सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 568, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 568

दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ६०७
स स्वर्गे सुरनारीभिः सेव्यते मदनाज्ञया ।
अथ श्रीवर्धनमानस्य लक्ष्म साम्प्रतमुच्यते ॥ ७९ ॥
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।
कोणाः षड्भागिकाः कार्याः शालाः स्युर्नवभागिकाः ॥ ८० ॥
सार्धं पदद्वयं कार्यः १ शालानामत्र निर्गमः ।
कुर्याज्जलान्तरं तत्र मध्यतः कोणशालयोः ॥ ८१ ॥
विस्तृतं सार्धभागेन प्रविष्टमपि भागतः ।
(कोणे मध्यं ? ) विधातव्यं भागेनैवोदकान्तरम् ॥ ८२ ॥
नवांशकृ(क्लृ)प्तशालायाः प्रत्यङ्गौ द्वावुदाहृतौ ।
भागं ३ द्वितयविस्तारौ भागेनैकेन निर्गतौ ॥ ८३ ॥
चतुर्दशपदो गर्भो ४ भित्तिः पञ्चपदा स्मृता ।
ऊर्ध्वमानमथ ब्रूमस्तदस्य द्विगुणं भवेत् ॥ ८४ ॥
वेदिका षट्पदोत्सेधा जङ्घैकादशभिः पदैः ।
प्रथमा भूमिका चास्य कार्या सप्तांशकोच्छ्रिता ॥ ८५ ॥
पादोनैः सप्तभिर्भागैर्द्वितीया भूमिकेष्यते ।
तृतीया भूमिका षड्भिः सपादैर्जायते पदैः ॥ ८६ ॥
(पादेन षट्कौ ? ) भागेन चतुर्थी भूमिका स्मृता ।
भागं भागं विधातव्यः प्रवेशः प्रतिभूमिकम् ॥ ८७ ॥
सपादैः पञ्चभिर्भागैः कार्यों घण्टासमुच्छ्रयः ।
भागत्रयसमुत्सेधस्तदूर्ध्वं कलशो भवेत् ७ ॥ ८८ ॥
सुकाघ्रासूरसेनश्च स्तम्भिकाकूटभक्तयः ।
कार्या पूर्वोक्तमार्गेण विचित्रकर्मोपशोभिताः ॥ ८९ ॥
१ द. र्य । २ मु. पु. 'कोणमध्ये' इति स्यात् । ३ द. भागं द्वि° । ४ द. र्भो । ५ द. पा ।
६ मु. प्रतौ 'पादेन षट्क' इति स्यात् । ७ द. दूर्ध्व । ८ मुद्रित पुस्तकानुसारेण इत ऊर्ध्वं मातृकायां
पत्रमेकं (२३३ तमं) लुप्तम् परन्तु 'द.' पुस्तकानुसारतः 'सुकाघ्रा......अष्टाविंशति पदाङ्किते' इत्यन्तं
अधिकः श्लोकपाठ उपलभ्यते ।