समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 607, कुल 726 में से
संदर्भ में पढ़ें५४६ समराङ्गणसूत्रधारे
रु(भ)द्राद् भ्रमोऽयं न पुनः कर्णनिर्गमधारिणाम् ।
रुचकस्येवं कर्तव्यः कर्णदेशात् परिक्रमः ॥ २९ ॥
शालानुसारतो भद्रे विस्तरैः कन्दकाद् बहिः ।
कर्तव्यो निर्गमस्तत्र बुद्धैः पदचतुष्टयम् ॥ ३० ॥
उदकान्तरविस्तारो भागेनार्धेन वा क्वचित् ।
प्रजाङ्गस्य विधातव्यं क्षोभणं५ च पदद्वयम् ॥ ३१ ॥
प्रासादस्य च विस्तारं दत्त्वाग्रे सलिलान्तरम् ।
गण्डौ तत्सूत्रगौ कार्यौ भ्रमाद् द्विपदनिर्गतौ६ ॥ ३२ ॥
प्रासादानां तु विस्तृत्या स्युरेकद्वित्रिनिघ्नया(?) ।
कर्णाद् विनिस्सृतौ गण्डौ ज्येष्ठमध्यकनीयसा(म्) ॥ ३३ ॥
(भवग्रे सुण्डिकाः ?) कार्याः कर्णशालाविनिर्गमः(ताः) ।
मालांसोपानसंयुक्ताः प्रतीहारसमाकुलाः ॥ ३४ ॥
प्रतोली चाग्रतः कार्या सपटो + र्गला दृढा ।
ब्रूमोऽथ जगतीपीठं तत् कुर्यादेकहस्तके ॥ ३५ ॥
प्रासादे विस्तृतेस्तुल्यसमुत्सेधे१० विचक्षणः ।
द्विहस्तके तु पादोनं त्र्यंशहीनं त्रिहस्तकेम् ॥ ३६ ॥
चतुर्हस्ते (तु) कर्तव्ये सार्धहस्तद्वयोच्छ्रितम् ।
चतुरिष्टा१३ त्र्यंया१४ चं + + + द्वादशहस्तकम् (?) ॥ ३७ ॥
कनीयोमध्यमज्येष्ठानुदयान् कल्पयेत् क्रमात् ।
अर्धं वा कर्णशालायाः पादोनं१५ वाथ तत्समम् ॥ ३८ ॥
अनेन (च) प्रकारेण ज्येष्ठमध्यमयोरपि ।
प्रासादयोर्जगत्युच्चा कर्णप्रासादमानतः ॥ ३९ ॥
पीठस्य यः समुत्सेधो१६ + + + तं विभाजयेत् ।
भागेन खुरकं कुर्याद् भागेनैकेन वर्त्मना(?) ॥ ४० ॥
१ द. स्यै । २ द. स्त । ३ द. स्य । ४ द. पा । ५ द. णां । ६ द. मौ । ७ द. तदग्रे
सुंडिगा । ८ द. माः । ९ द. ता । १० द. ध । ११ द. के । १२ द. तिः । १३ द. न्व ।
१४ द. त्र्याव ं । १५ द. नवार्थम् । १६ द. धो ।