समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 660, कुल 726 में से
संदर्भ में पढ़ेंप्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । ५९९
नाभे(१मेन्द्रं ?) भवेद् भोगौ (२द्वावुरुभयमेव च ?)
ऊर्वोः समे मते जङ्घे जानुनी चतुरङ्गुले ॥ २९ ॥
चतुर्दशाङ्गुलो पादौ स्मृतावायाममानतः ।
षडङ्गुलो तु विस्तारादुत्सेधाच्चतुरङ्गुलो ॥ ३० ॥
(३पञ्चाङ्गुलपरीणाह ४अङ्गुलो त्र्यङ्गुलायतः ?) ।
अङ्गुष्ठकसमा चैव स्यादायामा(त्) प्रदेशिनी ॥ ३१ ॥
तस्याः षोडशभागेन हीना स्यान्मध्यमाङ्गुलिः ।
अष्टभागेन मध्ये(ध्या)या हीनां विद्यादनामिकाम् ॥ ३२ ॥
तस्याश्चैवाष्टभागेन हीना ज्ञेया कनिष्ठिका ।
पादोनमङ्गुलं कुर्यादङ्गुष्ठस्य नखं बुधः ॥ ३३ ॥
अङ्गुलीनां नखान् कुर्यात् (५खं ?) पञ्चत्र्यंशसंमितान् ।
(६कुर्वीताङ्गुलंकोत्सेधं त्रिभ्यन्वित्तमङ्गुलाम् ?) ॥ ३४ ॥
प्रदेशिन्यङ्गुलोत्सेधा हीना(ः) शेषा यथाक्रमम् ।
जङ्घामध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥ ३५ ॥
जानुमध्ये परीणाह(इ ?)स्त(स्त्व)ङ्गुलान्येकविंशतिः ।
तस्यैव सप्तमं भागं ११विद्याज्जानुकपालकम् ॥ ३६ ॥
कु(ऊ)रुमध्ये परीणाहो१२ भवेद् द्वात्रिंशदङ्गुलैः१३ ।
(भागार्धमाशौ ?) वृषणौ मेढ्रं वृषणसंस्थितम् ॥ ३७ ॥
१ द. मुद्रित प्रतौ 'मेद्रं' इति । २ द. 'भागो भागों' इति पाठः । ३ मुद्रित प्रतौ द्वावूरूद्वयमेव
इत्ययं च' इति स्यात् । ४ मुद्रित प्रतौ 'पञ्चाङ्गुलपरीणाहावङ्गुष्ठौ त्र्यङ्गुलायतौ' इति च स्यात् । ५ द.
श्वां । ६ द. सि । ७ द. प्रतौ इतः पूर्वं "अनामिकाष्टभागेन हीनां विद्यान् कनीयसीम् । सर्वाङ्घ्रिसन्वा-
याङ्गुल्यः प्रथमाङ्गुलविस्तृताः ॥ त्र्यङ्गुल्य च परीणाहाद्विज्ञेया सा विचक्षणैः । ततोष्टभागहीना स्यात्
परीणाहेन मध्यमा । अष्टभागेन मध्या या हीनां विद्याननामिकाम्" ॥ इत्ययं अधिकः पाठः । ८ द. ख ।
९ द. ष्ठ । मुद्रित पुस्तके 'कुर्वीताङ्गुष्ठकोत्येधं त्रियवान्वितमङ्गुलम् इति स्यात् । १० द. भान्वित ।
११ द. विं । १२ द. ही । १३ द. लै ।