सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 611, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 611

२९० समराङ्गणसूत्रधारे
श्रीधरी सा तदा तस्याः ( सुरोयचन्द्र ? ) पूर्ववत् ।
यदा तु हंसिकास्थाने शाले¹ स्तोऽपरकर्णयोः ॥ १९ ॥
तद्रूपे तत्प्रमाणे च तदा सा भद्रिका भवेत् ।
चतुरश्रीकृते क्षेत्रे षोडशांशविभाजिते ॥ २० ॥
पूर्वोक्तक्रमसम्पन्ने यथाकामं मुखाग्रते ।
मण्डपायामसंयोगाद् यथाभागं विभाजिते ॥ २१ ॥
मध्ये देवालयः कार्यश्चतुर्वर्गपदान्वितः ।
बहिर्द्विपदविस्तारो भ्रमस्तस्य समन्ततः ॥ २२ ॥
कर्णे कर्णे च कर्तव्या द्विपदायामविस्तृता ।
चतुर्दिशं कर्णशाला या (पदि ?)भ्रमणान्विता ॥ २३ ॥
पदद्वितयविस्तारौ त्रिपदायामसंयुँता ।
पदिका च भ्रमर्णा⁴(?) कार्या भद्रशालाश्च सुन्दराः ॥ २४ ॥
वार्यन्तराणि परितः कुर्यान्मध्येपु शालयोः ।
पदमेकं प्रविष्टानि तदर्धं विस्तृतानि च ॥ २५ ॥
शालायाः पृष्ठभद्रे स्यादेकभद्रद्विर्भंद्रिका⁵(?) ।
(कृपोकृताभ्यां त्रिभद्राणि पृष्ठकुक्षिषु ?) ॥ २६ ॥
शालाभिः स्याँ(श्रा)थ⁷ तिसृभिर्जगती भद्रमालिनी ।
एकभद्रादिचतुष्टयम् ॥
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ॥ २७ ॥
षड्वर्गलक्षणोपेतो मध्ये कार्यः सुरालयः ।
देवालर्य(स्य)परितस्त्रिपदः स्यात् परिभ्रमः ॥ २८ ॥
नतः शालाविभक्तिश्च कर्तव्या प्रोक्तलक्षणा ।
पञ्चभागायता मध्ये(भूचतुविस्तृता ?) पदैः ॥ २९ ॥
भद्रशालाश्च कर्तव्यास्तन्मध्ये भागिकक्रमः ।
भद्रस्य पार्श्वद्वितये द्वित(प)दायामविस्तृतम् ॥ ३० ॥
१ द. ल । २ द. रन्नि । ३ द. विसंयुता । ४ द. णाः । ५ द. भागिका । ६ द. कुयोः
कृताभ्यां शालाभ्यां त्रिभद्रा पृष्ठिकुक्षिषु । ७ द. स्यात्तत्त सू° । ८ द. यं । ९ द. चतुर्भिर्र्वे ।