सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 657, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 657

५९६ समराङ्गणसूत्रधारे
तारकाक्षित्रिभागेन कर्तव्या सुप्रतिष्ठिता ।
तारकायास्ततो मध्ये ज्योतिरुभ्यंशेन कल्पयेत् ॥ ३६ ॥
( १भ्रुवौ व्यक्षिरामे कुर्यादक्षिमांसयो ।
मंकाराणा स्युरुच्चाता सम्यगालिखेत् ? ) ।
एवं विधानतो योज्यं रूपजातमशेषतः ॥ ३७ ॥
जातीनां वशत इति प्रमाणमुक्तं
(दिवाँ^३दिष्वखिलमुक्तं देवा ? )मिदं स्फुटं विदित्वा ।
यश्चित्रं लिखति बहुप्रकारमस्मै^४
प्राधान्यं वितरति चित्रकृत्समूहः ॥ ३८ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते^५ समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
मानोत्पत्तिर्नाम चतुः(पञ्च)सप्ततितमोऽध्यायः !
अथ प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः ।
प्रतिमानामथ ब्रूमो लक्षणं द्रव्यमेव च ।
सुवर्णरूप्यता(म्राः^६ स्युर्दारुलेखानि ?) शक्तितः ॥ १ ॥
चित्रं चेति विनिर्दिष्टं द्रव्यमर्चासु सप्तधा ।
सुवर्णं पुष्टिकृद् विद्याद् रजतं कीर्तिवर्धनम् ॥ २ ॥
प्रजाविवृद्धिदं^७(दं) ताम्रं शैलेयं भूजयावहम् ।
आयुष्यं दावरच(रवं^८) द्रव्यं लेख्यचित्रे धनावहे ॥ ३ ॥
प्रारभेद् विधिना प्राज्ञो ब्रह्मचारी जितेन्द्रियः ।
हविष्यनियताहारो^१० जपहोमपरायणः ॥ ४ ॥
शयानो धरणीपृष्ठे (कुशास्तरणे^११ तदन्तरम् ?)* ।
अप्राप्तौया(?)^१२ द्वयोर्मध्यं भवेत् पञ्चाक्षिसम्मितम् ॥ ५ ॥
१ द. भु । २ द. जानीतां । ३ मुद्रित पुस्तके ‘दिव्यादिष्वखिल’ इति स्यात् । ४ द. स्यै ।
५ द. इतः पूर्वं परमेश्वर इत्यधिकः पाठः । ६ मुद्रित पुस्तके ‘म्राम्रशारुलेख्यानि’ इति स्यात् । ७ द. °द्वये
तोम्रशै° । ८ द. त्र । ९ द. प्रारेमे वि° । १० द. °रा जयं होमं प° । ११ द. ण । १२ द. °प्रयोः ।

  • इत उत्तरं वाक्यपरिसमाप्त्यदर्शनात् प्रक्रमान्तरसङ्क्रमणाच्च कियांश्चिद् ग्रन्थपातः संभाव्यते ।