सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 658, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 658

प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः । ५२७
नेत्रश्रवणयोर्मध्यं भवेदङ्गुलपञ्चकम् ।
कर्णौ चाक्षिसमौ ज्ञेयावुत्सेधाद् द्विगुणायतौ ॥ ६ ॥
(सा कर्णपाली स्यान्मध्यं पतिष्यल्यकृकूटयोः ।
द्विभागोलकायता पिष्पल्याश्रिताङ्गुलविस्तृता ?) ॥ ७ ॥
अरोमप्रभवा ज्ञेया व्याकृष्टधनुराकृतिः ।
एवम्प्रमाणं स्यादेषां कर्णपृष्ठाश्रयोऽपि च ॥ ८ ॥
ऊर्ध्वबन्धादधोबग्धः कर्णमूलसमाश्रितौ(नः) ।
अध्यर्धं गोलकं ज्ञेयः पृष्ठतश्चैवमेव सः ॥ ९ ॥
निष्पावसद्दशाकारा कर्तव्या कर्णपिप्पली ।
आयामेनाङ्गुलं सा स्याद् विस्तारेण चतुर्यवा(वा) ॥ १० ॥
पिप्पल्याधातयोर्मध्ये(?) लकार इति संज्ञितः ।
स्याद(ध्य)र्धाङ्गुलायामो विस्तारेण च सोऽङ्गुलम् ॥ ११ ॥
मध्ये लकारो निम्नः स्यान्मानाद् यवचतुष्टयम् ।
मूले पिप्पलिकयाः स्याच्छ्रोत्रच्छिद्रं चतुर्यवम् ॥ १२ ॥
या(गोलकारपीगूंष्मो स्तूनीकेति ?) प्रकीर्तिता ।
अर्धाङ्गुलायता सा स्याद् यवद्वितयविस्तृता ॥ १३ ॥
लकारावर्तयोर्मध्ये पीयुषी सा प्रकीर्तिता ।
अङ्गुलंद्वितयायामा विस्तृता सार्थमङ्गुलम् ॥ १४ ॥
कर्णस्य बाह्या रेखा या तामावर्तं प्रचक्षते ।
षडङ्गुलप्रमाणः स्याद् वक्रो वृत्तायतश्च सः ॥ १५ ॥
मूलांशोऽर्धाङ्गुलः कार्यः क्रमान्मध्ये यवद्वयम् ।
अग्रे यवप्रमाणश्च विस्तारेण विधीयते ॥ १६ ॥
लकारावर्तयोर्मध्यैमुद्गात इति कीर्तितम् ।
अधोभागे + पीयूष्या विस्तारेण यवत्रयम् ॥ १७ ॥
१ द. ण। २ द. पा। ३ द. तां। ४ द. स्त। ५ द. लां। ६ द. थव। ७ द. यू।
८ द. ताः। ९ द. लं। १० द. तमा। ११ द. ध्ये।