समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 597, कुल 726 में से
संदर्भ में पढ़ें५३६ समराङ्गणसूत्रधारं
यानि प्रासादनामानि तानि स्युर्मण्डपेष्वपि ।
वास्तुभेदेन भेदोऽयं मण्डपानां विधीयते ॥ २५ ॥
शतार्धमण्डपस्थानं (नीलार्धं¹ भोजनाय च ?)।
यज्ञार्थो यतिमुख्यार्था विहा(रो²)र्थो नृपालदो(१) ॥ २६ ॥
कार्यो (दशभ्य ?) विस्तारो ++नु³ शतावुधेः ।
हस्तानां संख्यया मानं हस्तेन स्याद् गृहेषितुः ॥ २७ ॥
उपयोगानुसारेण स्वधिया परिकल्पितः ।
आयतश्चतुरश्रो वा कर्तव्यो नाट्यमण्डपः ॥ २८ ॥
शतमष्टोत्तरं ज्येष्ठश्चतुःषष्टिकरोऽवरः ।
कनिष्ठो मण्डपः कार्यो द्वात्रिंशत्करसंमितः ॥ २९ ॥
अर्द्धविस्तारोऽस्य स्यान्नेपथ्यगृहकादि तु (?)।
परिच्छेदानुसारेण स्वधिया परिकल्पयेत् ॥ ३० ॥
द्वारद्वयं च कर्तव्यं तत्प्रमाणानुसारतः ।
नेपथ्यगृहके चान्यत् तृतीयं रङ्गसम्मुखम् ॥ ३१ ॥
समैः क्षणैः समैः स्तम्भैरालिन्दैश्च समैर्युताः ।
समकर्णाः समा द्रव्यविधेयां मण्डपाः शुभाः ॥ ३२ ॥
(भित्तिमां चतुरस्रस्यात् ?) कार्यः कामं सनिर्गमः ।
स्तम्भकोणाश्रितं मानं भित्तिः स्यान्मानबाह्यतः ॥ ३३ ॥
वेदिर्मण्डपभूषायैः स्यान्मध्ये बाह्यतोऽपि वा ।
⁸क्षेत्रलोभे तु कर्तव्या भित्तिमानस्य मध्यतः ॥ ३४ ॥
चतुःषष्टिपदं¹¹ ज्येष्ठे भद्रं कुर्याच्चतुष्पदम् ।
एकाशीतिपदं मध्ये भद्रं स्यात् पञ्चभागिकम् ॥ ३५ ॥
(सततौगा¹² ?) विभक्ते तु खण्डशः स्यात् कनीयसि ।
कर्णा द्विभागिकाः कार्या भित्तियुक्तश्च मण्डपः ॥ ३६ ॥
१ द. र्थं । २ द. र्थायं । ३ द. भो । ४ द. या । ५ द. व्य । ६ द. द्वि । ७ द. ध्या ।
८ द. रं । ९ द. यो । १० क्षेत्रालामे । ११ द. दे । १२ द. भा ।