समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 606, कुल 726 में से
संदर्भ में पढ़ेंआसनाधार्त्तु पञ्चाशच्छाला(?) प्रासादतो भवेत् ।
बहुदेवकुला या तु प्रासादस्यानुसारतः ॥ १७॥
ब्रूमः प्रकाराञ् शालानां यथायोगमिहाधुना ।
कर्णोद्गवा भ्रमोच्छा(त्था) च भद्रजा गर्भसम्भवा ॥ १८॥
मध्यजा पार्श्वजा चेति भेदास्तासां भवन्ति षट् ।
(विस्तारायामतौर्यैभिः कर्णजा पूर्वमारिणा ?) ॥ १९ ॥
भ्रमजा तत्प्रमाणेन ++पादेन³ वेष्टिता ।
भद्रजा कर्णजातीया सार्धायार्म्यै(मा) प्रकीर्तिता ॥ २०॥
गर्भजा मध्यजा चेति कर्णजायस(त)सम्मिते ।
पार्श्वजा भ्रमजायासा(मा) स्थानं तासामथोच्यते ॥ २१ ॥
कर्णेषु कर्णजा ख्याता भ्रमजा च परिभ्रमे ।
भद्रेषु भद्रजा ज्ञेया त्रैयमध्ये च गर्भजा ॥ २२॥
मध्ये व्यवस्थिता या तु पञ्चानां मध्यजा तु⁵ सा ।
(पार्श्वसंस्थानश्चतस्रो यास्तांसां शान्ताः ?) पार्श्वद्वये⁷ स्मृताः ॥२३॥
पार्श्वद्वयं स्युः कर्णानां +⁹⁰ स्ता अपि च पार्श्वजाः(?) ।
प्रासादविस्तृतेरर्धं विधातव्या भ्रमन्तिका ॥ २४ ॥
(पदवृद्धतिबाह्यस्याः कन्दा दिक्षु +++ च ।
सुरसद्मानुसारेण कुर्यादष्टौ विचक्षणः ॥ २५ ॥
(आरभ्य भद्रमाल्या यावत् त्रिंशमत्रिकाम्?) ।
नवाण्डकाया यावत् स्यादेकत्रिंशत्तमे¹¹ क्रमात् ॥ २६॥
शालाकन्दाः स्मृतास्तासां चतुर्वर्गविभाजिताः ।
चतुष्पदा तत्र सास्यों(?) स्याद् द्वादशपदो भ्रमः ॥ २७॥
क्रमेणानेन कर्तव्यं शालाकन्दनिवेशतः (नम्) ।
तदूर्ध्वं तु भ्रमो नास्ति शालागणविभाजने ॥ २८॥
१ द. भू । २ द. स्या । ३ द. नार्द्धेन । ४ द. माः । ५ द. यत्र । ६ द. गर्ज° । ७ द. ति ।
८ द. स्तां । ९ द. त्रय । १० द. यास्तां । ११ द. मी । १२ द. सा ।
वा ६९