समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १७९
प्रेरितः सङ्गृहीतश्च जनितश्च समीरणः ।
आत्मनो बीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥ ४१ ॥
भूतमेकमिहोद्रिक्तमन्यद्धीनं¹ ततोऽधिकम् ।
अन्यद्धीनतरं चान्यदेवंप्रायै²र्विकल्पितैः ॥ ४२ ॥
नाना भेदा भवन्त्येषां कस्तान् कात्स्न्येन वक्ष्यति ।
निष्क्रिया भूः क्रिया त्वंशे शेषेषु सहजा³ त्रिषु ॥ ४३ ॥
अतः प्रायेण सा जन्या⁴ क्षितावेवं प्रयत्नतः ।
साध्यस्य रूपवशतः सन्निवेशो यतो भवेत् ॥ ४४ ॥
यन्त्राणामाकृतिस्तेन निर्णेतुं नैव शक्यते ।
यथावद्बीजसंयोगः सौश्लिष्टयं श्लक्ष्णतापि च ॥ ४५ ॥
अलक्षता निर्वहणं लघुत्वं शब्दहीनता ।
शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ॥ ४६ ॥
वहनीषु समस्तासु सौश्लिष्टयं चास्खलद्द्रुतिः ।
यथाभीष्टार्थकारित्वं लयताला³नुगामिता ॥ ४७ ॥
इष्टकालेऽर्थदर्शित्वं पुनः सम्यक्त्व संवृतिः ।
अनुल्बणत्वं ताद्रूप्यं दाढर्ये मसृणता तथा ॥ ४८ ॥
चिरकालसहत्वं च यन्त्रस्यैते गुणाः स्मृताः ।
एकं बहूनि चालयेद् बहुभिश्चाल्यतेऽपरम् ॥ ४९ ॥
सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः ।
अथ कर्माणि यैन्त्राणां विचित्राणि यथाविधि ॥ ५० ॥
न विस्तरान्न सङ्क्षेपात् साम्प्रतं संप्रचक्ष्महे ।
कस्यचित् सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥ ५१ ॥
शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शौ च कस्यचित् ।
क्रियास्तु¹³ कार्यस्य वशादनन्ताः परिकीर्तिताः ॥ ५२ ॥
१ द. ख. ॰मन्यब्दीजं । २ क. ॰यो विक॰ । ३ द. ख. ॰यं॰ । ४ द. ख. जान्याक्षिण
चेव । ५ ग. ॰ल्या । ६ ग. ॰तत् । ७ द. ख. ॰न्या॰ । ८ क. ॰नं॰ । ९ द. ख. च तद्रूपं
दाढर्यं । १० द. ख. विकराल॰ । ११ द. ग॰ । १२ द. ख. ग. तथाविधिः । १३ द. ख. ॰नु ।
१८० समराङ्गणसूत्रधारे
तीर्यग्दूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि ।
गमनं सरणं पात इति भेदाः क्रियोद्भवाः ॥ ५३ ॥
कालो मुहूर्तकाष्ठाद्यैर्भिन्नो भेदैरनेकधा ।
शब्दो विचित्रः सुखदो रतिकृद् भीषणस्तथा ॥ ५४ ॥
उच्छ्रायस्तु जलस्य स्यात् क्वचिद् भूजेऽपि शस्यते ।
गीतं नृत्यं च वाद्यं च पटहो वंश एव च ॥ ५५ ॥
वीणा च कांस्यतालश्च तृमिला करटापि च ।
यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ॥ ५६ ॥
समस्तमपि तद् यन्त्राज्जायते कल्पनावशात् ।
नृत्ये तु नाटकं चोक्ष¹स्ताण्डवं लास्यमेव च ॥ ५७ ॥
राजमार्गश्च देशी च यन्त्रात् सर्वं प्रसिध्यति ।
तथा ²जात्यनुगाश्चेष्टा विरुद्धा यास्तु³ जातितः ॥ ५८ ॥
ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात् ।
भूचराणां गतिर्व्योम्नि भूमौ व्योमचरागमः ॥ ५९ ॥
चेष्टितान्यपि मर्त्यानां तथा भूमिस्पृशामिव ।
जायन्ते यन्त्रनिर्माणाद् विविधानीप्सितानि च ॥ ६० ॥
यथासुरा जिता देवैर्यथा निर्मथितोऽम्बुधिः ।
हिरण्यकशिपुर्दैत्यो नृसिंहेन हतो⁴ यथा ॥ ६१ ॥
धावनं हस्तियुद्धं च गैजानामगडोऽपि च ।
नानाप्रकार(रा) या चेष्टा नानाधारागृहाणि च ॥ ६२ ॥
दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च ।
चित्रा सेन(ना) च कुथ्यश्च स्वयंवाहकसेवकाः ॥ ६३ ॥
सभाश्च विविधाकाराः सत्या मायाः प्रकल्पिताः ।
एवंप्रायाणि चान्यानि यन्त्रात् सिध्यन्ति कल्पनात् ॥ ६४ ॥
१ क. ॰क्ष्यं । २ द. ख. यां । ३ द. ख. ग. ॰श्च । ४ द. ख. कृतो । ५ द. ख.
राजनां । ६ क. त्रासने च ।
यन्त्रविधानं नामैकात्रिंशोऽध्यायः । १८१
विधाय भूमिकाः पञ्च शय्यां त्वादिसुवि स्थितां ।
प्रतिप्रहरमन्यासु सर्पन्ती याति पञ्चमीम् ॥ ६५ ॥
एवंप्रायाणि चित्राणि सम्यक् सिध्यन्ति यन्त्रतः ।
क्रमेण त्रिंशतावर्त्तं स्थाले दन्ता भ्रमन्त्यसौ ॥ ६६ ॥
तन्मध्ये पुत्रिका क्लृप्ता प्रति नाडिं प्रबोधयेत् ।
वह्नेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥ ६७ ॥
अवस्तुनोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा ।
निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ॥ ६८ ॥
क्षीरोदमध्यगा शय्या प्रतीष्ठाधः फणाभृता ।
गोलश्च सूति(चि)विहितः सूर्यादीनां प्रदक्षिणम् ॥ ६९ ॥
परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम् ।
गजादिरूपे रथिकरूपतां गमितः पुमान् ॥ ७० ॥
भ्रान्त्वा नाडिकया तस्याः पर्यन्ते हन्ति भो(यो)जनम् ।
दीपिकापुत्रिका क्लृप्ता क्षीणं क्षीणं प्रयच्छति ॥ ७१ ॥
दीपे तैलं प्रनृत्यन्ती तालगत्या प्रदक्षिणम् ।
यावत् प्रदीयते वारि तावत् पिबति सन्ततम् ॥ ७२ ॥
यन्त्रेण कल्पितो हस्ती न तद् गच्छत् प्रतीयते ।
शुकाद्याः पक्षिणः क्लृप्तास्तालस्यानुगमान्मुहुः ॥ ७३ ॥
जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च ।
पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥ ७४ ॥
वलनैर्वर्तनैर्नृत्यंस्तालेन हरते मनः ।
येनैव वर्त्मना क्षेत्रं ध्रियते तेन तत्पयः ॥ ७५ ॥
यात्यायाति पुनस्तद्वद् गर्तान् पुष्करिणीष्वपि ।
फलके कानि(?)तिष्ठन्ति धावन्त्यनुमतानि च ॥ ७६ ॥
१ क. ॰व्याकृत्वा॰ । २ क. ॰ता एवं॰ । ३ द. त्रिंशतोवर्त्ती; ख. ग. त्रिंशते वर्ती । ४ क.
॰तिं॰ । ५ क. ॰तिं॰ । ६ द. ख. ग. ॰ल्ले । ७ क. ॰मृज्यन्ती । ८ द. ख. प्रतिक्षणं । ९ क.
॰र्नं॰ । १० द. ख. वल॑नैर्वर्तनैर्नृत्यंतां । ११ द. ख. ॰र्तां पुं॰ ।
१८२ समराङ्गणसूत्रधारं
घातां(तं) ददति युध्यन्ते निर्यान्त्यशमनावृतम् ।
नृत्यन्ति गायन्ति तथा वंशादीन् वादयन्ति च ॥ ७७ ॥
निरुद्धमुक्तस्य वशान्मरुतो यन्त्रभङ्गिभिः ।
याश्चेष्टा दिव्यमानुष्यस्ता एवात्र न केवलम् ॥ ७८ ॥
दुष्करं यद्यदन्यच्च तत्तद् यन्त्रात् प्रसिध्यति ।
यन्त्राणां घटना नोक्ता गुप्त्यर्थं नाज्ञतावशात् ॥ ७९ ॥
तत्र हेतुरयं ज्ञेयो व्यक्ता नैते फलप्रदाः ।
कथितान्यत्र बीजानि यन्त्राणां घटनो न यत् ॥ ८० ॥
तस्माद् व्यक्तीकृतेष्वेषु न स्यात् स्वार्थो न कौतुकम् ।
वस्तुतः कथितं सर्वं बीजानामिह कीर्तनात् ॥ ८१ ॥
अभ्यूह्यं स्वधिया प्राज्ञैर्यन्त्राणां कर्म यद् यथा ।
यन्त्राणि यानि दृष्टानि कीर्तितान्यत्र तान्यपि ॥ ८२ ॥
नन्यानि यस्मात् तान्यर्तो विज्ञेयान्युपदेशतः ।
एतत् स्वबुद्धयैवास्माभिः समग्रमपि कल्पितम् ॥ ८३ ॥
अग्रतश्च पुनब्रूमः कथितं यत् पुरातनैः ।
बीजं चतुर्विधमिह प्रवदन्ति यन्त्रे-
ष्वाम्भोऽग्निभूमिपवनैर्निहितैर्यथावत् ।
प्रत्येकतो बहुविधं हि विभागBlock: स्या-
न्मिश्रैर्गुणैः पुनरिदं गणनामपास्येत् ॥ ८४ ॥
किमेतस्मादन्यद् भवति भुवने चित्रमपरं
किमन्यद् वा तुष्ट्यै भवति किमु वा कौतुककरम् ।
किमन्यद् वा कीर्तेर्भवनमपरं कामसदनं
किमस्मात् पुण्यं वा किमिव च परीतापशमनम् ॥ ८५ ॥
१ द. ख. न्ददामि । २ द. ख. ॰दीच्छादं । ३ द. ख. ॰त्मा॰ । ४ द. ख. ॰चे॰ ।
५ द. ख. टनेनत् । ६ क. ख. ॰नु । ७ द. ख. तानि च । ८ द. ख. तन्यतो । ९ क.
॰दितोऽस्मा॰ । १० द ख. ॰तः परं । ११ द. ख. ॰ग्निमूर्य्य॰ । १२ क. ॰हं॰ ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८३
एतेऽत्यर्थं प्रीतिदा बीजयोगाः संजायन्ते योजिताः सूत्रधारैः ।
भ्रान्त्या नान्यश्चित्रकृद् दारुक्लृप्तं चक्रं दोलाद्यं पुनः पञ्चमं तत् ॥८६॥
पारम्पर्यं कौशलं सोपदेशं शास्त्राभ्यासो वास्तुकर्मोद्यमो धीः ।
सामग्रीयं निर्मला यस्य सोऽस्मिंश्चित्राण्येवं वेत्ति यन्त्राणि कर्तुम् ॥८७॥
चित्रैर्युक्तं ये गुणैः पञ्चरूपं जानन्त्येनं यन्त्रशास्त्राधिकारम् ।
ये वा कृत्स्नं योजयन्तेऽत्र सम्यक् तेषां कीर्त्तिर्व्या भुवं चावृणोति ॥८८॥
अङ्गुलेन मितमङ्गलपादेनोच्छ्रितं द्विपुटंकं तनुवृत्तम् ।
संविधेयमृजु मध्यगरन्ध्रं श्लिष्टसन्धि दृढताम्रमयं तत् ॥ ८९ ॥
दारवेषु विहङ्गेषु तदन्तः क्षिप्तमुद्गतसमीरवशेन ।
आतनोति विचसन्मृदुशब्दं शृण्वतां भवति चित्रकरं च ॥ ९० ॥
सुश्लिष्टखण्डद्वितयेन कृत्वा सरन्ध्रमन्तर्मुरजानुकारम् ।
ग्रस्तं तथा कुण्डलयोर्युगेन मध्ये पुटं तस्य मृदु प्रदेयम् ॥ ९१ ॥
पूर्वोक्तयन्त्रे विधिनोदरेऽस्य क्षिप्तेऽथ शय्यातलसंस्थमेतत् ।
ध्वनिं ततः सञ्चलनादनङ्गक्रीडारसोल्लासकरं करोति ॥ ९२ ॥
अस्मिञ् शय्यातलविनिहिते मुञ्चति व्यक्तरागं
चित्राञ् शब्दान् मृगशिशुदृशां यान्ति(ति) भीत्येव मानः ।
किञ्चैतासां दयितमभितो निर्भरप्रेमभाजां
प्रौढिं गच्छन्त्यधिकमधिकं मन्मथक्रीडितानि ॥ ९३ ॥
पटहमुरजे वेणुः शङ्खो विपञ्च्यथ काहला
डमरुटिविले वाद्यातोद्यान्यमून्यखिलान्यपि ।
मधुरमधिकं यच्चित्रं च ध्वनिं विदधात्यलं
तदिह विधिना रुद्धोन्मुक्तानिलस्य विजृम्भितम् ॥ ९४ ॥
लघुदारुमयं महाविहङ्गं दृढसुश्लिष्टतनुं विधाय तस्य ।
उदरे रसयन्त्रमादधीतं ज्वलनाधारमधोऽस्य चाति(ग्नि)पूर्णम् ॥९५॥
१ क. °कृ°। २ द. ख. °मे°। ३ द. ख. °हं°। ४ द. ख. ग. °प्र°। ५ द. ख. ग.
°खेऽद्वि°। ६ क. स्फु°। ७ क. मे°। ८ द. ख. °नं°। ९ द. ख. रसयंत्र दधीत।
१८४ समराङ्गणसूत्रधारे
तत्रारूढः पूरुषस्तस्य पक्षद्वन्द्वोचालप्रोज्झितेनानिलेन ।
सुप्तैस्वान्तः पारदस्यास्यै शक्त्या चित्रं कुर्वन्नम्बरे याति दूरम् ॥९६॥
इत्थमेव सुरमन्दिरतुल्यं सञ्चलत्यल्लघु दारुविमानम् ।
आदधीत विधिना चतुरोऽन्तस्तस्य पारदभृतान् दृढकुम्भान् ॥९७॥
अयःकपालाहितमन्दवह्निप्रतप्तकुम्भभुवा गुणेन ।
व्योम्नो झगित्याभरणत्वमेति सन्तप्तगर्जद्रसराजशक्त्या ॥ ९८ ॥
वृत्तंसन्धितमथायसयन्त्रं तद् विधाय रसपूरितमन्तः ।
उच्चदेशविनिधापिततप्तं सिंहनादमुरजं विदधाति ॥ ९९ ॥
स कोऽप्यस्य स्फारः स्फुरति नरसिंहस्य महिमा
पुरस्ताद् यस्यैता मदजलमुचोऽपि द्विपघटाः ।
मुहुः श्रुत्वा श्रुत्वा निनदमपि गम्भीरविषमं
पलायन्ते भीतास्त्वरितमवधूयाङ्कुशमपि ॥ १०० ॥
दृग्ग्रीवातलहस्तप्रकोष्ठबाहूरुहस्तशाखादि ।
सचिच्छिद्रं वपुरखिलं तत्सन्धिषु खण्डशो घटयेत् ॥ १०१ ॥
श्लिष्टं कीलकविधिना दारुमयं सृष्टचर्मणा गुप्तम् ।
पुंसोऽथवा युवत्या रूपं कृत्वोतिरमणीयम् ॥ १०२ ॥
रन्ध्रगतैः प्रत्यङ्गं विधिना नाराचसङ्गतैः सूत्रैः ।
ग्रीवाचलनप्रसरणविकुञ्चनादीनि विदधाति ॥ १०३ ॥
करग्रहणताम्बूलप्रदानजलसेचनप्रमाणा(णामा)दि ।
आदर्शप्रतिलोकनवीणावाद्यादि च करोति ॥ १०४ ॥
एवमन्यदपि चेदृशमेतत् कर्म विस्मयविधायि विधत्ते ।
जृम्भितेन विधिना निजबुद्धेः कृष्टमुक्तगुणचक्रवशेन ॥ १०५ ॥
१ द. ख. ॰क्षि॰ । २ द. ख. ससं॰ । ३ द. ख. दः सास्य । ४ द. ख. संवरयं लं ।
५. द. ख. ॰तं । ६ द. ख. ग॰ । ७ द. ख. ग. ॰म॰ । ८ क. ॰प॰ । ९ द. ख. ॰नवमति॰ ।
१० द. ख. दृढग्री॰ । ११ द. ख. ॰बाहुबा॰ । १२ क. शोऽथ घ॰ । १३ द. ख. कीलकीलक-
पित्रान। १४ द. ख. ॰त्वे॰ । १५ द. ख. ॰वावलय॰ । १६ क. ॰नि । १७ क. ॰ध ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८९
पुंसो दारुजमूर्ध्वं^१ रूपं कृत्वा निकेतनद्वारि ।
तत्करयोजितदण्डं निरुणद्धि प्रविशतां वर्त्म ॥ १०६ ॥
खड्गहस्तमथ मुद्गरहस्तं कुन्तहस्त^२मथवा यदि तत् स्यात् ।
तन्निहन्ति विशतो निशि चौरान् द्वारि संवृतमुखं प्रसभेन ॥१०७॥
ये चापाद्या ये शतघ्न्यादयोऽस्मिन्नुष्ट्रग्रीवाद्याश्च दुर्गस्य गुप्त्यै ।
ये क्रीडाद्याः क्रीडनार्थं च राज्ञां सर्वेऽपि स्युर्योगतस्ते गुणानाम्॥१०८॥
इदानीं प्रक्रमायातं वारियन्त्रं प्रचक्ष्महे ।
क्रीडार्थं कार्यसिद्धयै च चतुर्धा तद्गतिं विदुः ॥ १०९ ॥
निम्नगं भवति द्रोणी^३देशादूर्ध्वस्थिताज्जलम् ।
यन्त्र तत् पातयन्त्रः^४ स्याद् वाटिका^५दिप्रयोजनम् ॥ ११० ॥
उच्च्छ्रायसमपाताख्यं यत्रोर्ध्वा नाडिका पयः ।
जलाधारगुणान्मुञ्चेदधस्तात् समनाडिका(कम्) ॥ १११ ॥
यन्त्रं^६ पातसमुच्छ्रायं पतित्वोच्छ्रायतो^७ जलम् ।
तिर्यग् गत्वा प्रयात्यूर्ध्वं सचिच्छ्रद्रस्तम्भयोगतः ॥ ११२ ॥
पतित्वोच्छ्रायतस्तोयं तिर्यगूर्ध्वोर्ध्वमेत्यथ ।
सचिच्छ्रद्रस्तम्भयोगेन तत् स्यात् पातसमोच्छ्रयम् ॥ ११३ ॥
वाप्यां वापि च कूपे विधानतो दीर्घिकादिका^८ विहिता ।
यत्रोर्ध्वमम्बु गमयति तदिहोच्छ्रयसंज्ञितं कथितम् ॥ ११४ ॥
दारुजमिभस्य रूपं यत् सलिलं पात्रसंस्थितं पिबति^१० ।
तन्माहात्म्यं निगदितमेतस्योच्छ्रायतुल्यस्य^९ ॥ ११५ ॥
सलिलं सुरङ्गे^११देशानीतं निम्नेन^१२ वर्त्मना दूरे ।
अद्भुतमम्भस्थानं तदिह समोच्छ्रायतः^१३ कुरुते ॥ ११६ ॥
धारागृहमेकं^१४ स्यात् प्रवर्षणाख्यं ततो द्वितीयं च ।
प्राणालं जलमग्नं^१५ नन्द्यावर्तं तथान्यदपि^१६ ॥ ११७ ॥
१ क. मूर्ध्नं । २ द. ख. कुम्भहं । ३ द. ख. ॰प्यां । ४ क. ॰दं । ५ ग. घा° ।
६ द. ख. ग. ॰न्त्र । ७ द. ख. पतितोच्च्छ्रयतोऽज्वलं । ८ द. ख. ॰प्यां वा कूपे वा पिधानतो दीर्घिका ।
९. द. ख. यं । १० द. ख. प्रियति । ११ द. ख. सुरंगं । १२ द. ख. ॰व ।
१३ क. ॰तं । १४ क. ॰वं । १५ क. ॰लनिमग्नं । १६ द. ख. ग. ॰वथान्य° ।
वा २४
१८६ समराङ्गणसूत्रधारे
प्राकृतजनार्थमेतन्न विधेयं योग्यमेतदवनिभुजाम् ।
मङ्गल्यानां सदनं दिव्यमिदं तुष्टिपुष्टिकारम् ॥ ११८ ॥
सलिलाशयस्य सविधे कस्याप्याश्रित्य शोभनं¹ देशम् ।
यन्त्रोत्सेधाद् द्विगुणा त्रिगुणा वा नाडिका कार्या ॥ ११९ ॥
जलनिर्वाहसहासावन्तर्मसृणा बहिश्च नीरन्ध्रा ।
निर्²व्यूहाम्भसि तस्यां शुभे मुहूर्ते गृहं कार्यम् ॥ १२० ॥
सर्वाभिरोषधीभिर्युक्तं सहिरणयपूर्णकुम्भैश्च ।
सुविचित्रगन्धमाल्यं विनादितं ब्रह्मघोषेण ॥ १२१ ॥
रत्नोद्भवैर्विचित्रैः स्तम्भैर्युक्तं हिरण्यघटितैर्वा³ ।
रजतोद्भवैः कदाचित् सुरदारुसमुद्भवैरथवा⁴ ॥ १२२ ॥
श्रीखण्डोत्थैरथवा सालकमुख्यप्रशस्तवृक्षोत्थैः ।
शतसङ्ख्यैर्द्वात्रिंशत्सङ्ख्यैैर्यदि वापि षोडशभिः ॥ १२३ ॥
अथवा चतुस्समन्वितविंशतिसङ्ख्यैर्दिनेशसङ्ख्यैर्वा ।
भूषितमतिरमणीयैश्चतुर्भिरपि वा विधातव्यम् ॥ १२४ ॥
प्राग्ग्रीवै⁵रतिचित्रैः शैलैर्जालैर्विभूषितं विविधैः ।
वेदीभिः परिकरितं कपोतपालीभिरभिरामम् ॥ १२५ ॥
रमणीयसालभञ्जिकमनेकविधयन्त्रशकुनिकृतशोभम् ।
मिथुनैश्च वानराणां जम्भकनिवहैश्च नैकविधैः ॥ १२६ ॥
विद्याधरसिद्धभुजङ्गकिन्नरैश्चारणैश्च रमणीयम् ।
नृत्यद्भिः परमग(गु)णैः शिखण्डिभिर्मण्डितोद्देशम् ॥ १२७ ॥
कल्पतरुभिर्विचित्रैश्चित्रलतावल्लिगुल्मसंछन्नम् ।
परपुष्टषट्पदालिमरालमालामनोहारि ॥ १२८ ॥
प्रवहत्सङ्कलस्रोतःसुश्लिष्टनिविष्टनाडिकं मध्ये ।
सच्छिद्रनाडिकयुतं नानाविधरूपरमणीयम् ॥ १२९ ॥
१ द. ख. शासनं । २ क. ॰गृहं । ३ द. ख. ॰गदितै° । ४ द. ख. स्व° ।
५ द. ख. प्राग्जीवै° । ६ द. ख. ग. मरालयाली° । ७ द. ख. ॰हदाकं ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८४
सुश्लिष्टनाडिकाग्रे स्तम्भतुलाभित्तिसंश्रिते परितः ।
सम्यक् कृत्वा दृढतरविलेपनं वज्रलेपाद्यैः ॥ १३० ॥
लाक्षासर्जरसहषन्मेषविषाणोत्थचूर्णसंमिश्रम् ।
अतसीकरञ्जतैलप्रविगाढो वज्रलेपः स्यात् ॥ १३१ ॥
दृढसन्धिवन्धहेतोः स तत्र देयो द्विशः कदाचिद् वा ।
शणवल्क्लश्लेष्मातकसिक्थकतैलैः प्रलेपश्च ॥ १३२ ॥
उच्च्छ्रययन्त्रेणैतद् भ्रान्तजलेनाथ तदभितः कृत्वा ।
चित्रानुपायुक्तं प्रदर्शयेन्नृपतये स्थपतिः ॥ १३३ ॥
कार्याण्यस्मिन् करिणां मिथुनान्यभिनोऽम्बुकेलियुक्तानि ।
अन्योन्यपुष्करोज्झितसीकरभयपिहितनयनानि ॥ १३४ ॥
वर्षानुकृतं चास्मिन् प्रीतिमति प्रतिमङ्कजो वीक्ष्य ।
दृक्कटमेहनहस्तैर्मदमिव मुञ्चज् जलं कार्यः ॥ १३५ ॥
स्तनयोर्युगेन सृजती जलधारे तत्र कापि कार्या स्त्री ।
आनन्दाश्रुलवानिव सलिलकणान् पक्ष्मभिः काचित् ॥ १३६ ॥
नाभिहृदनदिकामिव विनिर्गतां क्वापि बिभ्रती धाराम् ।
काप्यङ्गुलिनखांशुभिरिव योषित् सिञ्चती कार्या ॥ १३७ ॥
एवम्प्रायांश्चित्रान् स्वभावचेष्टान् बहूश्च रमणीयान् ।
क्षोभान् विधाय कुर्यादाश्चर्यं नरपतेः स्थपतिः ॥ १३८ ॥
मध्ये तस्य विधेयं सिंहासनममलहेममणिघटितम् ।
तत्रासीदेन्नरपतिरवनिपतिः श्रीपतिर्देवः ॥ १३९ ॥
स्नायात् कदाचिदस्मिन् मङ्गलगीतैर्विवर्धितानन्दः ।
वादित्रनाट्यनिपुणैर्निषेव्यमाणः सुरेन्द्र इव ॥ १४० ॥
य एतस्मिन् गाढग्लपितघनघर्मव्यतिकरे
९शुचौ धाराधाम्नि स्फुटसलिलधारे नरपतिः ।
१ द. सम्यग्दृढतर सवि°; ख. सम्यग्दृढतरतस्यरसवि° । २ द. ख. क. ग. ट्कः । ३ द. ख.
एतदुच्छ्रययंत्रेण; क. यतदुच्छ्रयसतत्रयन्त्रिण । ४ द. ख. ग. °प्ति°; क. °च्छि° । ५ द. ख. यश्चितान् ;
क. °यश्चित्रान् । ६ क. °ष्टा बह्वश्च । ७ क. °न् । ८ द. म्व. °दाचार्य । ९ द. म्व. °मर्म° । १० सुरैः ।
१८८ समराङ्गणसूत्रधारे
सुखेनास्ते पश्यन् विविधजलशिल्पानि स भवे-
न्न मर्त्यः किन्त्वेष क्षितिकृतनिवासः सुरपतिः ॥ १४१ ॥
जलदकुलाष्टकयुक्तं पूर्ववदन्यद् गृहं समारचयेत् ।
वर्षद्वारानिकरैः प्रवर्षणाख्यां तदाप्नोति ॥ १४२ ॥
प्रतिकुलमस्मिन् कार्या दिव्यलङ्कारधारिणः पुरुषाः ।
विधिना त्रयः सुरूपाश्चत्वारः सप्त वा सुदृढाः ॥ १४३ ॥
यन्त्रेण समोच्छ्रायेण तांश्चतुर्थेन वा ततः पुरुषान् ।
कृत्वा सवक्रनालानम्भोभिः पूरयेद् विमलैः ॥ १४४ ॥
सलिलप्रवेशरन्ध्राण्यखिलानि विधाय तत्र पुरुषाणाम् ।
अङ्गानि वारिमोक्षणयखिलान्यथ मोचयेत् तेषाम् ॥ १४५ ॥
सलिलं सवक्रनालं द्वारप्रतिरोधमोचनैः पुरुषाः ।
मुञ्चन्ति स्वेच्छममी विचित्रपातेन चित्रकरम् ॥ १४६ ॥
इत्थमिमान् वारिधरान् सामस्या(स्त्या)द् द्वयन्तरेण वा सलिलम् ।
त्र्यन्तरतो वा स्वेच्छं प्रवर्षयेदतिमहच्चित्रम् ॥ १४७ ॥
इदं नानाकारं कुलभवनमाद्यं रतिपते-
र्निवासाँश्चित्राणामनुकरणमेकं जलमुचाम् ।
पयःपातैर्ग्रीष्मे रविकरपरीतापशमनं
न केषामत्यर्थं भवति नयनानन्दजननम् ॥ १४८ ॥
एकेनाथ चतुर्भिः स्तम्भैरष्टभिरथार्कसङ्ख्यैर्वा ।
षोडशभिर्वा कुर्यान्मनोहरं गृहमिह द्वितलम् ॥ १४९ ॥
भद्रैर्युक्तं चतुर्भिश्चतुरश्रं सर्वभित्तिसंयुक्तम् ।
ईलीतोरणयुक्तं कर्तव्यं पुष्पकाकारम् ॥ १५० ॥
तस्योपरि मध्यगता प्राङ्गणवापी दृढा विधातव्या ।
शतपत्रविहितभूषा तन्मध्ये कर्णिका कार्या ॥ १५१ ॥
१ क. ॰नं॰ । २ द. ख. मत्यर्थः । ३ क. ॰र्षाधा॰ ४ द. ख. स्व॰ । ५ द. ख. मंत्रेण ।
६ द. ख. ॰चिरं॰ । ७ द. ख. निर्वांस्य । ८ द. ख. पयः पाते ग्रीष्मं रति॰ । ९ द. ख. ॰त्ति निर्युक्तं ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८९
तत्कोणेषु चतुर्ष्वपि रमणीया दारुशारिकाः कार्याः ।
मध्याम्बुजनिहितदृशः सालङ्काराः सशृङ्गाराः ॥ १५२ ॥
पूर्वोक्तयन्त्रयोगात् पद्मासीने वसुन्धराधिपतौ ।
भृङ्गारामलं¹वारिभिरङ्गणवापीं२ श्रियाञ्च ततः ॥ १५३ ॥
तामिति३ भृत्वा वापीं तत्सलिलं तदनुपट्टगर्भगतम् ।
छाद्यस्तु गन्धरोध्रेष्वति रोहति(?)सर्वतो नियतम् ॥ १५४ ॥
मुखपट्टसमुत्कीर्णै रूपैश्चित्रैर्मनोरमैरखिलैः ।
अङ्गैर्वारि विमुञ्चति नासास्यश्रवणनेत्राद्यैः ॥ १५५ ॥
प्रणालाख्यं धाराभवनमिदमत्यद्भुततरं
स्थितिं धत्ते यस्य क्षितिपतितिलकस्याङ्गणभुवि ।
करोत्येतद् वेत्थं स्थपतिरपि बुद्ध्या चतुरया
जगत्येतौ द्वावप्यधिकमहनीयौ कृतधियाम् ॥ १५६ ॥
चतुरश्रातिगभीरा वापी कार्या मनोरमा सुदृढा ।
गर्भगतं गृहमस्याः कर्तव्यं लिप्तसन्धि ततः ॥ १५७ ॥
विहितप्रवेशनिर्गति सुरङ्गयाधो निवेशितद्वारम् ।
विदधीत चारुरूपैः प्रवर्षकै४र्याप्तमुपरिष्टात् ॥ १५८ ॥
चित्राध्यायोदितवर्त्मना ततोऽलङ्कृतं च चित्रेण ।
तस्य विधेयं मध्यं सलिलाधिपवाससङ्काशम् ॥ १५९ ॥
ऊर्ध्वविनिर्गमिताब्जैर्नालैस्तत्पट्टकन्दकोद्भूतैः ।
सच्छिद्रकर्णिकागतदिन५करकरनिर्गतोद्योतम् ॥ १६० ॥
आपूरयेत् ततोऽनु च पाताम्बुभिरमलकमलपर्यन्तम् ।
विधिनामुनैव सम्यक् प्रविधाय मनोरमं भवनम् ॥ १६१ ॥
नानारूपकयुक्त्या६उ(व्यु)परचिततमङ्गतोरणद्वारम् ।
शालाभिरायताभिश्चतसृष्वपि दिक्षु कृतशोभम् ॥ १६२ ॥
१ द. ख. ॰रमालं । २ द. ख. ॰पी भूयेश्च । ३ क. ॰मं । ४ द. ख. ॰नीं ।
५ ॰दिनकरविनि॰ । ६ द. ख. ॰युक्तासु ।
१९० समराङ्गणसूत्रधारे
कृत्रिमशफरीमकरीपक्षिभिरपि चाम्बुसम्भवैर्युक्ताम् ।
कुर्यादम्भोजवतीं वापीमाहार्ययोगेन ॥ १६३ ॥
सामन्तमुख्यपुरुषा राजाज्ञालब्धसंश्रयास्तत्र ।
परराष्ट्रागतदूतास्तिष्ठेयुर्नि¹हितमिह निभृताः ॥ १६४ ॥
अथ स यथाविधि सलिलक्रीडां पूर्वोक्तमार्गरूपाणाम् ।
दृष्ट्वा मुदितः कुर्यात् पर्यङ्कारोहणं नृपतिः ॥ १६५ ॥
तत्र स्थितस्य नृपतेः परिवारितस्य
वाराङ्गनाभिरभितो जलमग्नधाम्नि ।
पातालसद्मनि यथा भुजगेश्वरस्य
निस्सीमसम्भृतरतिर्भवति प्रमोदः ॥ १६६ ॥
पूर्वोक्तवापिकायां मध्ये स्तम्भैश्चतुर्भिरूपे²रचितम् ।
मुक्ताप्रवालयुक्तं पुष्पकम्थ कारयेल्लटभम् ॥ १६७ ॥
वापीं परितः पुष्पकमापूर्य सुनिर्गमाभिरथ सुदृढम् ।
गर्भस्वस्तिकभित्ति³भिरूपहितशोभं समन्ततः कुर्यार्तै⁴ ॥ १६८ ॥
पूर्वोक्तवारियोगात्⁵ पूर्णमाकर्णतो विधायैताम् ।
जलकेलिषु सोत्कण्ठो महीपतिः पुष्पकं यायात् ॥ १६९ ॥
कुर्वीत नर्मसचिवैर्विलासिनीभिश्च सार्धमवनिपतिः ।
तद्विच्च्यन्तरवर्ती निमज्जनोन्मज्जनैः क्रीडाम् ॥ १७० ॥
एकत्र मग्नैरपर६र् दृष्टैरन्यत्र हत्वा सलिलेन नष्टैः ।
क्रीडँ⁷त्यलं केलिकरैः सहायैर्नृपः सुखं मज्जनपुष्करिण्याम् ॥ १७१ ॥
वापीतलस्थितमथ त्रपयावनम्र-
माच्छादितस्तनभरं करपल्लवेन ।
गाढावसक्तवसनं जलरोधमुक्ता-
वालोकते प्रणयिनीजनमत्र धन्यः ॥ १७२ ॥
१ ग. ॰र्हं॰ । २ द. ख. ॰पचरितं । ३ द. ख. ॰त्तिरूप॰ । ४ द. ख. समन्तात् ।
५ द. ख. ॰र्यागा । ६ द. ख. ॰रपरत्र । ७ द. ख. ॰डेँ॰ । ८ द. ख. सं॰ ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १९१
रथदोलादिविधानं दारवमभिदध्महे वयं सम्यक् ।
यन्त्रभ्रमणककर्म प्रकीर्तितं पञ्चमं यत् तत् ॥ १७३ ॥
तत्र वसन्तः प्रथमो मदननिवासो वसन्ततिलकश्च ।
विभ्रमकस्त्रिपुराख्यः पञ्चैते दोलकाः कथिताः ॥ १७४ ॥
निखनेच्चतुरः स्तम्भान् समैकसूत्रोपगान् ऋजून् सुदृढान् ।
सदृशान्तरान् धरित्रीवशतः सुश्लक्ष्ण(ष्ट)पीठगतान् ॥ १७५ ॥
प्रासादस्योक्तदिशि प्रविदध्याद् विरचिताष्टकरदैर्घ्यम् ।
भूमिगृहं रमणीयं तदर्धतो विहितगाम्भीर्यम् ॥ १७६ ॥
तद्गर्भतले स्तम्भो लोहमयाधारसंस्थितः कार्यः ।
भ्रमसहितः पीठयुतो ग्रस्तश्चच्छादकतुलाभिः ॥ १७७ ॥
संस्थाप्योपरि पीठस्य कुम्भिकामतिदृढां विभक्तां च ।
धनुरुच्छ्रितैस्ततोऽमूंमष्टभिरावेष्टयेद् भद्रैः ॥ १७८ ॥
स्वेच्छैमथ भूमिकोच्छ्रयमसयोर्ध्वं कल्पयेन्नितान्तमृजुम् ।
निदधीत वेष्टनोर्ध्वं पट्टयुतं स्तम्भशीर्षं च ॥ १७९ ॥
हीरग्रह(ण ?)पर्यन्तं मंडला गजशीर्षिका विधातव्या ।
सुदृढा प्रयत्न रचिता मनोभिरामा यथाशोभम् ॥ १८० ॥
पट्टस्योपरि कार्या चतुष्किका क्षेत्रमानतोऽभीष्टात् ।
तस्यामुपरि विधेयस्तलबन्धो दृढतरन्यासः ॥ १८१ ॥
स्तम्भैर्द्वादशभिरथ क्षेत्रे युक्त्या समुच्छ्रितैर्भव्यैः ।
रूपवतीकोणस्थितिरधिका भूः प्रथमिका कार्या ॥ १८२ ॥
मध्ये भ्रमश्च तस्या गर्भस्तम्भप्रतिष्ठितः कार्यः ।
क्षेत्रप्रमाणवशत्तस्तां पश्चाच्छादयेत् पट्टैः ॥ १८३ ॥
रथिकाशिखाग्रकेषु च फलकाम(व)रणस्य तद्वदुपcategory
भ्रमचक्राणि न्यस्येन्मध्ये स्तम्भे च पञ्चैव ॥ १८४ ॥
१ द. °ष्ट्रि° । २ द. ख. °प्यमुमष्टशं° ; क. °थ मुष्टिभिरा° । ३ द. ख. °च्छा° । ४ द.
ख. °रग्रहण। ५ क. ख. द. सं° । ६ द. ख. °र्धै° । ७ क. °चरिता । ८ द. ख. °ल° ।
९ क. ख. द. °त्थि° । १० द. ख. भूद्भूमिं° ; ग. तद्भूमिं° । ११ द. र्भस्तंप्र° ; क. °र्भस्तम्मः प्र° ।
१२ क. °कांतर° । १३ °से° ।
१९२ समराङ्गणसूत्रधारे।
अत उपरि यथाशोभं हि भूमिका पुष्पकाकृतिः कार्या ।
मध्यस्तम्भाधारा कृतकलशविभूषणा शिरसि ॥ १८५ ॥
स्तम्भेऽव(ध)स्ताद् भ्रमिं१ भृशं भ्रमत्यर्थभूमिका तत्र ।
रथिकाभ्रमरकयुक्ता परस्परं चक्रयन्त्रेण ॥ १८६ ॥
वसन्तरथिकाभ्रमे समधिरूढवाराङ्गना-
परिश्रमणसम्भृताभ्यधिकविभ्रमं भूपतिः ।
करोति नयनोत्सवस्त्रि(वं त्रि)दशधात्रि यत्कीर्तनं
वसन्तसमये भवत्यमलकीर्त्तिधामैव सः ॥ १८७ ॥
आरोप्य स्थिरमेकं स्तम्भं भूमिगृहादिरहितमँथ ।
हस्तचतुष्कोच्छ्राया कार्योपरि भूमिका चास्य ॥ १८८ ॥
मध्ये भ्रमरकयुक्तं शेषं पूर्ववदिहाचरेदखिलम् ।
पुष्पकमपि च स्तम्भे शिथिलं कलशोच्छ्रितं कुर्यात् ॥ १८९ ॥
तस्योपरि च ग्रीवा चतुरासनसंयुता विधातव्या ।
घण्टास्तम्भौ कार्यौ स्तम्भेन महाबलौ तत्र ॥ १९० ॥
एवं पुष्पकभूमिकान्तरलस्थायी निगूढो जनो
यावद् भ्रामकयन्त्रचक्रनिकरं सम्यक् क्रमाचालयेत् ।
तावत् ता रथिकासँना मृगदृशस्तत्र स्थिताः पुष्पके
कामावासकुतूहलार्पितदृशो भ्राम्यन्ति सर्वा अपि ॥ १९१ ॥
अथ कोणगतान् स्तम्भांश्चतुरो विनिवेशयेद् ऋजून् सुदृढान् ।
सुश्लिँष्टपीठसंस्थान् समान्तरान् मेदिनीवशतः ॥ १९२ ॥
तेषामुपरि लता(तला)न्तरसंयुक्ता भूमिका विधातव्या ।
रथिकास्तत्र चतस्रो जायन्ते पूर्ववँदू दिक्स्थाः ॥ १९३ ॥
तदुपरि तथार्धभूमिः कार्या सुश्लिष्टदारुसन्धाना ।
मध्यभ्रमरकयुक्ता सरूपका मत्तवारणयुता च ॥ १९४ ॥
१ द. ॰वस्ताप्रमिं ; ख. ॰वस्ताप्रभिं । २ ग. ॰मयं च । ३ द. ख. ॰कासमा . . राडिशस्तत्र ।
४ द. ख. ॰म्लक्ष्ण॰; क. ॰श्लक्ष्ण॰ । ५ द. ख. ॰न्तरो॰ । ६ द. ख. ॰ता । ७ द. ख. ग,
वद्दिक्संस्था ।; क. पूर्वयुक्ताभिः ।
यन्त्रविधानं नामैकोनत्रिंशोऽध्यायः । १९३
†नानाविधकर्मवती वसन्ततो बाह्यरेखा स्यात् ।
अन्योन्ययन्त्रपरिघट्टनदोल्यमान-
निःशेषचक्ररथिकाभ्रमणाभिरामम् ।
दृष्ट्वा वसन्ततिलकं सुरमन्दिराणां
भूषायमाणमुपयाति न विस्मयत्वं(यं कः)॥ १९५ ॥
प्रविधाय रङ्गभूमिं प्रथमां शास्त्रान्तराध्रस्यार्थे(?) ।
चतुरश्रा रूपवती सचतुर्भद्रा विधेया भूः ॥ १९६ ॥
प्रतिकोणमागत(ता)स्या भद्रेषु भवन्ति संयता भ्रमराः ।
अत उपरिष्टाद् भूम्या भ्रमराश्चाष्टासनाः कार्याः ॥ १९७ ॥
रेखाः शुद्धाः कार्या बहिरन्तश्चित्रिताश्चान्याः ।
पीठेषु मध्यग(सं)स्थास्ततोऽपरा भूमिकाः कार्याः ॥ १९८ ॥
पीठस्य मध्यसंस्थैरन्योन्यारालियोजितैश्चक्रैः ।
सर्वे वेगाद् भ्राम्यन्ति सान्तनाँ(रा) विभ्रमे भ्रमराः ॥ १९९ ॥
दोलासनो विहितैवारवधूंकृ(भू)ताति-
चित्रेण यन्त्रिदशधामसु विभ्रमेण ।
पृथ्वीपतिमुदमुपैति समुल्लसन्ती
कीर्त्तिर्न माति भुवनत्रितयेऽपि तस्य ॥ २०० ॥
चतुरश्रमथ क्षेत्रं कृत्वांशैर्भाजितं ततोऽष्टाभिः ।
कौणैः शेषैस्तस्मिंश्चतुरश्रं कल्पयेद् भद्रम् ॥ २०१ ॥
तद्द्विगुणमूर्ध्वमेतस्य भूमिकाभागसङ्ख्यया कार्यम् ।
तत्राद्यंशचतुष्केण भूमिका स्यात् समुच्छ्रयतः ॥ २०२ ॥
तत्राष्टषट्चतुर्भागवर्जिता भूमिका उपर्युपरि ।
क्रमशॊ भवन्त्यथैवं ताः स्युस्तिस्रोऽर्धसंयुक्ताः ॥ २०३ ॥
† इह किञ्चिदधं मातृकासु गलितमिव भाति ।
१ द. ख. ॰खा वा स्यां । २ क. रिम्य भूँ । ३ द. ख. सातनावितमे भ्रं । ४ ग.
॰नाविवमे भ्रं । ५ द. ख. ॰हूँ । ६ क. धू+तानि चि । ७ द. ख. क्षोँ ।
वा. २५
१९४ समराङ्गणसूत्रधारे
शेषांशोच्छ्रययुक्ता घण्टा चतुरश्रकायता कार्या ।
त्रिचतुर्भूग्यौ कार्ये षट्चतुर्भागविस्तारे ॥ २०४ ॥
रङ्गः स्यादाद्यभुवि द्वितीयभुवि कोणगास्तथा रथिकाः ।
स्युर्भद्राकृतियुक्ता दोला अपि तत्र रमणीयाः ॥ २०५ ॥
रथिकास्तृतीयभूमौ कार्या भद्रेषु चातिरमणीयाः ।
कोणेष्वथासनान्यर्थवास्तुकेऽपि भ्रमः कार्यः ॥ २०६ ॥
दोलारथिके चतुरासने भ्रमोऽष्टासनो भवेत् तत्र ।
आसनमिह तत् कथितं युवतेः स्थानं यदेकं स्यात् ॥ २०७ ॥
निखिलान्यपि भ्रमणसंमुखं तानि बिभ्रति भ्रमणम् ( ? ) ।
यत्रासनानि स इह भ्रम इत्युक्तोऽपराथिका (?) ॥ २०८ ॥
यष्टेरूर्ध्वमधस्ताद् भ्रमस्य चक्रं (नि) योजयेदेकम् ।
लघुचक्राणि च तद्वन्नियोज१दासनेष्वत्र ॥ २०९ ॥
लघुचक्राकारवृत्ते संलग्नाः कीलका दृढाः कार्याः ।
तुल्यान्तराः समस्ताः प्रलघु(क)चक्राकारवृन्तर्गताः ॥ २१० ॥
रथिकाशिखाग्रचक्रं भ्रमचक्राकार(वि?) नियोजितं कार्यम् ।
यष्टिचतुष्टयमस्मिंस्तिर्यक् चक्रद्वयोपेतम् ॥ २११ ॥
ऊर्ध्वं द्वितीयभूमेस्तृतीयभूमेरथान्तरे कुर्यात् ।
नियतं रथिकायष्टिभ्रैम३संलग्नानि यन्त्राणि ॥ २१२ ॥
आसनाधारयष्टीनां रथिकाचक्रयोजितान् ।
अधः समान्तरान् कुर्याच्चतुरः परिवर्तकान् ॥ २१३ ॥
त(दू)दू द्वितीयभूमीदोलागर्भे समान्तरे यष्टी ।
लग्ने तथैकचक्रे याम्योत्तरचक्रयोर्न्यस्येत् ॥ २१४ ॥
तद्बदधो भूकोणगरथिकाचू४डाग्रचक्रसंसक्ताः ।
यष्टीस्ततश्चतस्रो द्विचक्रकां५ इतरच६क्रयोर्न्यस्येत्७ ॥ २१५ ॥
१ ग. °यु° । २ द. ख. चक्रभ्रमरचक्राकार विनि° । ३ ग. °क्रम° । ४ द. ख. ग. °म° ।
५ ग. °ला°; द. ख. °लायचक्रं । ६ द. ख. °कः । ७ द. ख. °श्च° ।
प्रान्तचक्रद्वये कोणरथिकाचक्रयोजिता ।
दोलागर्भंगता यष्टिस्तिर्यक् कार्यापरापरा ॥ २१६ ॥
पूर्वे भद्रे द्वारं कुर्यात् सोपानराजितमधस्तात् ।
गर्भात् पश्चिमभागे निवेशयेद् देवतादोलाम् ॥ २१७ ॥
अन्योन्यं चक्रभ्रममिच्छामुक्तिं विधानतः सम्यक् ।
ज्ञात्वा प्रयोजनीयं शीघ्रवहं मन्दवहनं वा ॥ २१८ ॥
एष समासेन यथा भ्रममार्गः कीर्तितः स्फुटोऽस्माभिः ।
अन्येष्वपि कर्तव्यः सम्यग् भ्रमहेतवे तद्वत् ॥ २१९ ॥
स्तम्भादिद्रव्याणां विन्यासैः कल्पितं दृढैः श्लक्ष्णैः ।
सुश्लिष्टसन्धिबन्धं धृतं तथा दीर्घमुरुयधरैः ॥ २२० ॥
परिवारितमथ तिलकैः समन्ततः सिंहकर्णसंयुक्तम् ।
त्रिपुरं सम्यक् कुर्याद् विचित्ररूपं (ख)कैश्चित्रैः ॥ २२१ ॥
बुद्ध्या क्लृप्तैः पूर्वयन्त्रैश्च युक्तं यन्त्राध्यायं वेत्ति यः सम्यगेतम् ।
प्राप्नोत्यर्थान् वाञ्छितान् कीर्तियुक्तान् स क्ष्मापालैरन्वहं पूज्यते च ॥
एतद् द्वादशराजचक्रमखिलं क्ष्मापालचूडामणे-
र्दोःस्तम्भप्रतिबद्धवृत्ति परितो यस्येच्छया भ्राम्यति ।
स श्रीमान् भुवनैकरामनृपतिर्देवो व्यधत्त द्रुतं
यन्त्राध्यायमिमं स्वबुद्धिरचितैर्यन्त्रप्रपञ्चैः सह ॥ २२३ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
यन्त्राविधानं नामैकात्रिंशोऽध्यायः ॥
अथ गजशाला नाम द्वात्रिंशोऽध्यायः ।
लक्षणं गजशालानामिदानीमभिदध्महे ।
चतुरश्रीकृते क्षेत्रे भागैर्भक्ते ततोऽष्टभिः ॥ १ ॥
१ द. ख. ॰त्रं चित्ररूपकैश्चित्वैः । २ द. ख. ॰दिवा । ३ द. ख. ॰न्त्रै; क. न्त्रैः ।
१९६ समराङ्गणसूत्रधारे
मध्ये द्विभागविस्तारं स्थानं कुर्वीत हस्तिनः ।
कल्प्याः प्रासादवद् भागा ज्येष्ठमध्याधमाः क्रमात् ॥ २ ॥
तद्बहिर्भागिकोऽलिन्दो बहिस्तस्यापि चापरः ।
भागेनैकेन भित्तिः स्याद् द्वितीयालिन्दकाद् बहिः ॥ ३ ॥
तस्या द्वारप्रदेशे तु¹ कर्तव्यौ कूर्परावुभौ ।
कर्णप्रासादिका कार्या द्वितीयालिन्दसंश्रिता ॥ ४ ॥
द्वे द्वे वातायने कुर्याद् भित्तौ दिक्षु तिसृष्वपि ।
†प्राग्ग्रीवोऽग्रे भवेच्छाला सुभद्रेयमुदाहृता ॥ ५ ॥
अस्या एव यदा पक्षे प्राग्ग्रीवौ भवतो² मुखे ।
नन्दिनी नामतः शाला तदा स्याद् गजवृद्धये ॥ ६ ॥
अस्या एव यदा स्यातां प्राग्ग्रीवौ पार्श्वयोर्द्वयोः
तदा सुभोगदा नाम तृतीया परिकीर्तिता ॥ ७ ॥
अस्या एव यदा पृष्ठे प्राग्ग्रीवः क्रियतेऽपरः ।
भद्रिका नाम शाला स्यात् तदा द्विरदपुष्टिदा ॥ ८ ॥
पञ्चमी चतुरश्रा स्याद् वर्षणी नाम पूजिता ।
प्राग्ग्रीवालिन्दनिर्यूहहीना षष्ठी तथापरा ॥ ९ ॥
शाला प्रमारिका धान्यधनजीवितहारिणी ।
तदेतां वर्जयेत् कुर्यादन्याः सर्वार्थसिद्धये ॥ १० ॥
प्रमारिकेति प्रथिते³ह शाला सा प्राणसस्यद्रविणच्छिदे स्यात् ।
कुर्यादतस्तां न यथोदितास्तु कार्याः परा जीवितवित्तवृद्ध्यै ॥ ११ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
गजशाला नाम द्वात्रिंशोऽध्यायः ।
† इह सर्वत्र ‘प्रग्रीव’ इति पाठ्यं भाति ।
१ क. पु । २ क. क्षः । ३ द. ख. ॰ते ।
अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । १२७
अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः ।
अथ लक्ष्माश्वशालायाः प्रोच्यते विस्तरादिह ।
स्ववेश्मवास्तोः कर्तव्यं पदे गन्धर्वसंज्ञके ॥ १ ॥
अथवा पुष्पदन्ताख्ये स्थानं वासाय वाजिनाम् ।
अरत्निशतमात्रं यज्ज्येष्ठं तत् परिकीर्तितम् ॥ २ ॥
अशीत्यरत्नकं मध्यं षष्ठ्यरत्न्यधमं भवेत् ।
स्थलप्रदेशे विपुले गुप्ते रम्ये शुचौ तथा ॥ ३ ॥
समे च चतुरश्रे च स्थिते(रे) मङ्गल्यमेव च ।
स्थानं हयानां कर्तव्यं प्रदेशे सुँपरिक्रमे ॥ ४ ॥
निम्नगुल्मद्रुमस्थाणुचैत्यायतनवेश्मभिः ।
वल्मीकशर्कराभिश्च वर्जिते तत् समाचरेत् ॥ ५ ॥
निःसङ्गे शल्यहीने च प्रागुदक्प्रवणे तथा ।
प्रदेशे तद् विधातव्यमालोक्य सुसमाहितैः ॥ ६ ॥
ब्राह्मणानुमते शस्ते दिने स्थपतिभिः सह ।
भूमेर्विभागमालोक्य सुँभगानानयेद् द्रुमान् ॥ ७ ॥
न जाता ये श्मशानेषु देवतायनेषु वा ।
अन्येष्वपि निषिद्धेषु जातान् वृक्षान् विवर्जयेत् ॥ ८ ॥
वृक्षान् प्रशस्तानानीय समीपे भर्तृवेश्मनः ।
ततो भूमिं परीक्षेत प्रशस्तामथ निन्दिताम् ॥ ९ ॥
चितायतनवल्मीकग्रामधान्यैखलेषु च ।
विहारेषु च कर्तव्यमश्वानां न निवेशनम् ॥ १० ॥
भवन्ति स्वामिनः पीडा ग्रामधान्यैखलेषु च ।
श्मशाने वेश्मकरणाँन्नराणां मृत्युमादिशेत् ॥ ११ ॥
१ द. ख. पठे । २ द. ख. ॰ज्ञि॰ । ३ द. षष्ठ्यारत्नाध॰ । ४ द. ख. स्व॰ । ५ द. ख.
भिन्नकत्द्रु॰ । ६ क. स्त । ७ द. स्तुभागानामये दु॰; ख. स्तुभागानामयेन् द्रु॰; क. शुभानानीय
सद्रु॰ । ८ द. स्तां चाथ; ख. स्तां वाथ । ९ द. ख. ॰नाख॰ । १० द. ख. ॰ने खले तथा;
क. ॰नं॰ । ११ क. ॰णात् तुरगाणां ।
१९८ समराङ्गणसूत्रधारे
स्थानं विह्वारवल्मीकविहितं स्यादनर्थकम् ।
तन्नित्यसन्तापकरं क्षयकृच्च तपस्विनाम् ॥ १२ ॥
देवोपघातजननं स्त्रीणां च क्षयकारकम् ।
विहितं पादपैश्चैत्यैर्गृहं स्याद् भूतभीतिदम् ॥ १३ ॥
भवेद् रोगकरं भर्तुर्विहितं कण्टकिद्रुमैः ।
दीर्णायामुन्नतायां³ च कृतं भूमौ क्षयावहम् ॥ १४ ॥
नतायां क्षुद्भयकरं कृतं भवति मँन्दिरम् ।
तस्मात् कार्यं प्रशस्तायां भूमौ तद् वाजिवृद्धये ॥ १५ ॥
मङ्गल्यरमणीये च चतुरश्रे मनोज्ञगे ।
शुभे च विहितं सद्म भवेत् कल्याणकारकम् ॥ १६ ॥
निर्गच्छतो यथा वामे पार्श्वे भर्तुस्तुरङ्गमाः ।
भवन्ति कुर्यात् स्थपनिस्तथा वाजिनिवेशनम् ॥ १७ ॥
अन्तःपुरप्रदेशस्य कार्यं दक्षिणतश्च तत् ।
प्रवेशे दक्षिणं तेषां हेषितं जायते यथा ॥ १८ ॥
तथा भर्तुर्हितार्थाय कर्तव्यं सद्म वाजिनाम् ।
प्रागुदग् वा मुखं तस्य विधातव्यं सतोरणम् ॥ १९ ॥
प्राग्ग्रीवकेण संयुक्तं चतुःशालमसङ्कटम् ।
दशारत्निसमुच्छ्रायमंष्टारत्निप्रविस्तृतम् ॥ २० ॥
नागदन्तकसंशोभि पुरः कुड्यार्धसंयुतम् ।
पृष्ठे समग्रकुड्यं वा तत्र स्थानानि कल्पयेत् ॥ २१ ॥
तानि तु प्राङ्मुखानि स्युस्तथैवोदङ्मुखानि चै ।
आयामे किष्कुमात्राणि त्रिकिष्कूणि च विस्तरात् ॥ २२ ॥
प्रांशुन्नतोर्ध्वभागानि चतुरश्राणि कारयेत् ।
अग्रोच्चां सुखसञ्चारां तेषु भूमिं प्रकल्पयेत् ॥ २३ ॥
१ द. ख. शत्रुविं । २ द. ख. क. ष्ट्रकं । ३ द. ख. ॰तानां । ४ द. ख. ॰ति
विमं । ५ द. ख. ॰इमं । ६ द. ख. अतः । ७ क. ॰वै । ८ द. ख. ॰दे । ९ क. सुं ।
१० द. ख. ॰मष्टौदश च विं । ११ द. ख. प्राङ्मुखानि च ।