध्वं कर्णशृङ्गांश्च(ङ्गे च) यथाशोभं प्रकल्पयेत् ॥
त्रिपदं निर्गमं तस्याश्चतुष्कीश्च चतुर्दिशम् ।
मध्ये बहिश्च कुर्वीत तस्या द्वारचतुष्टयम् ॥
उन्नतं भागविंशत्या मानमस्योर्ध्वतो भवेत् ।
त्रिपदः पीठबन्धः स्याद् द्विगुणोच्छ्रायबाह्यतः ॥
सार्धं भागद्वयं कार्यो वेदिबन्धस्तु शोभनः ।
अर्धकुम्भैकमर्दे च मेखलां समस्तूरकः (?) ॥
१ 'आप्तकामः स' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७५
जङ्घा सार्धचतुर्भागा कार्योच्छ्रायेण शोभना ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
खुरका( दू ) मेखला यावत् सप्तभागान्तरं भवेत् ।
भागाभ्यां राजसेनं च कुर्याद् वेदीं च सासनाम् ॥
त्रिभागं स्तम्भमुत्सेधाद् भागस्यार्धेन हीरकम् ।
भागार्धं स्तम्भशीर्षं स्याद् भागः पट्टस्य चोन्नतिः ॥
सूर्यच्छाद्यो द्विभागः स्याद् भागेनैकेन लम्बना( : ? ) ।
शृङ्गोत्सेधस्त्रिभागश्च कलशाण्डकसंयुत( म् ? : ) ॥
चतुर्भागोन्नतः सिंहकर्णः षड्भागविस्तृतः ।
कुर्वीत शृङ्गयोरूर्ध्वं शोभनां मूलमञ्जरीम् ॥
अष्टभागप्रविस्तीर्णां नवभागसमुच्छ्रित( ताम् ) ।
स्कन्धः पञ्चपदो ज्ञेयो ग्रीवा चार्धपदोच्छ्रिता ॥
अण्डकं भागमात्रं स्यादूर्ध्वं भागेन चन्द्रिका ।
वर्तुलः समविस्तारः कलशस्तु द्विभागिकः ॥
भद्रे वराटकाश्वेह कर्तव्या हेमकूटवत् ।
यः कुर्यात् कारयेद् यस्तु सिद्धार्थं सर्वकामदम् ॥
स भवेत् सर्वकामाप्तिः शिवलोके च शाश्वतः ।
सिद्धार्थः ॥
अथाभिधीयते सर्वपापघ्नः शङ्खुवर्धनः ॥
आलयः सर्वदेवानां प्रासादो भूभृतां प्रियः ।
चतुरश्रे समे क्षेत्रे ( गर्भाकर्णे ? ) विशोधितम् ॥
वर्तुलं कारयेत् पश्चात् सर्वकोणेषु लाञ्छितम् ।
विस्तारार्धे भवेद् गर्भो यच्छेषं तेन ( भर्तिवः ? ) ॥
द्विगुणं कारयेदूर्ध्वं भागविंशतिभाजिते ।
तुलोदयोऽष्टभागः स्याद् द्वादशांशा च मञ्जरी ॥
३७६ समराङ्गणसूत्रधारे
कुम्भकं कलशं द्वाभ्यां कपोतालीं च कल्पयेत् ।
पञ्चभागोच्छ्रिता जङ्घा मध्येऽस्या ग्रासपट्टिका( म् ) ॥
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ।
भागार्धं कारयेत् प्राज्ञः संख्या( शङ्खा )वर्तकमञ्जरीम् ॥
शङ्खावर्तककूटांश्च विदधीत + विस्तरात् ।
शतवास्तुविभक्तेऽस्मिन् या + मानानुसारतः ॥
स्कन्धो विधेयो ग्रीवा च भगार्धेन समुच्छ्रिता ।
चन्द्रिका शिरसा सार्धं कार्या सार्धपदोन्नता ॥
द्विपदः कलशोच्छ्रायः कर्तव्यः शङ्खवर्धने ।
गर्भश्चा(स्या)च्छादनं कुर्यात् संख्या( शङ्खा )वर्तवितानकम् ॥
यः शङ्खवर्धनं कुर्यात् स भुनक्ति चिरं महीम् ।
वशगा चास्य सततं भवेल्लक्ष्मीजलाञ्जलिः (?) ॥
शङ्खवर्धनः ॥
त्रैलोक्यभूषणं ब्रूमो वन्दितं त्रिदशैरपि ।
आश्रयं सर्वदेवानां पापस्य च विनाशनम् ॥
त्रिंशद्धस्तः कनीयान् स्यान्मध्यमस्त्रिदशाधिकः ।
पञ्चाशद्धस्त उत्कृष्टस्त्रिविधं( घो ) हस्तसंख्यया ॥
चतुरश्रे समे क्षेत्रे त्रिंशद्भक्तोप( क्ते प्र )कल्पयेत् ।
दशभागायतं गर्भं कन्दं द्विगुणसप्तकम् ॥
चतुष्पदं कन्दकर्त्त( णं ) भद्रं चास्य द्विभागिकम् ।
कुर्वीत षट्पदां शालां भागेनैकेन निर्गताम् ॥
अन्धोऽर्धद्विपदे चास्य द्विपदाश्चात्र भित्तयः ।
शृङ्गमेकं भवेन्मध्ये विस्तारेण चतुष्पदम् ॥
मध्ये शृङ्गस्य चान्तः + + + षड्दारुकं भवेत् ।
द्व्यंशा द्वितीया रमणी(या ?) बाह्यभित्तिर्द्विभागिका ॥
१ 'लक्ष्मीः कृताञ्जलिः' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७७
कर्णशृङ्गद्वयं कार्यं विस्तारेण चतुष्पदम् ।
द्वादशांशमिता शाला निर्गमोऽस्याः पदत्रयम् ॥
प्राक्कर्णशृङ्गमष्टांस्तिस्यादुर्जनफलोपमम् (?) ।
-
- द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥
द्विपदं तस्य भद्रं च निर्गमो द्विपदं भवेत् ।
शृङ्गयोरुभयोर्मध्ये पदार्धं पक्षभद्रकम् ॥
पदार्धं वारिमार्गश्च प्रक्षेपः पदसंमितः ।
ऊर्ध्वमानमथ ब्रूमः षष्टिभागसमुच्छ्रितम् ॥
तुलोदयस्ततो ( विंशपञ्चसूदनमञ्जरी ? ) ।
( स नृप्तंसत्यदोच्छ्रायो ? ) भागेष्वेषु विधीयते ॥
तुलोदयस्य मध्ये तु वेदी पञ्चपदोदया ।
तदर्धं कुम्भकं कुर्यात् तद्वत् कलशमेखला ॥
एकादशपदा जङ्घा हीरकं तु पदत्रयम् ।
द्वौ भागौ मेखला तद्वद् द्वितीयापि सतारका ॥
ऊर्ध्वतस्तलपट्टस्य प + षोडशभिः पदैः ।
राजसेनं सार्धभागं वेदी कार्या द्विभागिका ॥
पदार्धमासनं सार्धपदं चन्द्रावलोकनम् ।
स्तम्भः सप्तपदो ( दैर्घ्यहार ? ) सार्धत्रिभागिकम् ॥
शीर्षं सार्धपदोत्सेधं पक्षस्तु द्विपदो भवेत् ।
त्रिपदं छाद्यकं कुर्याद् भागेनैकेन लम्बितम् ॥
द्विपदां छेदहारां तु (?) द्वयंशा वा सन्तु पट्टिकाः ।
तदूर्ध्वं मञ्जरीं कुर्याद् द्राविडक्रमभूषितम् ॥
सप्तोच्छ्रितं कोणकूटं सघण्टाकलशाण्डकम् ।
द्वितीयामेतदूर्ध्वं च तन्मानेनैव कारयेत् ॥
१ 'दैर्घ्याद्धारं' इति स्यात् ।
वा. ४८
- द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥
कर्णे कर्णं समाश्रित्य षट्पदानि तु कारयेत् ।
(षेष्ठाण्डके ?) द्वे कुर्वीत ष( डंश ? डण्ड )कचतुष्टयम् ॥
एवं कर्णाण्डकानि स्युश्चत्वारिंशत् समासतः ।
द्वादशांशकविस्तारमुच्छ्रायान्नवभागिकम् ॥
आद्यक्रमे विजानीयाद् द्राविडाभक्रियान्वितम् ।
अष्टाण्डकं समुत्सेधाद् विस्ताराद् दशभागिकम् ।१
भद्रक्रमं द्वितीयं तु विद्यात् कर्मविभूषितम् ।
विस्तारो मूलमञ्जर्या द्वाविंशत्यंशसंमितः ॥
त्रयोविंशतिरुच्छ्रायः स्कन्धाश्चैव त्रयोदश ।
ग्रीवा पट्ट( द )द्वयोत्सेधात् त्रिपदोन्नतमण्डकम् ॥
कर्परं द्विपदं भागचतुष्कं कलशोच्छ्रयः ।
प्रासादा( दे )द्वादशैतस्मिन्नुरोमञ्जरिका मताः ॥
अण्डकानां तु विज्ञेयं त्रिसप्तत्यधिकं मतम् ।
त्रैलोक्यभूषणं कृत्वा त्रिदशानन्दकारकम् ॥
कल्पान्तं यावदध्यास्ते पुरुषस्त्रिदशालयम् ।
त्रैलोक्यभूषणः ॥
प्रासादमथ पद्माख्यं कथयामोऽश्विनोः प्रियम् ॥
चतुरश्रीकृते क्षेत्रे सप्तभागविभाजिते ।
त्रीन् भागान् मध्यमे त्यक्त्वा द्वौ (द्वौ) कोणेषु लाञ्छयेत् ॥
( सा द्वयेद्भूभि ? )रष्टाँ च पश्चादपि च षोडश ।
विस्तारार्धेन गर्भः स्याद् विस्तारार्धं तथा बहिः ॥
ऊर्ध्वमानमथ ब्रूमः पद्माख्यस्य यथाक्रमम् ।
विस्ताराद् द्विगुणोत्सेधं भागविंशतिभाजितम् ॥
वेदी जङ्घा तथैतस्मिन् कार्या मालाथ मञ्जरी ।
ग्रीवाण्डकलशाश्चेह शङ्खवर्धनवर्त्मना ॥
१ 'अष्टाण्डके' इति पाठ्यं भाति ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७९
पद्माख्यः कारितो येन प्रासादो दश(स्र)वल्लभः ।
आत्मा समुद्धृतस्तेन पापपङ्कमहोदधेः ॥
पद्माख्यः ॥
पक्षबाहुमथ ब्रूमः प्रासादं कुलनन्दनम् ।
सर्वरोगहरं पुण्यं सर्वलोकक्षणं भवं( ? ) ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
अष्टभागायतं गर्भं कुर्याद् भित्तिर्द्विभागिका ॥
द्विपदं कारयेत् कर्णं भागार्धमुदकान्तरम् ।
प्रत्यङ्गं सार्धभागे सा(स्यात्) शाला चैव चतुष्पदा ॥
निष्क्राममु(उ)भयोर्भागाद् भागार्धेन पृथक् पृथक् ।
कर्तव्या(व्यौ) पक्षयोर्बाहू विस्तारेष्व(णा)ष्टभागिकौ ॥
चतुष्पदस्तयोगर्भो द्विपदा भित्तिविस्तृतिः ।
चतुर्भागं भवेद् भद्रं कोणश्चैव द्विभागिकः ॥
ऊर्ध्वमानमथ ब्रूमश्चतुर्विंशतिभागिकम् ।
त्रिपदो वेदिकाबन्धो जङ्घा पञ्चपदोन्नता ॥
द्वौ भागौ कलशः कार्यों द्वौ भागौ चन्द्रिकाण्डकम् ।
मध्ये तु मञ्जरी कार्या घण्टाबध(बद्धा) च पार्श्वयोः ॥
पक्षबाहुः कृतो येन त्रिगर्भः कर्मभूषितः ।
स त्रिनेत्रप्रतापः स्याच्च(त्) तुरङ्गव्रातनायकः ॥
पक्षबाहुः ॥
विशालं सम्प्रवक्ष्यामि विशालैरन्वितं गुणैः ।
दयितं कृत्तिकासूनोः पूजितं गणकिन्नरैः ॥
क्षेत्रे(त्रे) दशांशं कुर्वीत षड्भागा मध्यमञ्जरी ।
भागिक्यो भित्तयः कार्या भ्रमन्त्यभि(न्त्योऽपि) तथाविधाः ॥
भागद्वयं भवेत् कर्णो वारिमार्गेण संयुतः ।
पदेन तिलकं कुर्याद् भागार्धेन विनिर्गतम् ॥
३८० समराङ्गणसूत्रधारे
आयामनिर्गमा(मौ) चास्य चतुर्भागा चतुष्किका ।
चतुष्पदो मध्यगर्भो(र्भः) चतुर्द्वारस्य शस्यते ॥
विस्ताराद् द्विगुणोच्छ्रायन्यू(यमू)र्ध्वमानं विधीयते ।
विदध्याद् वेदिकाबन्धं सार्धभागय(गेन) संमितम् ॥
सार्धैश्चतुर्भिः कुर्वीत भागैर्जङ्घोच्छ्रितिं बुधः ।
मालामन्तरपत्रं च भागेनैकेन कारयेत् ॥
सार्धद्विभागिकं शृङ्गं कलशाण्डकसंयुतम् ।
तस्यार्धमपरं शृङ्गं तावन्मानं विधीयते ॥
षड्भागविस्तृतां जङ्घामन्तर्या भागसप्तकम् ।
तद्विस्तारदशांशै(शै)स्यात् षड्भिः स्कन्धस्य विस्तृतिः ॥
ग्रीवायास्तु विधातव्या पदस्यार्धं समुन्नतिः ।
भागेनाण्डकमुच्छ्रायो भागेनार्धेतु(न) चन्द्रिका ॥
द्विपदं कलशं कुर्यात् समसूत्रं सुशोभनम् ।
प्रासादोऽयं विशालः स्यादेवं सप्तदशाण्डकम् ॥
यः करोति स लोकेऽस्मिन्(+ रं) नागाधिपो भवेत् ।
लभते च बहून् कामान् देहान्ते चोत्तमं पदम् ॥
विशालः ॥
ब्रूमोऽथ लक्ष्म(क्ष्मी)दयितं प्रासादं कमलोद्भवम् ।
सिद्धगन्धर्वसहितं स्कन्दो यत्र व्यवस्थितः ॥
चतुरश्रं समं क्षेत्रं भुवि दिक्षु विदिक्षु च ।
कृत्वा वृत्तं समालिख्य भागैर्द्वात्रिंशता भत्रे(जे)त् ॥
भागौ द्वौ द्वौ ततः कुर्यादेकैकां दलपङ्क्तिकाम् ।
कर्णं षोडशभिः का(कु)र्यादम्भोजसदृशाकृतिः(म्) ॥
पञ्चभिर्भाजिते सीम्नि गर्भो भागत्रयं भवेत् :
अधस्तादा(सँमत्त स्यात् ?) पद्मपीठं प्रकल्पयेत् ॥
१ 'नरो' इति स्यात् । २ 'सनं तस्य' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८१
कृत्वा (१द्विगुणमूर्ध्वानर्द्विंशत्या ? ) प्रविभाजयेत् ।
तुलोदयोऽथ भागः स्याद् द्वादशांशा च मञ्जरी ॥
वेदी जङ्घा च माला च स्याद् यथा शङ्खवर्धने ।
तदूर्ध्वं पद्मकूटानि(दि ) चोन्नत्तं पद्मपत्रवत् ॥
भूमिका( : ) पञ्च कर्तव्या( : ) पदहीना य(य)थोत्तरम् ।
देवि(वेदि)का तस्य कर्तव्या विकासिशतपत्रवत् ॥
पादोनभागो ग्रीवा च सपादं पदमण्डकम् ।
चन्द्रिका चैव भागेन विकासिकमलाकृतिः ॥
द्विपदं कलशं कुर्यात् साब्जपत्रं सपल्लवम् ।
आरोग्यं स्यात् पुरोदेशे कारिते कमलोद्भवे ॥
आयुःश्रीवृद्धिपुत्राः स्युरपयानां( ? ) च संशय्या ।
कमलोद्भवः ।
हंसध्वजमथ ब्रूमो हंसक्रीडाविभूषितम् ॥
सेवितं सुरसङ्घेन वल्लभं पद्मजन्मनः ।
विभज्य दशधा क्षेत्रमारभ्य ब्रह्मणः पदात् ॥
आदाय पार्श्वयोर्भागांस्त्रींस्त्रीन् वृत्तं प्रकल्पयेत् ।
एवं गर्भो विधातव्यइच्छावस्य ( जगतालुभिः ? ) ॥
द्विपदा बाह्यतो भित्तिः कर्णः कार्यो द्विभागिकः ।
भद्रं पञ्चपदं कार्यं पदार्धमुदकान्तरम् ॥
द्वौ भागौ निर्गतं भद्रं स्तम्भद्वयसमन्वितम् ।
मध्ये तु च्छादकं कुर्याद् २वातोच्छ्रायं( ? ) द्विविस्तृतम् ॥
कुर्याद् भागं सविस्तारं तोरणं चतुरुन्नतम् ।
वरालमकरैर्युक्तं स्तम्भेषु स्यात् तथेल्लिकाः ॥
पुरस्तान्मण्डपं प्राज्ञो रचाय(रचये)न्मानपूर्वकम् ।
ऊर्ध्वमानमथ ब्रूमः सूत्रं स्याद् भागविंशतिः ॥
१ ‘द्विगुणमूर्ध्वं तद्विंशत्या' इति पठनीयं स्यात् । २ ‘भागोच्छ्रायम्' इति स्यात् ।
३८२ समराङ्गणसूत्रधारे
मेखलावेदिकाजङ्घाः शङ्खवर्धनवन्मताः ।
कर्तव्याः कर्णरथिकास्त्रिपदाः कलशान्विताः ॥
चतुष्किका पञ्चपदा वराटीघटयान्विता ।
कार्या कलशसंयुक्ता विस्तारोच्छ्राययोः समा ॥
काँणशृङ्गोर्ध्वयः(?) कुर्यादष्टांशां मूलमञ्जरीम् ।
उच्छ्रिता नवभिर्भागैः पञ्चभौमास्तु संवृताः ॥
प्रथमा द्विपदा भूमिर्हेमकूटक्रियोपमा ।
अन्यास्तु पदपादार्धहीनाः कार्या यथोत्तरम् ॥
मेहारत्नपुनः(?) कार्यों भूमिकापरिवर्तने ।
भागेन वेदिकोच्छ्रायः स्कन्धस्तु शतवास्तुवत् ॥
ग्रीवाण्डकसमुत्सेधं विदधीत पदद्वयम् ।
अण्डके वर्तना कार्या कङ्कतीफलसन्निभा ॥
चन्द्रिका भागमेकं च द्वौ भागौ चेत् + + + + ।
हंसध्वजः कृतो येन वल्लभः पद्मजन्मनः ॥
स याति विविधैर्यानैर्देहान्ते वसु + गतिम् ।
हंसध्वजः ॥
अथ लक्ष्मीधरं ब्रूमो यं कृत्वा विजयं नरः ॥
राज्यमायुष्यपूजा च गुणानाप्नोति चैश्वरान् ।
चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ॥
कर्तव्यः षट्पदः कन्दो गर्भसूत्रचतुष्पदः ।
चतुसृष्वपि दिक्षु स्यात् त्रिभिर्भागैर्भ्रमन्तिका ॥
द्विपदा बाह्यभित्तिः स्याच्छुभा कार्या चतुर्दिशम् ।
कर्णेषु शृङ्गमेकैकं द्वे द्वे शृङ्गे तु मध्यगे ॥
द्व्यंशानि तानि विस्ताराद् दशशृङ्गाणि दिक्प्रयेत्(क्त्रये) ।
षट्शालाश्च विधातव्याः शुभा दिक्षु तिसृष्वपि ॥
१ 'कर्णशृङ्गोर्ध्वतः' इति पाठ्यं भाति । २ 'महान् यत्नः पुनः' इति स्यात् ।
मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ३८३
याम्येन (च) चतुर्भागा भागद्वितयनिर्गताः ।
तलच्छन्दोऽयमुद्दिष्टो मण्डपः पुरतो भवेत् ॥
विस्ताराद् द्विगुणा सासः (णो यामः)प्रासादस्यास्य चोच्छ्रयः ।
स्यात् त्रयोदशभागोऽत्र प्रमाणेन तुलोदयः ॥
ऊर्ध्वं च विंशतिपदं वेदीबन्ध(:) पदत्रयम् ।
उत्सेधात् षट्पदा जङ्घा भागेन भरणं भवेत् ॥
भागैस्त्रिभिर्मेखले द्वे शृङ्गं च कलशं त्रिभिः ।
उच्छ्रयेण विधातव्यः सिंहकर्णच(श्च)तुष्पदः ॥
दश शृङ्गाणि कुर्वीत घण्टा(पकं ?)च विक्र(दिक्त्र)ये ।
चतुर्दशांशविस्तारा पञ्चगा( ?) मूलमञ्जरी ॥
ऊर्ध्वं सप्तदशांशा च ग्रीवोच्छ्रायः पदद्वयम् ।
अण्डकं द्विपदं कार्यं भागेनैकेन कर्परम् ॥
कलशं त्रिपदं मूर्ध्नि वर्तयेत् सुमनोरमम् ।
लक्ष्मीधराख्यं प्रासादं यः कुर्याद् वसुधातले ॥
अक्षये स पदे तत्त्वे लीयते नात्र संशयः ।
लक्ष्मीधरः ॥
महावज्रमथ ब्रूमः प्र(प्रे)त्य पापहरं शुभम् ॥
प्रासादे कारये(रिते) यत्र सुरेन्द्रः परितुष्यति ।
अष्टौ हस्तान् कनीयान् स्यान्मध्यो द्वादश मानतः ॥
उत्तमः षोडश प्रोक्तस्त्रिधैवं करसंख्यया ।
खविस्तारस्य सूत्रेण(++ क्षेत्र)मालिख्य वर्तुलम् ॥
कोणेषु लाञ्छितं कृत्वा भागैः षट्त्रिंशता भजेत् ।
द्विपदाः कर्णिकाश्चेह कार्या द्वादशसंख्यया ॥
कर्णिकाद्वयमध्ये तु स्तम्भो भागे च वर्तुलः ।
शतपत्राकृतिः कार्या द्वौ भागौ मूर्धमानतः ॥
अधस्तान्मेखलायाश्च कमलोद्भववद् भवेत् ।
स्तम्भयेत् कर्णिकामध्ये तेषु कूटानि कारयेत् ॥
३८४ समराङ्गणसूत्रधारे
कुर्यादालेखमुपरि कर्णिकायाः सुशोभनम् ।
कर्तव्या भूमयः पञ्च क्रमेणायतयान्विता (?) ॥
स्याद् भागार्धोदया ग्रीवा विस्तारेण चतुष्पदा ।
अण्डकं सार्धभागेन विधातव्यं सकर्परम् ॥
भागद्वयं तु कलशः शृङ्गकर्णैः सपल्लवैः ।
यः करोति महावज्रं प्रासादं पुरभूषणम् ॥
तुष्टो दिवि सदाम्पत्यो रमते सोऽप्सरोगणैः ।
महावज्रः ॥
रतिदेहमथ ब्रूमः प्रासादं सुमनोरमम् ॥
अप्सरोगणसंकीर्णं कामदेवस्य मन्दिरम् ।
अष्टभागीकृते क्षेत्रे समभागे समायंते ॥
द्विपदं कर्णकूटं स्याद् वारिमार्गसमन्वितम् ।
अलिन्दस्य चतुर्भागा विस्तारायामतः समाः ॥
भागिकी बाह्यभित्तिस्तु शेषं गर्भं प्रकल्पयेत् ।
मध्ये चतुष्किका कार्या यत्र स्तम्भाः सुशोभनाः ॥
नेकरका त्रिवक्त्रैश्च हस्ते सर्वैः सपत्रकैः (?) ।
पल्लवैर्नागबन्धैश्च सालभञ्जिभिरन्विताः ॥
खेल्लिका तत्र कर्तव्या मकरास्यविनिर्गता ।
चत्वारो बाह्यतोऽलिन्दाः स्तम्भद्वितयभूकुलम् (?) ॥
सदृशं प्रथमं कार्यं भवनं कर्मयुक्तिमत् ।
द्वितीयं भवनं कार्यं बाह्यालिङ्क(न्द)विवर्जितम् ॥
शेषं कर्म तथा कार्यं प्रथमायां यथा (भवति?) ।
तृतीयायां पुनः कार्या चतुःस्तम्भा चतुष्किका ॥
खेलिकातोरणन्यस्ता( ः ) संमुखाश्च वरालकाः ।
स्तम्भानां कुटकन् पूर्वान् सिंहकर्ण(र्णा)श्चमध्यतः ॥
म(ध्य?)लुच्छाद्यानि(वायार्धं?) भागोच्छायान्यनुक्रमात् ।
त्रीणि कुर्वीत युक्तानि शुभैरन्तरपत्रकैः ॥
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९
घण्टां च भागिनीं कुर्यादूर्ध्व(र्ध्वे)नामलसारकीम् ।
चन्द्रिकां भागपादेन द्विभागां कलशोच्छ्रितिम् ॥
एवंविधं यः कुरुते प्रासादं रतिवल्लभम् ।
सन्तोषयति कन्दर्पं स्याज्जनेषु स पुण्यभाक् ॥
रतिदेहः ॥
सिद्धिकाममथ ब्रूमः प्रमथैरुपशोभितम् ।
धनपुत्रकलत्राणि कृते यत्राप्नुयान्नरः ॥
चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।
गर्भं द्विभागं कुर्वीत भित्तिर्भा(भा)गेन शोभनम् ॥
भद्रं द्विभागविस्तारं भागेनैकेन निर्गतम् ।
कर्णमेकेन भागेन कुर्यात् प्रतिदिशं बुधः ॥
अस्योर्ध्वं द्विगुणं कुर्यात् षष्ठभागविभाजितम् ।
भागे च वेदिकाबन्धं जङ्घा सार्धपदोन्नता ॥
मेखलान्तरद्र(प)त्रे च पादहीनं पदं मते ।
स्यादुच्छितीश्चामा(?) जङ्घा पादोनं पदपञ्चकम् ॥
त्रिभागविस्तृता ग्रीवा भागपादसमुच्छ्रिता ।
पदार्धमण्डकं प्राहुः पदपादेन चण्डिकाम् (?)॥
भागस्यार्धेन कलशसमुच्छ्रायो मतः समः ।
+++गुणसूत्रास्या द्वितीयाः पञ्चभूतिकाः(?) ॥
यः सिद्धिकामं कुरुते सर्वपापविमोचनम् ।
सर्वेऽस्य कामाः सिध्यन्ति ये केचिन्मनसि स्थिताः ॥
सिद्धिकामः ॥
अथाभिधीयतेऽस्माभिः प्रासादः पञ्चचामरः ।
यो भक्त्या कारयत्येनं स चिरं दिवि मोदते ॥
भक्ते द्वादशभिः क्षेत्रे चतुरश्रे समन्ततः ।
चतुर्भागे भवेद् गर्भो भित्तिं भागेन कल्पयेत् ॥
वा. ४९
३८६ समराङ्गणसूत्रधारे
अन्धारिका तु भागौ द्वौ बाह्यभित्तिस्तु भागिकी ।
त्रि(भि)र्भागैर्विनिष्क्रान्तं तेषु कार्याश्चतुष्किकाः ॥
द्विगुणं कथिते(तं) चोर्ध्वमानं घण्टाण्डकान्वितम् ।
प्रमाणेन विधातव्यो दश भागास्तुलोदयः ॥
त्रिपदो वेदिकाबन्धो जङ्घा स्यात् + षडंशकः ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
पदत्रयेण (सादूर्ध्वं शृङ्गं कलश चाण्डकम् ?) ।
शिखरा विंशतिः कार्याः सम्भित्ताः (संभिन्नाः) सर्वमण्डपैः ॥
शृङ्गादधो विधातव्या(व्यं) मल्लच्छाद्यं मनोहरम् ।
एवं सर्वचतुष्केषु मल्लच्छाद्यानि कारयेत् ॥
छाद्यकैः पञ्चभिः कार्यों मध्ये प्रासादनायकः ।
घटिकानां समुच्छ्रायः सपादं पदमिष्यते ॥
घण्टायाः सार्धभागेन ग्रीवायाश्च पदादि(धि)का ।
कर्त्तव्यामलसारी तु (पादोनांशायखण्डिकाम् ?) ॥
द्विपदः कलशः कार्यों बीजस्वरसमन्वितः ।
पञ्चघण्टावृतं कृत्वा विमाना(नं) पञ्चचामरम् ॥
(अतीतविस्त्वयान् सर्वान् लोकः प्राप्नोति सम्भव ?) ।
पञ्चचामरः ॥
नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम् ॥
य एनं भक्तितः कुर्यात् स भवेदजरामरः ।
चतुरश्रे समे क्षेत्रे चतुर्भागविभाजिते ॥
भद्रं द्विभागविस्तारं कुर्याद् भागविनिर्गमम् ।
भित्तिरत्र न कर्तव्या दिशि कस्यामपि ध्रुवम् ॥
कुर्वीत राजसेनं तु वेदिचन्द्रावलोकनम् ।
दिक्षु क्रमोऽयं सर्वासु त्यक्त्वा मार्गचतुष्टयम् ॥
१ 'स्यादूर्ध्वं शृङ्गं सकलशाण्डकम्' इति स्यात् ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८७
विस्तारसदृशोच्छाया कर्तव्या पूर्वभूमिका ।
वक्ष्यमाणैर्विभागैश्च विप्रभज्यासणाः + + (?) ॥
भागेन राजसेनं स्याद् वेदिर्भागद्वयेन च ।
भागेन चन्द्रालोकः स्यादर्धेनासनपट्टकः ॥
स्तम्भोच्छ्रायस्त्रिभिर्भागैस्ततो भागेन शीर्षकम् ।
पट्टोच्छ्रायो भागमेकं स्याच्चतुर्विंशतिर्धराः ॥
नानासङ्गैः पल्लवैश्च चारुकर्मकराननैः ।
द्वितीया भूमिका कार्या स्तम्भैः षोडशभिर्युता ॥
एवं भूमौ द्वितीयायामपि कर्म विधीयते ।
स्तम्भैश्चतुर्भिः संयुक्ता तृतीयायां चतुर्धि(ष्कि)का ॥
नन्दिघोषः कृतो येन (मूर्यं तेजो ?) स जायते ।
कर्मक्षया तुतुं (त् तनुं) त्यक्त्वा प्राप्नोति परमं पदम् ॥
नन्दिघोषः ॥
प्रासादमभिधास्यामो मनूत्कीर्णं महाद्यु(द्भु)तम् ।
विमृश्य बुद्ध्या निपुणं निर्मितं प्राक् स्वयम्भुवा ॥
क्षेत्रे षड्भागविस्तारे गर्भे(र्भं) भागचतुष्टये ।
कुर्वीत वृत्तं मध्ये च नवभिर्वृत्तिमालिका( ? ) ॥
अष्टौ ( च ) रथिकाः कार्याः क्षेत्रे दिक्षु विदिक्षु वा ।
ऊर्ध्वमानमथ ब्रूमो द्विगुणं द्विपदान्वितम् ॥
(छाद्ययावद्विधातव्या तत्सार्धार्ङ्गकपञ्चकम् ?) ।
भागानष्टार्धसहितान् कुर्यादूर्ध्वं तुलोदयात् ॥
सार्धभागेन कर्तव्यो वेदीबन्धश्च शोभनः ।
भागद्वयं ततः सार्धं कार्या जङ्घासमुच्छ्रितिः ॥
भागार्ध हीरकं कुर्यान्मनोज्ञं कर्ति(र्णि)कान्वितम् ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
१ 'सूर्यतेजाः' इति स्यात् ।
३८८ समराङ्गणसूत्रधारे।
शृङ्गोच्छ्रायस्ततः कार्यः सार्धभागद्वयोन्मितः ।
मध्येन सर्वशृङ्गाणां मस्तके वृत्तमालिखेत् ॥
षड्भागविस्तृतं तस्य + षड्भागसमुच्छ्रितम् ।
यावन्मात्राचरेत्(वरे) प्रोक्ता तावत् कार्या च मञ्जरी ॥
त्रिभौमं पञ्चभौमं च विचित्रं कारये(दि)मम् ।
ग्रीवा स्याद् भागपादेन विस्ताराद् द्विपदायता ॥
पादहीनं पदं कुर्यादण्डकं मनुसंभवे(त् ?) ।
चन्द्रिका भागपादेन पादोनं कुशलः(कलशः) पदम् ॥
प्रासादं मनसाप्येवं १मनुकीर्तः(र्ण) करोति यः ।
स गंध्या (गत्वा) भवनं शम्भोर्गाणपत्यमवाप्नुयात् ॥
मानकीर्णः( ? ) ॥
अथ सुप्रभनामानं प्रासादमभिदध्महे ।
यं कृत्वा प्रभयान्येषां प्रभा हन्ति रविर्यथा ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
कुर्याच्चतुष्पदं गर्भं विस्तारो यामतः समः ॥
प्रासादार्थं भवेत् कन्दः कन्दभद्रं पदद्वयम् ।
भ्रमन्ती द्विपदा दिक्षु चतसृष्वपि शोभना ॥
पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ।
चतुष्पदं मध्यभद्रं विनिष्क्रान्तं त्रिभिः पदैः ॥
(२अस्यैर्वात) पुनः कार्या द्विपदा तु चतुष्किका ।
(३सोलायाः ? ) पार्श्वतः कुर्यादतिभद्रद्वयं बुधः ॥
तयोः पादेन निष्कासं पार्श्वयोरुभयोरपि ।
पार्श्वभद्रस्य कर्णस्य चान्तरं पदिके नयेत् ॥
जालैर्विचित्रितं कुर्यान्मध्ये ज्योतिर्यथा भवेत् ।
एवं दिक्षु समस्तासु कुर्वीतैनमनुक्रमात् ॥
१ 'मनूत्कीर्ण' इति पूर्वं व्यपदिष्टः । २ 'अस्यैवान्तः' इति स्यात् । ३ 'शालायाः'
इति स्यात् ।