सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 610, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 610

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । २४९
तथामरावती ज्ञेया रत्नचूंमा च नामतः ।
त्रिदशेन्द्रसभा चैव तथान्या देवयन्त्रिका ॥ ७ ॥
चत्वारिंशद्द्वि( दि )तीयं स्यादेकोना नामसंख्यया ।
(यैमलाम्बरधरा नेत्रा दद्युडाः खण्डिला सिता ?) ॥ ८ ॥
अथातः कथ्यते तासां प्रविभागो यथा यथा ।
जगतीनां क्रमेणैव शालानां च यथोदितः ॥ ९ ॥
चतुरश्रीकृते क्षेत्रे (षडेते स ?)विभाजिते ।
समं वा सार्धयुक्ते वा ⁶गुणेऽथ सुखायतम्( ? ) ॥ १० ॥
मण्डपेनोज्झिते कुर्याज्जगतीमनुसारतः ।
द्वौ भागौ मध्यदेशे स्यात् प्रासादो भागिको भ्रमः ॥ ११ ॥
(कर्णदृशां समुज्य ?) पार्श्वयोरुभयोः पुरः ।
श्रीखण्डिका विधातव्याः प्रासादमं + + मिमाम् (?) ॥ १२ ॥
मत्तवारणसंयुक्ता प्रतोत्यादिविभूषिता ।
प्रथमे( मा ) च समाख्याता जगती वसुधाभिधा ॥ १३ ॥
वसुधा वसुधारा स्यात् समायुक्ताग्रशालया ।
निर्गमः पुरतः कार्यः प्रासादस्य प्रमाणतः ॥ १४ ॥

  • विस्तारस्तथा कार्यस्तं चतुर्धा विभाजयेत् ।
    भागिका भ्रमणी कार्या शेषशाला द्विभागिका ॥ १५ ॥
    शुण्डिका चापि पूर्वोक्तमानेनैवायता⁷ भवेत् ।
    वसुधा च पुनः कर्णशालाभ्यां राजसिंहिका ॥ १६ ॥
    प्रासादार्धेन ते कार्ये( र्ये ) कर्णयोरुभयोरपि ।
    स्वमानार्धेन च तयोर्भ्रमणीं परिकल्पयेत् ॥ १७ ॥
    मूलप्रासादविस्तारा कर्तव्या शुण्डिका पुरा ।
    शाला स्याद् वसुधा⁸ राजहंसाः( ? ) पुरो यदा ॥ १८ ॥
    १ द. चूडा । २ द. ममा । ३ द. न्य । ४ द. द्विदि । ५ मु. पाठस्तु 'यमलाम्बुधरा नेत्रा
    दोर्दण्डा खण्डला सिता' इति स्यात् । ६ द. द्विगुणे । ७ द. शुंडिका स विं° । ८ द. तो । ९ द. रा च ।