सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 596, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 596

सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः । ५३५
दिक्त्रये प्रतिभद्राणि मुखे प्राग्ग्रीव एव हि ।
पुष्पभद्रो (१तिस्तम्भश्चतुष्कः सुप्रभो?) भवेत् ॥ १३ ॥
इति स्तम्भद्वयत्येगाद् ब्रूमो मण्डपविंशतिम् ।
(यो पुष्पभद्रस्तु व्रतोऽमृतनन्दनः?) ॥ १४ ॥
कौसल्यो (युद्धि?)संकीर्णो गजभद्रो जयावहः ।
श्रीवत्सो विजयश्चैव वस्तुकीर्णश्रुतिर्जयः ॥ १५ ॥
यज्ञभद्रो विशालश्च सुश्लिष्टः शत्रुवर्धनः ।
(३भार्यवो?) दमश्चैव मानवो मानभद्रकः ॥ १६ ॥
सुग्रीवो मण्डपः प्रोक्तो भद्रैर्युक्तश्चतुष्पदैः ।
चतुर्भिस्त्रिपदैः कर्णैर्निर्गमैः प्रागुदाहृतैः ॥ १७॥
धराणामेव विंशत्या चतुरुत्तरयां युतः ।
(अस्मद्वासस्तम्भं षडन्ये द्विघरक्षयात्?) ॥ १८ ॥
सुग्रीवो हर्षणनामा च कर्णिकारः पदार्धिकः ।
सिंहश्च सा(ग?)भद्रश्च (सुस्तत्र?) श्चेति सप्तमः ॥ १९ ॥
५सप्तविंशतिरित्युक्ता मण्डपानां समासतः ।
एषां विचित्ररूपाणां प्रासादाकृतिधारिणाम् ॥ २० ॥
मिश्रकाश्च परिज्ञेया हस्तैर्द्विकैमानतः ।
मूलप्रासादतुल्या वा ६त्र्यंशोनार्धेन चौर्जिताः ॥ २१ ॥
द्विस्तम्भशुकनासाग्रे विज्ञेयः पादमण्डपः ।
प्रासादभित्तिमानेन मण्डपे भित्तयः स्मृताः ॥ २२ ॥
(सपादसत्रिभागा वा ८वी स्यु+++++?)।
क्वचिद् भित्तिविहीनांश्च कुर्यादाकाशमण्डपान् ॥ २३ ॥
लतिष्वेष विधिः प्रोक्तः सान्धारेषु खमानतः ।
प्रासादो याहशश्नाहङ् मण्डपोऽपि तदग्रतः ॥ २४ ॥
१ द. नि । २ द. त्यागाद्नो मंडपविंशतिः । पुश्ककः । ३ द. भार्यचोददमैश्चैव । ४ द. सप्ता ।
५ द. क्षापरे । ६ द. अं । ७ द. बोज्जिताः । ८ द. ले । ९ द. चो । १० द. नाश्च । ११ द. श ।