समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 659, कुल 726 में से
संदर्भ में पढ़ें५९८ समराङ्गणसूत्रधारे
ऊर्ध्वतः कर्णविस्तारो गोलकाद् द्वियवान्वितः ।
मध्ये च द्विगुणं नालं मूले मात्रा सपद्म(षड्ब)वा ॥ १८ ॥
समुदायप्रमाणेन (णेर्लेक?)द्वितयायतः ।
कर्णप्रसप्तः(?) कर्तव्यो निम्न्रो(३च्चूमत?)विभागवान् ॥ १९ ॥
अङ्गुलं पश्चिमं नालं पूर्वमर्धाङ्गुलं भवेत् ।
कुर्वीत कोमले नाले कल(ला)द्वितयमायते ॥ २० ॥
श्रवणस्य विभागोऽयं पूर्वा(यथा)वत् परिकीर्तितः ।
अन्यूनाधिकमानः स्यात् प्रशस्तो दूषितोऽन्यथा ॥ २१ ॥
चिबुकं द्व्यङ्गुलायामं तस्यार्धमधरं विदुः ।
तदर्धमुत्तरोष्ठः स्याद् भाजी चार्धाङ्गुलोष्ठधा(च्छ्रूया) ॥ २२ ॥
नासापुटौ तु विज्ञेयौ चतुर्थं भागमष्ट(मोष्ठ)योः ।
तयोः प्रान्तौ तु कर्तव्यौ करवीरसमौ शुभौ ॥ २३ ॥
तारकान्तःसमे चैव सृक्वणी परिचक्षते ।
नासिका स्याँ(त्) प्रमाणेन चतुरङ्गुलमायते(ता) ॥ २४ ॥
पुटभा(प्रा)न्ते च विस्तारो नासाग्रस्याङ्गुलद्वयम् ।
विस्तारेणाङ्गुलान्यष्टौ तदर्थमपि चायताम् ॥ २५ ॥
प्रमाणगुणसंयुक्तं ललाटं परिकीर्तितम् ।
आरभ्य चिबुकां(काद्) यावत् कु(के)शान्तं पश्चिमात् तथा ॥ २६ ॥
५र्गणिक(ण्डा)न्तं शिरसो मानं भवेद् द्वात्रिंशदङ्गुलम् ।
+++ कर्णयोर्मध्ये (मष्टको?)ऽष्टादशाङ्गुलः ॥ २७ ॥
- ग्रीवयोः परीणाहो विंशतिश्चतुरन्विता ।
श्री(ग्री)वातः स्यादुरोभागा(ग) उरसो नाभिरेव च ॥ २८ ॥
१ द. लं । २ मुद्रित पुस्तके 'गोलक' इति स्यात् । ३ द. ब्रूत । ४ द. त्स्या ।
५ द. ल । ६ द. गणितं । ७ द. रनयो मध्ये । ८ द. मस्तको ।