सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 713, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 713

६५२ समराङ्गणसूत्रधारे
कुमुदोत्पलपद्मानां ग्रहणं तेन पाणिना ।
तथैव दीर्घवृन्तानामन्येषामपि रूपयेत् ॥ १६१ ॥
कर्णपूरो¹ विधातव्यः कर्णदेशे स्थितेन च ।
दृष्टिभ्रुवौ² चाभिन्ना( नद्ये ) तेषां कार्यं³ करानुगे⁴ ॥ १६२ ॥
इति भ्रमरौ( र ): ॥
तर्जनीमध्यमाङ्गुष्ठाभू( श्चे )ताग्रिस्था निरन्तरा( : ) ।
भवेयुर्हंसवक्त्रस्य (⁶शेष सम्प्रसारिता ?) ॥ १६३ ॥
किञ्चित् प्रस्पन्दिताङ्गुष्ठेनामुनोत्क्षिप्य च भ्रुवौ ।
निस्सारमल्पं सूक्ष्मं च दर्शयेन्मृदुलं लघु ॥ १६४ ॥
कर्तव्यो( व्ये )ऽभिनये चैषां दृग्भ्रुवौ च करानुगे ।
इति हंसवक्त्रः ॥
अङ्गुल्यः प्रसृतास्तिस्रस्तथा चोर्ध्वा कनीयसी ॥ १६५ ॥
अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ।
उत्तानेन बहिस्तिर्यग् ⁸ग्रीवायजलभूषणम् (?) ॥ १६६ ॥
कर्तव्यं⁹ १० तेन गण्डस्य रूपस्य ( गण्डवर्तनम् ? ) ।
कुर्वीत चैनमुत्तानं भोजने चै¹¹ प्रतिग्रहे ॥ १६७ ॥
तथाचमनकार्ये च कर्तव्योऽयं द्विजन्मनाम् ।
अधस्तादैन्तयोरेनं¹³ कुर्यात् स्वस्तिकयोगिनम् ॥ १६८ ॥
किञ्चिन्नतेन शिरसा ( यै¹² परि यथारसम् ? ) ।
उभाभ्यां पार्श्वयोस्तिर्यग्वैताभ्यां स्तम्भदर्शने( नम् ) ॥ १६९ ॥
कुर्वीतैकेन रोमाञ्चं¹⁴ वामबाहुप्रसर्पिणा ।
संवाहनेऽनुलेपे च स्पर्शे तर्दि( द्दे )शवर्तिनम् ॥ १७० ॥
१ द. रे । २ द. न्तयां । ३ द. र्य । ४ द. मे । ५ द. रः । ६ मुद्रितपुस्तके 'शेषे द्वे
सन्प्रसारिते' इति स्यात् । द. प्रतौ 'द्वे सम्प्रसारता' । ७ द. चक्रः । ८ मु. पुस्तके
'स्तिर्यङ् निवापजलमोक्षणम् । ९ द. नि । १० द. व्यस्ते । ११ द. त्ति । १२ द. न । १३ द. दश ।
१४ मु. पु. इह कियांश्चिदंशो लुप्तः सम्भाव्यते । १५ द. ञ्च । १६ द. न ।