समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 661, कुल 726 में से
संदर्भ में पढ़ेंषडङ्गुलपरीणाहं कोशस्तु चतुरङ्गुलः ।
अष्टादशाङ्गुलमिता विस्तारेण कटिर्भवेत् ॥ ३८ ॥
अङ्गुलार्धं (भवेन्नारीरोधोध्वश्वाङ्गुलं ?) भवेत् ।
नाभिमध्ये परीणाहः षट्चत्वारिंशदङ्गुलः ॥ ३९ ॥
द्वादशाङ्गुलमात्रं तु स्तनयोरन्तरं विदुः ।
स्तनयोरुपरिष्टात्तु कक्षप्रान्तौ षडङ्गुलौ ॥ ४० ॥
उत्सेधात् पृष्ठविस्तारो विंशतिश्चतुरन्विता ।
उरसः सह पृष्ठेन परीणाहः प्रकीर्तितः ॥ ४१ ॥
षडङ्गात् परीमाणादङ्गुलानीति निश्चयः (?) ।
परीणाहाच्चतुर्विंशत्यङ्गुलाष्टौ च विस्तृता ॥ ४२ ॥
ग्रीवा(वा ?) कार्या भुजायामः षट्चत्वारिंशदङ्गुलः ।
पर्वोपरितनं बाहोः कार्यमष्टादशाङ्गुलम् ॥ ४३ ॥
षोडशाङ्गुलमात्रं तु द्वितीयं पर्व कथ्यते ।
बाहुमध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥ ४४ ॥
प्रबाहोस्तु परीणाहो भवति द्वादशाङ्गुलः ।
आयामेन (तैलत्वापि ?) कीर्तिते(तो) द्वादशाङ्गुलः ॥ ४५ ॥
अङ्गुलीरहितः प्राज्ञो(ज्ञैः) सप्ताङ्गुल उदाहृतः ।
पञ्चाङ्गुलानि विस्तीर्णा(र्णो) लेखालक्षणलक्षितः ॥ ४६ ॥
पञ्चाङ्गुलानि मानेन कर्तव्या मध्यमाङ्गुलिः ।
पर्वणोऽर्धं(तु)मध्याया हीनां विद्यात् प्रदेशिनीम् ॥ ४७ ॥
प्रदेशिनीसमा चैव स्यादायामादनामिका ।
पर्वाधंमानहीना च प्रमाणेन कनिष्ठिका ॥ ४८ ॥
अङ्गुलीनां नखाः कार्याः सर्वे पर्वाधंसंमिताः ।
आयाममात्रमेतासां परीणाहं प्रचक्षते ॥ ४९ ॥
१ द. श्वा । २ द. र्या । ३ द. मो । ४ मुद्रित पुस्तके 'तलश्वापि' इति स्यात् । ५ द. प्रदेशिनी ।