सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 712, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 712

पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६५१
कार्यं तद्देशवर्तिभ्यां सभ्रूक्षेप(पं) विचक्षणैः ।
उत्तानेन युतेनाथ पत्राकारं प्रदर्शयेत् ॥ १५१ ॥
हस्तेन (चँतुराखे१ ?) विनमय्य ध्रुवं मनाक् ।
लीलां रतिं स्मृतिं बुद्धिं संज्ञामार्या२विचारणा(:) ॥ १५२ ॥
सङ्गतं प्रें३णयं (शौ४चमावर्त्य५ ?) भावमक्षमम् ।
पुष्टिं (सविच६ ?)शीलं च चातुर्यं मार्दवं सुखम् ॥ १५३ ॥
प्रस्तं७(श्रं) वार्त्तां८ च वेषं च युक्तिं दाक्षिण्ययौवने ।
विभर्वाविभवौ स्तोकं सुरतं (सद्वरं९ ?) मृदु ॥ १५४ ॥
गुणागुणौ१० गृहा द्वारा वर्णा नानाविधाश्रै११याः ।
चतुरेणाभिनेतव्यास्ते१२ सर्वेऽपि यथोचितम् ॥ १५५ ॥
क्वचित् प्रभावता क्वापि (अम्रता ?) मृदुना क्वचित् ।
प्रतीतिर्जायतेऽर्थस्य यस्य यस्य यथा यथा ॥ १५६ ॥
प्राज्ञैस्तथा तथा शीर्षैरभिने१३यौन्युत्य(क्त)पाणिना ।
भ्रूदृष्टि१४(चकुरगोश्च ?) कार्यास्तदनुसारतः ॥ १५७ ॥
मण्डलस्थेन हस्तेन पीतं रक्तं च दर्शयेत् ।
किञ्चिन्नतभ्रूः शिरसा परिमण्डलितेन च ॥ १५८ ॥
तेनँ दूभू(प्र)दर्शयेत् कृष्णं(ष्णं) नीलं च परिमृद्व्रताँ१५ ।
चतुरेण कपोतादीन् वर्णान् स्वाभाविकेने च ॥ १५९ ॥
इति चतुरः ॥
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ।
ऊर्ध्वमन्ये (प्रँ१६कीर्णी + अङ्गुल्यो ?) भ्रमरे करे ॥ १६० ॥

१ द. चतुराख्ये; मुद्रितपुस्तके ‘चतुराख्येन’ इति स्यात् । २ द. यां । ३ द. णं । ४ द.
प्रयणं शौचं मावर्यं भावनं क्षमं । ५ मुद्रित पु. ‘शौचं माधुर्य’ इति मुनि सम्मतः पाठः । ६ द. मु ।
७-८ द. व । ९ मु. ‘शाद्वलं’ इति स्यात् । १० द. ॅणैर्गुँ । ११ द. श्रयः । १२ द. ॅणास्तिनतव्याँ ।
१३ द. ॅये भ्युद्ग पाणिना । १४ द. नतद्भूः दृँ । १५ द. ॅमृद्वता । १६ मु. पुस्तके ‘प्रकीर्णे द्वे अङ्गुल्यौ’
इति स्यात् । द. प्रकीर्णे ।