सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 662, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 662

प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । ६०१
अङ्गुष्ठकस्य दैर्घ्यं स्यादाङ्गुलानां चतुष्टयम् ।
पञ्चाङ्गुल(लं) परीणाहं¹(हः) स्पष्टचारुयवाङ्कितं(तः) ॥ ५० ॥
तुङ्गास्थ(त्त)मानपर्यन्तात् किञ्चिद्धीना नखा मताः ।
अङ्गुष्ठकप्रदेशिन्योरन्तरं द्वयङ्गुलं भवेत् ॥ ५१ ॥
स्त्रीणामप्येवमेतत् स्यात् स्तनोरुजघनाधिकम् ।
त्रीणि चत्वारि चत्वारि त्रीणि चत्वार्यथोपि च ॥ ५२ ॥
एकादशैकादश वा दशधौ(वा) विंशतित्र(स्त्र)यम् ।
विंशतित्रीणि च स्त्रीणां मानमेतत् प्रकीर्तितम् ॥ ५३ ॥
कनिष्ठं मानमेतत् स्यान्मध्यं सत्र्यंशमष्टकम् ।
प(क)लानाष्टमंकं सार्धमुत्तमं परिकीर्तितम् ॥ ५४ ॥
उरसश्च भवेत् तासां विस्तारोऽष्टादशा लः ।
कर्तव्यः कटिविस्तारो विंश(ति चतुरुँताः?) ।
एतत् प्रमाणमुद्दिष्टं प्रतिमानां समासतः ॥ ५५ ॥
प्रमाणमेतत् सक(लांशराणा-
मर्धास्तु ?) निर्दिष्टमनुक्रमेण ।
कार्यं सदा शिल्पिभि(रंशुमत्तै ?)-
र्यथोचितद्रव्यसमुद्भवासु ॥ ५६ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
प्रतिमालक्षणं नाम पञ्च(षट्)सप्ततितमोऽध्यायः ॥
१ द. म। २ द. थोपि वा। ३ द. धो। ४ द. मष्टकं । ५ द. द्वा । ६ मुद्रित प्रतौ 'तिश्व-
तुरन्विता' इति स्यात् । ७ द. रन्विताः । ८ मुद्रित प्रतौ 'लामराणामर्धासु' इति स्यात् । ९ मुद्रित
प्रतौ 'रप्रमत्तै' इति स्यात् ।
वा. ७६