समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 446, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ३८३
याम्येन (च) चतुर्भागा भागद्वितयनिर्गताः ।
तलच्छन्दोऽयमुद्दिष्टो मण्डपः पुरतो भवेत् ॥
विस्ताराद् द्विगुणा सासः (णो यामः)प्रासादस्यास्य चोच्छ्रयः ।
स्यात् त्रयोदशभागोऽत्र प्रमाणेन तुलोदयः ॥
ऊर्ध्वं च विंशतिपदं वेदीबन्ध(:) पदत्रयम् ।
उत्सेधात् षट्पदा जङ्घा भागेन भरणं भवेत् ॥
भागैस्त्रिभिर्मेखले द्वे शृङ्गं च कलशं त्रिभिः ।
उच्छ्रयेण विधातव्यः सिंहकर्णच(श्च)तुष्पदः ॥
दश शृङ्गाणि कुर्वीत घण्टा(पकं ?)च विक्र(दिक्त्र)ये ।
चतुर्दशांशविस्तारा पञ्चगा( ?) मूलमञ्जरी ॥
ऊर्ध्वं सप्तदशांशा च ग्रीवोच्छ्रायः पदद्वयम् ।
अण्डकं द्विपदं कार्यं भागेनैकेन कर्परम् ॥
कलशं त्रिपदं मूर्ध्नि वर्तयेत् सुमनोरमम् ।
लक्ष्मीधराख्यं प्रासादं यः कुर्याद् वसुधातले ॥
अक्षये स पदे तत्त्वे लीयते नात्र संशयः ।
लक्ष्मीधरः ॥
महावज्रमथ ब्रूमः प्र(प्रे)त्य पापहरं शुभम् ॥
प्रासादे कारये(रिते) यत्र सुरेन्द्रः परितुष्यति ।
अष्टौ हस्तान् कनीयान् स्यान्मध्यो द्वादश मानतः ॥
उत्तमः षोडश प्रोक्तस्त्रिधैवं करसंख्यया ।
खविस्तारस्य सूत्रेण(++ क्षेत्र)मालिख्य वर्तुलम् ॥
कोणेषु लाञ्छितं कृत्वा भागैः षट्त्रिंशता भजेत् ।
द्विपदाः कर्णिकाश्चेह कार्या द्वादशसंख्यया ॥
कर्णिकाद्वयमध्ये तु स्तम्भो भागे च वर्तुलः ।
शतपत्राकृतिः कार्या द्वौ भागौ मूर्धमानतः ॥
अधस्तान्मेखलायाश्च कमलोद्भववद् भवेत् ।
स्तम्भयेत् कर्णिकामध्ये तेषु कूटानि कारयेत् ॥