सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 605, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 605

विना 'तमङ्गप्रत्यङ्गा कल्पना नापि + क्रमम् (?) ।
विभक्तिं² तिलकन्दानां भद्रविस्तारनिर्गमम् ॥ ५ ॥
जलाधार(प्रँदोश्च³ ?) प्रवेशं निर्गमोद्गमम् ।
मानसंख्यां⁴ च शालानां संस्थानोन्मानलक्षणम्⁵ ॥ ६ ॥
परिक्रमं (⁶तमैवासां ?)संज्ञां च त्रिविधामपि ।
षट्प्रैकारत्वमे⁷(र्वासां ? ) सम्भवस्य च कारणः( णम् ) ॥ ७ ॥
मूलशालो(ला )परिच्छित्तिं परिक्रमविनिर्गमम् ।
सश्रयद्वारसोपानमुण्डिकामण्डसम्भवा(न्⁸) ॥ ८ ॥
द्विग्यादि⁹देवताधिष्ण्यौज्जगतीस्तोरणानि च (?) ।
युक्तानि लक्षणैः सर्वैर्यथावत् सम्प्रचक्ष्महे ॥ ९ ॥
चतुरश्रा समा शस्ता मनोज्ञा सर्वतःप्लवा ।
अंशप्रगूढदिग्भागा प्रासादानुगता शुभा ॥ १०¹⁰ ॥
चतुरश्रायता यद्वा वृत्ता वृत्तायंता तथा ।
अष्टाश्रिर्वा विधातव्या सा संशोध्योदितः क्षितिम् ॥ ११ ॥
निरूप्य त्रिदशागारं संस्थानोन्मानलक्षणैः¹¹ ।
तदाकारवतीं¹² पार्श्वे जगतीं तस्य योजयेत् ॥ १२ ॥
कनीयसी मध्यमा च ज्येष्ठा चेति त्रिधैव सा ।
कनीयः प्रभृतिष्वेताः प्रासादेषु नियोजयेत् ॥ १३ ॥
जगत्यो(भरमणीभिः स्फारौकद्वित्रिस्त्रिभिः ?) क्रमात् ।
(नानाशातिशान्ति¹³न्यकनिष्ठाद्या ?) मनोरमाः ॥ १४ ॥
प्रासादस्यानु(नु )रूपेण साङ्गोपाङ्गादिसंख्यया ।
शालास्तासां मताः कर्म प्रोच्यते सामुदायिकम् ॥ १५ ॥
(श्री आ द्वादशकरादूर्ध्वमोर्ध्वा ?) विंशतिहस्ततः ।
शालात्रिभागं तुर्यांशः स्याद्वा द्वात्रिंशैंतः¹⁴ पुनः(?) ॥ १६ ॥
१ द. ग। २ द. क्ति। ३ द. मुद्रित पुस्तके 'प्रदेशांश्च' इति स्यात्। ४ द. ख्या।
५ द. णा। ६ मुद्रित पुस्तके 'तमङ्गानाम्' इति स्यात्। द. तथैतासां संज्ञं च। ७ द. प्रा। ८ द. ता।
९ द. ग्यां ज। १० द. तस्तथा। ११ द. णः। १२ द. ती। १३ द. क्निन्यः क। १४ द विंशता।