सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 608, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 608

जगत्त्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः । ५४७
कुम्भस्य खुरका(कं)भागं द्विभागं कुम्भकं तथा ।
कलशं भागिकोत्सेधं तथैवान्तरपत्रकम् ॥ ४१ ॥
वरण्डीं भागिकीं कुर्यात् तथा पट्टं च भागिकम् ।
जगत्याः खुरकाद् भागं ( १प्रविशोकोद्गकः सुरः ? ) ॥ ४२ ॥
पट्टो२ भागेन सार्धेन प्रतिष्ठां३जगतीखुरान् ।
(खुरकारकुम्भकाकिश्चित्कुम्भका क्षणकस्तथा ?) ॥ ४३ ॥
(कणकादन्तरपत्र४ ?) कपोतालीं ५तथैव च ।
पट्टिकानां प्रवेशांश्च नासिकावर्तनास्तथा ॥ ४४ ॥
निम्नोनतप्रवेशांश्च विदधीत मनोहरान् ।

  • थिकाभिर्विचित्राभिः कूटैश्चानेकशेखरैः ॥ ४५ ॥
    सुविभक्ता विधातव्याः शालानां कन्दकामू(स्त)ले ।
    कर्माण्यतिविचित्राणि स्थानस्थानोचितानि तु७ ॥ ४६ ॥
    कुर्यात् पीठेषु शोभार्थं प्रासादानां विचक्षणः ।
    यथा सिंहासनं राज्ञां८ शोभते मणिदीप्तिभिः ॥ ४७ ॥
    तथा प्रासादराजस्य पीठं कर्मभिरुत्तमैः ।
    पट्टस्योर्ध्वं विधातव्यमुत्कृष्टं राजसेनकम् ॥ ४८ ॥
    पुष्पितैः कमलैर्युक्तं शोभितं भारपुत्रकैः ।
    तदर्धं वेदिका देया नानापत्रसमाकुला ॥ ४९ ॥
    (रूपं संघटकोपेता ततश्चासमघट्टकः ।
    स्तम्भिकाभिरनेकाभिर्धारयेत् तं समन्वितः ? ) ॥ ५० ॥
    तस्योपरि विधातव्यं (करण्ड्यासनसमुत्तमम्९ ? ) ।
    अन्तरं कर्णशालानां तलपादार्धपट्टयोः ॥ ५१ ॥
    राजसेनयुतां वेदीं तत् त्रिभागेन कारयेत् ।
    वेदिकार्धं त्रिभागं वा तले स्याद् राजसेनकम् ॥ ५२ ॥
    १ द. प्रविशेत्कौभकः सुरः । २ द. दो । ३ द. विष्टो । ४ द. दान्तर । ५ द. ततोऽपि च ।
    ६ द. नौ । ७ द. ति । ८ द. ज्ञः । ९ द. क्ष्या । १० द. तावेदि ।